Home » 2019 » September

Monthly Archives: September 2019

पाम्पानि nAp

Today we will look at the form पाम्पानि nAp from भट्टिकाव्यम् 6.72.

नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम् ।
वनानि भेजतुर्वीरौ ततः पाम्पानि राघवौ ॥ ६.७२ ॥

टीका
नन्दनानीत्यादि । तत उक्तादनन्तरं वीरौ राघवौ रामलक्ष्मणौ वनानि भेजतुः सेवितवन्तौ । एत्वाभ्यासलोपौ । ‘6-4-122 तॄफलभजत्रपश्च’ । पाम्पानीति पम्पाया अदूरम् ।’4-2-70 अदूरभवश्च’ इत्यण् । मुनीन्द्राणां नन्दनानि प्रमोदकारीणि । वनौकसां वनेचराणाम् । ‘√उच् (उचँ समवाये ४.१३५)’ । अस्मादौणादिकोऽसुन् । पृषोदरादित्वाद्वर्णविपर्ययः । वनमोको येषां तेषां रमणानि रतिजनकानि । ‘3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ इत्यादिना ल्युः । कर्मणि षष्ठी ॥ ७२ ॥

Translation – Then the two Rāghava warriors resorted to the forests, not far from the Pampā lake, which were delightful to the best sages, and pleasurable to the forest-dwellers. (72)

(1) पम्पा ङस् + अण् । By 4-2-70 अदूरभवश्च – To denote the proper name of a place that is near (not too far away from) another place, the तद्धित: affix ‘अण्’ (prescribed by 4-1-83 प्राग्दीव्यतोऽण्) may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a sixth case affix and has a base that denotes that other place.

(2) पम्पा ङस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।
Note: ‘पम्पा ङस् + अ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) पम्पा + अ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The affix ‘अण्’ is a णित् (has the letter ‘ण्’ as इत्). This allows 7-2-117 तद्धितेष्वचामादेः to apply in the next step to perform the वृद्धिः substitution in place of the letter ’अ’, which is the first vowel of the अङ्गम् ‘पम्पा’।

(4) पाम्पा + अ । By 7-2-117 तद्धितेष्वचामादेः – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.
Note: The अङ्गम् ‘पम्पा’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) पाम्प् + अ = पाम्प । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of the अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

Note: The प्रातिपदिकम् ‘पाम्प’ qualifies वनानि, which is in the neuter gender. Hence ‘पाम्प’ declines like वन-शब्दः।

Note: Some grammarians consider ‘पाम्पा’ to be part of the वरणादि-गण:। Hence in their opinion, the सूत्रम् 4-2-82 वरणादिभ्यश्च applies to perform the लुक् elision of the चातुरर्थिक: affix अण् to give the final प्रातिपदिकम् form ‘पम्पा’ which declines in the feminine singular as per the सूत्रम् 1-2-51 लुपि युक्तवद्व्यक्तिवचने। In this scenario the final declined form in the above example would be पम्पाम् (वनानि) – instead of पाम्पानि (वनानि)।

कुरूणाम् mGp

Today we will look at the form कुरूणाम् mGp from किरातार्जुनीयम् 1.1.

श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ 1.1 ॥

मल्लिनाथ-टीका
श्रिय इति । आदितः श्रीशब्दप्रयोगाद् वर्णगणादिशुद्धिर्नात्रातीवोपयुज्यते । तदुक्तम् – ‘देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा ॥’ इति । कुरूणां निवासा: कुरवो जनपदाः । ‘तस्य निवासः’ इत्यण्प्रत्ययः । ‘जनपदे लुप्’ । तेषामधिपस्य दुर्योधनस्य सम्बन्धिनीम् । शेषे षष्ठी । श्रियो राज्यलक्ष्म्याः । ‘कर्तृकर्मणोः कृति’ इति कर्मणि षष्ठी । पाल्यतेऽनयेति पालनी ताम् । प्रतिष्ठापिकामित्यर्थः । प्रजारागमूलत्वात्सम्पद इति भावः । ‘करणाधिकरणयोश्च’ इति करणे ल्युट् । ‘टिड्ढाणञ्-‘ इत्यादिना ङीप् । प्रजासु जनेषु विषये । ‘प्रजा स्यात्संततौ जने’ इत्यमरः । वृत्तिं व्यवहारं वेदितुम् ज्ञातुं यं वनेचरमयुङ्क्त नियुक्तवान् । वर्णः प्रशस्तिरस्यास्तीति वर्णी ब्रह्मचारी । तदुक्तम् ‘स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥’ एतदष्टविधमैथुनाभावः प्रशस्तिः । ‘वर्णाद् ब्रह्मचारिणि’ इतीनिप्रत्ययः । तस्य लिङ्गं चिह्नमस्यास्तीति वर्णिलिङ्गी । ब्रह्मचारिवेषवानित्यर्थः । स नियुक्तः । वने चरतीति वनेचरः किरातः । ‘भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः’ इत्यमरः । ‘चरेष्टः’ इति टप्रत्ययः । ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक् । विदितं वेदनमस्यास्तीति विदितः। परवृत्तान्तज्ञानवानित्यर्थः । ‘अर्श आदिभ्योऽच्’ इत्यच्प्रत्ययः । अथवा कर्तरि कर्मधर्मोपचाराद्विदितवृत्तान्तो विदित इत्युच्यते । उभयत्रापि ‘पीता गावः’, ‘भुक्ता ब्राह्मणाः’, ‘विभक्ता भ्रातरः’ इत्यादिवत्साधुत्वम् । न तु कर्तरि क्तः, सकर्मकेभ्यस्तस्य विधानाभावात् । अत एव भाष्यकारः ‘अकारो मत्वर्थीयः । विभक्तमेषामस्तीति विभक्ताः । पीतमेषामस्तीति पीताः’ इति सर्वत्र । अथवोत्तरपदलोपोऽत्र द्रष्टव्यः । विभक्तधना विभक्ताः, पीतोदकाः पीता इति । अत्र लोपशब्दार्थमाह कैयटः – ‘गम्यार्थस्याप्रयोग एव लोपोऽभिमतः’ । ‘विभक्ता भ्रातरः’ इत्यत्र च धनस्य यद्विभक्तत्वं तद् भ्रातृषूपचरितम् । ‘पीतोदका गावः’ इत्यत्राप्युदकस्य पीतत्वं गोष्वारोप्यते’ इति । तद्वदत्रापि वृत्तिगतं विदितत्वं वेदितरि वनेचर उपचर्यते । एतेन ‘वनाय पीतप्रतिबद्धवत्साम्’, ‘पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु’ एवमादयो व्यख्याताः । अथवा विदितः विदितवान् । सकर्मादप्यविवक्षिते कर्मणि कर्तरि क्तः । यथा ‘आशितः कर्ता’ इत्यादौ । यथाहुः -‘धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥’ इति । द्वैतवने द्वैताख्यवने । यद्वा द्वे इते गते यस्मात्तद् द्वीतम् । द्वीतमेव द्वैतं । तच्च तद्वनं च तस्मिन् । शोकमोहादिवर्जित इत्यर्थः । युधि रणे स्थिरं युधिष्ठिरं धर्मराजम् । ‘हलदन्तात्सप्तम्याः संज्ञायाम्’ इत्यलुक् । ‘गवियुधिभ्यां स्थिरः’ इति षत्वम् । समाययौ सम्प्राप्तः । अत्र ‘वने वनेचरः’ इति द्वयोः स्वरव्यञ्जनसमुदाययोरेकदैवावृत्त्या वृत्त्यनुप्रासो नामालङ्कारः । अस्मिन् सर्गे वंशस्थवृत्तम् । तल्लक्षणम् – ‘जतौ तु वंशस्थमुदीरितं जरौ’ इति ।

Translation – The forester, whom Yudhiṣṭhira had appointed to know (ascertain) the behavior of the lord of the Kingdom of Kurus, towards his subjects, on which depended the stability of (or, the safeguard of) his royalty, came, in the disguise of a religious student, to him (Yudhiṣṭhira who was) in the Dvaita forrest, after having gathered the (desired) information.

कुरूणां निवासो जनपदः = कुरवः – a kingdom which is the place of residence of (kṣatriyas named) Kuru

In the verses the विवक्षा is षष्ठी-बहुवचनम् । Hence the form is कुरूणाम्।

(1) कुरु आम् + अण् । By 4-2-69 तस्य निवासः – To denote the proper name of a place of residence, the तद्धित: affix ‘अण्’ (prescribed by 4-1-83 प्राग्दीव्यतोऽण्) may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the sixth case affix and has a base that denotes the residents.

Note: ‘कुरु आम् + अण्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(2) कुरु + अण् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: Since a kingdom is to be denoted, the सूत्रम् 4-2-81 जनपदे लुप् applies in the next step.

(3) कुरु । By 4-2-81 जनपदे लुप् – A चातुरर्थिकः affix takes the लुप् elision when a kingdom is to be denoted (by the derived form).
Note: The affixes prescribed by the four rules starting from 4-2-67 तदस्मिन्नस्तीति देशे तन्नाम्नि through 4-2-70 अदूरभवश्च are called चातुरर्थिकाः affixes.

As per the सूत्रम् 1-2-51 लुपि युक्तवद्व्यक्तिवचने – When an affix takes the लुप् elision, then the gender and number of the derived form follows that of the base.

Therefore, the derived प्रातिपदिकम् ‘कुरु’ is declined in the masculine plural, complying with the gender and number of the base ‘कुरु + आम्’। Hence the form is कुरवः।

पाणिनीयाः mNp

Today we will look at the form पाणिनीयाः mNp in पारिभाषा #56.

अकृतव्यूहाः पाणिनीयाः ∥ ५६ ∥

Translation – Those who study/know Pāṇinīyam (the treatise expounded by Pāṇini) decide not (to apply a rule, when its cause/causes is/are about to vanish.)

Note: पाणिनिना प्रोक्तम् (शास्त्रम्) = पाणिनीयम् (शास्त्रम्) – (the treatise) expounded by Pāṇini.
पाणिनीयम् (शास्त्रम्) is a तद्धितः form derived by adding the affix ‘छ’ (which is replaced by ‘इय’ as per the सूत्रम् 7-1-2) to the base ‘पाणिनि’ as per the सूत्रम् 4-3-101 तेन प्रोक्तम् in conjunction with the सूत्रम् 4-2-114 वृद्धाच्छः।

पाणिनीयमधीते वेद वा = पाणिनीयः – a person who studies or knows Pāṇinīyam (the treatise expounded by Pāṇini).
In the verse, the विवक्षा is प्रथमा-बहुवचनम्। Hence the form is पाणिनीयाः।

(1) पाणिनीय अम् + अण् । By 4-2-59 तदधीते तद्वेद – To denote a person who studies or knows that (subject matter), the तद्धित: affix ‘अण्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the second case affix and has a base which denotes that (subject matter).

Note: ‘पाणिनीय अम् + अण्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(2) पाणिनीय + अण् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: Since the base ‘पाणिनीय’ is derived using the सूत्रम् 4-3-101 तेन प्रोक्तम्, it allows 4-2-64 प्रोक्ताल्लुक् to apply in the next step.

(3) पाणिनीय । By 4-2-64 प्रोक्ताल्लुक् – A तद्धित: affix which denotes the sense of ‘one who studies/knows’ takes the लुक् elision when it follows (a term that ends in) an affix which denotes the sense of ‘expounded’ (ref: 4-3-101 तेन प्रोक्तम्)।

Note: The प्रातिपदिकम् ‘पाणिनीय’ is an adjective. It declines like राम-शब्दः in the masculine gender.

Recent Posts

September 2019
M T W T F S S
« Aug    
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics