Today we will look at the form गन्ता 3As-लुँट् from श्रीमद्भागवतम् 10.2.22
किमद्य तस्मिन्करणीयमाशु मे यदर्थतन्त्रो न विहन्ति विक्रमम् ।
स्त्रियाः स्वसुर्गुरुमत्या वधोऽयं यशः श्रियं हन्त्यनुकालमायुः ।। १०-२-२१ ।।
स एष जीवन्खलु सम्परेतो वर्तेत योऽत्यन्तनृशंसितेन ।
देहे मृते तं मनुजाः शपन्ति गन्ता तमोऽन्धं तनुमानिनो ध्रुवम् ।। १०-२-२२ ।।
श्रीधर-स्वामि-टीका –
ननु सन्ति सामादय उपायाः, नेति स्वयमेवाह । अयमर्थतन्त्रो देवकार्यप्रधानो विक्रमं न विहन्ति । मद्वधे पराक्रमं करिष्यत्येवेत्यर्थः । यद्वा तर्हीदानीमेवेयं हन्यतामिति विचिन्त्याह – अर्थतन्त्रोऽपि पुमान्स्वं विक्रमं न विहन्ति न नाशयति । स्त्रीवधे तन्नाशः स्यादिति भावः । तदेवाह – स्त्रिया इति । गुरुमत्या गुर्विण्याः ।। २१ ।। किंच स एष जीवन्नपि मृतः स्यात् । नृशंसितेन क्रौर्येण यो वर्तेत तं जीवन्तमेव मनुजाः शपन्ति दुर्वाक्यैर्धिक्कुर्वन्ति । स च देहे मृते तनुमानिनः पापिनो नरस्य नरकं गच्छति । अथवा शापप्रकारमेवाह – तनुमानिनोऽस्य देहे मृतेऽयं ध्रुवमन्धं तमो गमिष्यतीति ।। २२ ।।
Gita Press translation “What should be speedily done by me now with reference to him? For (if I attempt to make short work of him, the moment he is born) he is not going to withhold his prowess (even as a new-born babe would do), intent as he is on his purpose (of advancing the interests of the gods). (And if I dispose of Devakī herself, before my enemy is born,) such destruction of Devakī (my cousin), who is not only a woman but enceinte (too), will forthwith mar my reputation and prosperity and cut short my life. Such a one is indeed (as good as) dead, though breathing, who lives by most atrocious deeds; (for) people curse such a man (even during his lifetime) and, when his body gets defunct, he is surely destined to go to hell (consisting of blinding darkness), the inevitable fate of one identifying oneself with the body.”
गन्ता is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)।
In the धातु-पाठः, the धातुः √गम् has one इत् letter – the ऌकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus √गम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √गम् takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √गम् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: is “तिप्”।
The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
(1) गम् + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.
(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) गम् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।
(4) गम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) गम् + तासिँ + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.
Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप् etc.
(6) गम् + तास् + ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
See question 2.
(7) गम् + तास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”।
(8) गम् + तास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
(9) गम् + त् + आ । By 6-4-143 टेः, when the अङ्गम् has the भ-सञ्ज्ञा, then its “टि” portion (ref. 1-1-64 अचोऽन्त्यादि टि) takes लोप: when followed by an affix that has डकारः as an indicatory letter.
See question 3.
(10) गंता । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.
(11) गन्ता । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.
Questions:
1. Where is √गम् (गमॢँ गतौ १. ११३७) used with लुँट् in the गीता (Chapter Two)?
2. Why doesn’t 7-2-35 आर्धधातुकस्येड् वलादेः apply after step 6?
3. Why does 6-4-143 टेः apply in step 9 in spite of the fact that the अङ्गम् “गम् + तास्” does not have the भ-सञ्ज्ञा?
4. Where has विधि-लिँङ् been used in the verses?
5. Where has विधि-लिँङ् been used in the commentary?
6. Use some words from the verse to construct the following sentence in Sanskrit:
“One who eats meat is surely destined to go to hell.” Use the neuter प्रातिपदिकम् “मांस” for “meat”, use √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७) for “to eat” and the masculine/neuter प्रातिपदिकम् “नरक” for “hell.” Use appropriate forms of the pronouns “यद्” and “तद्”।
Easy questions:
1. Can you spot a “आट्”-आगम: in the verses?
2. Can you a “असुँङ्”-आदेश: in the commentary?
Questions:
1. Where is √गम् (गमॢँ गतौ १. ११३७) used with लुँट् in the गीता (Chapter Two)?
Answer: √गम् (गमॢँ गतौ १. ११३७) is used with लुँट् in the गीता (Chapter Two) in the form गन्तासि।
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च || 2-52||
The विवक्षा is लुँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
गम् + लुँट् । By 3-3-15 अनद्यतने लुट्।
= गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गम् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= गम् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गम् + तासिँ + सि । By 3-1-33 स्यतासी लृलुटोः।
= गम् + तास् + सि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
= गम् + ता + सि । 7-4-50 तासस्त्योर्लोपः।
= गंता+ सि । By 8-3-24 नश्चापदान्तस्य झलि।
= गन्तासि । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।
2. Why doesn’t 7-2-35 आर्धधातुकस्येड् वलादेः apply after step 6?
Answer: 7-2-35 आर्धधातुकस्येड् वलादेः did not apply after step 6 because of the निषेध-सूत्रम् 7-2-10 एकाच उपदेशेऽनुदात्तात्, a “इट्”-आगम: is prohibited for a आर्धधातुक-प्रत्यय: when it follows a धातु: which in the धातु-पाठ: has only one vowel with a अनुदात्त: accent.
In the धातु-पाठ:, among the verbal roots which have a single vowel and which end in a consonant, only the 103 are अनुदात्ता:। The धातुः √गम् (गमॢँ गतौ १. ११३७) is one of them.
3. Why does 6-4-143 टेः apply in step 9 in spite of the fact that the अङ्गम् “गम् + तास्” does not have the भ-सञ्ज्ञा?
Answer: 6-4-143 टेः applies in step 9 in spite of the fact that the अङ्गम् “गम् + तास्” does not have the भ-सञ्ज्ञा because otherwise no purpose would be served by having डकार: as a इत् in the प्रत्ययः “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
4. Where has विधि-लिँङ् been used in the verses?
Answer: विधि-लिँङ् has been used in the verses in the form वर्तेत derived from the धातुः √वृत् (वृतुँ वर्तने, धातु-पाठः १. ८६२). The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
वृत् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
= वृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वृत् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= वृत् + सीयुट् त । by 3-4-102 लिङस्सीयुट्, 1-1-46 आद्यन्तौ टकितौ।
= वृत् + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
= वृत् + शप् + सीय् त । By 3-1-68 कर्तरि शप्।
= वृत् + अ + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= वर् त् + अ + सीय् त । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
= वर् त् + अ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= वर् त् + अ + ई त । By 6-1-66 लोपो व्योर्वलि।
= वर्तेत । गुणादेशः by 6-1-87 आद्गुणः।
5. Where has विधि-लिँङ् been used in the commentary?
Answer: विधि-लिँङ् has been used in the commentary in the form स्यात् derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०). The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्|
= अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।
= अस् + त् । 3-4-100 इतश्च।
= अस् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ ।
= अस् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= अस् + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
= अस् + यास् त् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
= अस् + या त् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= स्यात् । By 6-4-111 श्नसोरल्लोपः।
Note: The प्रत्यय: “यात्” is a ङित् due to यासुट् being a ङित्। This allows 6-4-111 to apply.
6. Use some words from the verse to construct the following sentence in Sanskrit:
“One who eats meat is surely destined to go to hell.” Use the neuter प्रातिपदिकम् “मांस” for “meat”, use √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७) for “to eat” and the masculine/neuter प्रातिपदिकम् “नरक” for “hell.” Use appropriate forms of the pronouns “यद्” and “तद्”।
Answer: यः मांसम् भुङ्क्ते सः ध्रुवम् नरकम् गन्ता = यो मांसं भुङ्क्ते स ध्रुवं नरकं गन्ता ।
Easy questions:
1. Can you spot a “आट्”-आगम: in the verse?
Answer: A “आट्”-आगम: in the verse is seen in the form गुरुमत्याः (स्त्रीलिङ्ग-प्रातिपदिकम् “गुरुमती”, षष्ठी-एकवचनम्) and स्त्रिया: (स्त्रीलिङ्ग-प्रातिपदिकम् “स्त्री”, षष्ठी-एकवचनम्)।
गुरुमती + ङस् । By 4-1-2 स्वौजसमौट्छष्टा…। “गुरुमती” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
= गुरुमती + आट् ङस् । By 7-3-112 आण्नद्याः – The ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment. As per 1-1-46 आद्यन्तौ टकितौ this आगमः attaches to the beginning of the प्रत्यय: “ङस्”।
= गुरुमती + आ अस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: in “ङस्” from getting इत्सञ्ज्ञा।
= गुरुमती + आस् । By 6-1-90 आटश्च – a वृद्धिः letter is a single replacement when आट् is followed by a vowel.
= गुरुमत्यास् । By 6-1-77 इको यणचि।
= गुरुमत्याः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
Similarly,
स्त्री + ङस् । By 4-1-2 स्वौजसमौट्छष्टा…। “स्त्री” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
= स्त्री + आट् ङस् । By 7-3-112 आण्नद्याः – The ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment. As per 1-1-46 आद्यन्तौ टकितौ this आगमः attaches to the beginning of the प्रत्यय: “ङस्”।
= स्त्री + आ अस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: in “ङस्” from getting इत्सञ्ज्ञा।
= स्त्री + आस् । By 6-1-90 आटश्च – a वृद्धिः letter is a single replacement when आट् is followed by a vowel.
= स्त्र् इयँङ् + आस् । By 6-4-79 स्त्रियाः – There is a substitution of “इयँङ्” in place of the term “स्त्री” when followed by a प्रत्यय: beginning with a vowel. As per 1-1-53 ङिच्च, only the ending ईकार: in “स्त्री” is replaced by “इयँङ्”।
= स्त्रिय् + आस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= स्त्रिया: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Can you spot a “असुँङ्”-आदेश: in the commentary?
Answer: A “असुँङ्”-आदेश: in the commentary is seen in the form पुमान् (पुंलिङ्ग-प्रातिपदिकम् “पुम्स्”, प्रथमा-एकवचनम्)।
पुम्स् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। “सुँ” has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
= पुम् असुँङ् + सुँ । By 7-1-89 पुंसोऽसुङ् – When the intention is to add a सर्वनामस्थानम् affix, “पुम्स्” gets the असुँङ् replacement. As per 1-1-53 ङिच्च, only the ending सकार: in “पुम्स्” is replaced by “असुँङ्”।
= पुमस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: Due to the presence of “असुँङ्”, the अङ्गम् “पुमस्” is उगित् – has an उक् (“उ”, “ऋ”, “ऌ”) as a marker.
= पुम नुँम् स् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः – A non-verbal base with an उक् (“उ”, “ऋ”, “ऌ”) as a marker and the verbal base “अञ्चुँ” whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the अकार: after the मकार:) in “पुमस्”।
= पुमन्स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= पुमान्स् + स् । By 6-4-10 सान्तमहतः संयोगस्य, since a सर्वनामस्थानम् affix which is not a सम्बुद्धिः follows, the letter preceding the नकारः in the word पुमन्स् is elongated.
= पुमान्स् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “पुमान्स्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
= पुमान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “पुमान्स्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (सकार:) of the पदम् takes लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।