Today we will look at the form वर्तिष्यन्ते 3Ap-लृँट् from श्रीमद्भागवतम् 4.28.21.
प्रबोधयति माविज्ञं व्युषिते शोककर्शिता ।
वर्त्मैतद्गृहमेधीयं वीरसूरपि नेष्यति ।। ४-२८-२० ।।
कथं नु दारका दीना दारकीर्वापरायणाः ।
वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ।। ४-२८-२१ ।।
श्रीधर-स्वामि-टीका –
अविज्ञमविवेकिनं माम् । व्युषिते देशान्तरं गते । गृहमेधीयं वर्त्म गृहधर्ममपि किं नेष्यत्यनुवर्तयिष्यति । युक्तमेतत् । यतो वीरसूः पुत्रवती । किंवा मद्विरहमसहमाना मरिष्यत्येवेत्यर्थः ।। २० ।। न विद्यते परमयनमाश्रयो येषां तेऽपरायणाः पुत्राः कन्याश्च । यद्वा पराश्रयाः कन्याः । भिन्ना नौर्येषाम् ।। २१ ।।
Gita Press translation “She would admonish me when my judgement failed, and would grow emaciated through grief when I was away from home. (Now) will she be able to follow the way of the householders (when I am no longer with her), even though she is the mother of heroic sons? (Very likely she will not; rather she will try to follow me to the other world by ascending my pyre). And how will these helpless sons and daughters, who have no one else to depend upon, survive when I am gone? On the other hand, they will perish like the inmates of a broken vessel in mid ocean.”
वर्तिष्यन्ते is derived from the धातुः √वृत् (भ्वादि-गणः, वृतुँ वर्तने , धातु-पाठः १. ८६२)
The ending उकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “वृतुँ” has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √वृत् takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √वृत् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।
See question 2.
The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
(1) वृत् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.
(2) वृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) वृत् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः।
(4) वृत् + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
(5) वृत् + स्य + झे । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.
Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप् etc.
(6) वृत् + इट् स्य + झे । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।
Note: Since √वृत् (भ्वादि-गणः, वृतुँ वर्तने , धातु-पाठः १. ८६२) is not अनुदात्तोपदेश:, 7-2-10 एकाच उपदेशेऽनुदात्तात् cannot block 7-2-35 आर्धधातुकस्येड् वलादेः।
See question 3.
(7) वृत् + इस्य + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(8) वृत् + इस्य + अन्ते । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
(9) वर्त् + इस्य + अन्ते । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its “इक्”-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
(10) वर्तिस्यन्ते । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).
(11) वर्तिष्यन्ते । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
Questions :
1. Where in the गीता has √वृत् been used with the “णिच्”-प्रत्यय: in a तिङन्तं पदम्?
2. Can you recall a सूत्रम् by which √वृत् could optionally take a परस्मैपद-प्रत्यय: in this example? What would be the final form?
3. How many monosyllabic (एकाच:) verbal roots ending in a तकार: in the धातु-पाठ: are अनुदात्तोपदेशा:?
i. None
ii. 2
iii. 5
iv. More than 10
4. Can you spot a “णिच्”-प्रत्यय: in the verses? Can you spot one in the commentary?
5. Which सूत्रम् is used for the “इट्”-आगम: in the form मरिष्यति in the commentary?
6. How would you say this in Sanskrit?
“Your memory will stay in my mind for a long time.” Use the neuter प्रातिपदिकम् “स्मरण” for “memory” and the अव्ययम् “चिरम्” for “for a long time.”
Easy questions:
1. In the verses, can you spot a प्रातिपदिकम् which ends in a नकार:?
2. Which सूत्रम् is used for the “सुँट्”-आगम: in the form येषाम् used in the commentary?
Questions :
1. Where in the गीता has √वृत् been used with the “णिच्”-प्रत्यय: in a तिङन्तं पदम्?
Answer: In the गीता, √वृत् (भ्वादि-गणः, वृतुँ वर्तने , धातु-पाठः १. ८६२) been used with the “णिच्”-प्रत्यय: in a तिङन्तं पदम् in the form अनुवर्तयति। The विवक्षा is लँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः | (न + अनुवर्तयति + इह = नानुवर्तयतीह by 6-1-101 अकः सवर्णे दीर्घः।)
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति || 3-16||
वृत् + णिच् । By 3-1-26 हेतुमति च।
= वृत् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= वर्ति । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
“वर्ति” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
वर्ति + लँट् । By 3-2-123 वर्तमाने लट्।
= वर्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वर्ति + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्।
= वर्ति + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वर्ति + शप् + ति । By 3-1-68 कर्तरि शप्।
= वर्ति + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= वर्ते + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= वर्तयति। By 6-1-78 एचोऽयवायावः।
“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।
अनु + वर्तयति = अनुवर्तयति
2. Can you recall a सूत्रम् by which √वृत् could optionally take a परस्मैपद-प्रत्यय: in this example? What would be the final form?
Answer:A सूत्रम् by which √वृत् could optionally take a परस्मैपद-प्रत्यय: is 1-3-92 वृद्भ्यः स्यसनोः – In the context of the affix “स्य” or “सन्”, परस्मैपदम् is optionally prescribed after the five verbal roots √वृत् (वृतुँ वर्तने १. ८६२), √वृध् (वृधुँ वृद्धौ १. ८६३), √शृध् (शृधुँ शब्दकुत्सायाम् १. ८६४), √स्यन्द् (स्यन्दूँ प्रस्रवणे १. ८६५) and √कृप् (कृपूँ सामर्थ्ये १. ८६६). The final form would be वर्त्स्यन्ति।
The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
वृत् + लृँट् । 3-3-13 लृट् शेषे च।
= वृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वृत् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्।
= वृत् + स्य + झि । By 3-1-33 स्यतासी लृलुटोः। Now 7-2-35 आर्धधातुकस्येड् वलादेः is stopped by 7-2-59 न वृद्भ्यश् चतुर्भ्यः – When the context is neither of a “तङ्” affix nor of the affix “आन”, a आर्धधातुक-प्रत्यय: which begins with a सकार: does not get the augment इट् when following the verbal root √वृत् (वृतुँ वर्तने १. ८६२) or √वृध् (वृधुँ वृद्धौ १. ८६३) or √शृध् (शृधुँ शब्दकुत्सायाम् १. ८६४) or √स्यन्द् (स्यन्दूँ प्रस्रवणे १. ८६५).
= वृत् + स्य + अन्ति । By 7-1-3 झोऽन्तः।
= वर्त् + स्य + अन्ति । By 7-3-86 पुगन्तलघूपधस्य च।
= वर्त्स्यन्ति। By 6-1-97 अतो गुणे।
Thus there are two optional forms वर्तिष्यन्ते/वर्त्स्यन्ति।
3. How many monosyllabic (एकाच:) verbal roots ending in a तकार: in the धातु-पाठ: are अनुदात्तोपदेशा:?
i. None
ii. 2
iii. 5
iv. More than 10
Answer: i. None
4. Can you spot a “णिच्”-प्रत्यय: in the verse? Can you spot one in the commentary?
Answer: A “णिच्”-प्रत्यय: is seen in the verses in the form प्रबोधयति derived from √बुध् (बुधँ अवगमने १. ९९४, ४. ६८). The विवक्षा is लँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
बुध् + णिच् । By 3-1-26 हेतुमति च।
= बुध् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= बोधि । By 7-3-86 पुगन्तलघूपधस्य च।
“बोधि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
बोधि + लँट् । By 3-2-123 वर्तमाने लट्।
= बोधि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= बोधि + तिप्। By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्।
= बोधि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= बोधि + शप् + ति। By 3-1-68 कर्तरि शप्।
= बोधि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= बोधे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= बोधयति । By 6-1-78 एचोऽयवायावः।
“प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
प्र + बोधयति = प्रबोधयति
A “णिच्”-प्रत्यय: is seen in the commentary in the form अनुवर्तयिष्यति derived from √वृत् (वृतुँ वर्तने १. ८६२). The विवक्षा is लृँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
वृत् + णिच् । By 3-1-26 हेतुमति च।
= वृत् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= वर्ति । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
“वर्ति” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
वर्ति + लृँट् । 3-3-13 लृट् शेषे च।
= वर्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वर्ति + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्।
= वर्ति + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वर्ति + स्य + ति । By 3-1-33 स्यतासी लृलुटोः।
= वर्ति + इट् स्य + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= वर्ति + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वर्ते + इस्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः ।
= वर्त् अय् + इस्य + ति । By 6-1-78 एचोऽयवायावः।
= वर्तयिष्यति। By 8-3-59 आदेशप्रत्यययो:।
“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + वर्तयिष्यति = अनुवर्तयिष्यति।
5. Which सूत्रम् is used for the “इट्”-आगम: in the form मरिष्यति in the commentary?
Answer: 7-2-70 ऋद्धनोः स्ये is used for the “इट्”-आगम: in the form मरिष्यति in the commentary. मरिष्यति is derived from the धातुः √मृ (तुदादि-गणः, मृङ् प्राणत्यागे, धातु-पाठः # ६. १३९). Recall 1-3-61 म्रियतेर्लुङ्लिङोश्च – The verbal root √मृ (मृङ् प्राणत्यागे #६. १३९) takes a आत्मनेपद-प्रत्ययः only when लुँङ्, लिँङ् or शित्-प्रत्ययः is used, not otherwise. Hence परस्मैपदम् has been used here.
The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
मृ + लृँट् । By 3-3-13 लृट् शेषे च।
= मृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्।
= मृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मृ + स्य + ति । By 3-1-33 स्यतासी लृलुटोः।
= मृ + इट् स्य + ति । By 7-2-70 ऋद्धनोः स्ये, the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”। Note: In the absence of 7-2-70 ऋद्धनोः स्ये, there would have been no augment इट् because 7-2-10 एकाच उपदेशेऽनुदात्तात् would have blocked 7-2-35 आर्धधातुकस्येड् वलादेः।
= मृ + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मर् + इस्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
= मरिष्यति । By 8-3-59 आदेशप्रत्यययो:।
6. How would you say this in Sanskrit?
“Your memory will stay in my mind for a long time.” Use the neuter प्रातिपदिकम् “स्मरण” for “memory” and the अव्ययम् “चिरम्” for “for a long time.”
Answer: तव स्मरणम् मम/मे मनसि चिरम् वर्तिष्यते/वर्त्स्यति = तव स्मरणं मम/मे मनसि चिरं वर्तिष्यते/वर्त्स्यति।
Easy questions:
1. In the verses, can you spot a प्रातिपदिकम् which ends in a नकार:?
Answer: A प्रातिपदिकम् which ends in a नकार: is seen in the form वर्त्म (नपुंसकलिङ्ग-प्रातिपदिकम् “वर्त्मन्”, द्वितीया-एकवचनम्।)
वर्त्मन् + अम् । By 4-1-2 स्वौजसमौट्छष्टा…।
= वर्त्मन् । By 7-1-23 स्वमोर् नपुंसकात्। Now “वर्त्मन्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
= वर्त्म । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।
2. Which सूत्रम् is used for the “सुँट्”-आगम: in the form येषाम् used in the commentary?
Answer: 7-1-52 आमि सर्वनाम्नः सुट् is used for the “सुँट्”-आगम: in the form येषाम् (सर्वनाम-प्रातिपदिकम् “यद्”, पुंलिङ्गे षष्ठी-बहुवचनम्)।
यद् + आम् । By 4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा।
= य अ + आम् । By 7-2-102 त्यदादीनामः, “यद्” gets अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य, only the ending दकार: gets replaced.
= य + आम् । By 6-1-97 अतो गुणे।
= य + सुँट् आम् । By 7-1-52 आमि सर्वनाम्नः सुट् – The affix “आम्” prescribed to a pronoun (सर्वनाम-शब्द:), takes the augment “सुँट्” when the base (अङ्गम्) ends in a अवर्ण: (अकार: or आकार:)। As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “सुँट्” joins at the beginning of the प्रत्यय: “आम्”।
= य + स् आम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= ये साम् । By 7-3-103 बहुवचने झल्येत्।
= येषाम् । By 8-3-59 आदेशप्रत्यययोः।