Today we will look at the form भवितास्मि 1As-लुँट् from श्रीमद्भागवतम् 6.11.24.
अहं हरे तव पादैकमूलदासानुदासो भवितास्मि भूयः ।
मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक्कर्म करोतु कायः ।। ६-११-२४ ।।
न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ।। ६-११-२५ ।।
श्रीधर-स्वामि-टीका –
एवमिन्द्राय स्वाभिप्रायं निवेद्य भगवन्तं प्रार्थयते – अहमिति । तव पादावेव एकं मूलमाश्रयो येषां तेषां दासानामनुदासो भूयो भवितास्मि भविष्यामि भवेयम् । असुपतेः प्राणनाथस्य तव गुणान्मम मनः स्मरतु । वागपि तानेव कीर्तयतु । कायस्तवैव कर्म करोतु ।। २४ ।। ननु किं दास्येन तुभ्यं महाफलानि दास्यामि तत्राह – नाकपृष्ठं ध्रुवपदं ब्रह्मलोकादिकं च हे समञ्जस, निखिलसौभाग्यनिधे, त्वा त्वां विरहय्य पृथक्कृत्य न काङ्क्षे नेच्छामि ।। २५ ।।
Gita Press translation “(Turning mentally towards the Lord,) May I, O Hari, be born again (after death) as a servant of those devotees who have solely taken refuge in Your (lotus) feet. Let my mind ponder and tongue celebrate the excellences of the Lord of my life (Yourself) and let my body do Your service (alone). O Storehouse of all blessedness and grace! without You I crave neither the abode of Dhruva (which is placed above Indra’s paradise) nor even the realm of Brahmā (the highest heaven) nor the sovereignty of the entire globe nor the lordship of the subterranean regions nor the (superhuman) powers (Aṇimā and so on) attained through Yoga nor Liberation (freedom from rebirth).”
भवितास्मि is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)
In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।
The विवक्षा is लुँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
(1) भू + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.
(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) भू + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः।
(4) भू + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) भू + तासिँ + मि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.
Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप् etc.
(6) भू + तास् + मि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
(7) भू + इट् तास् + मि । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।
(8) भू + इतास् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(9) भो + इतास् + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
(10) भवितास्मि । By 6-1-78 एचोऽयवायावः।
Questions:
1. In the last verse of which chapter of the गीता has √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) been used in a तिङन्तं पदम्?
2. In which of the nine forms in the declension table of √भू with लुँट् is 7-4-50 तासस्त्योर्लोपः used?
3. Which सूत्रम् is used for the ह्रस्वादेश: in the form गृणीत?
4. Where has 7-1-101 उपधायाश्च been used in the commentary?
5. Where has √इष् (इषँ इच्छायाम् ६. ७८) been used in the commentary?
6. How would you say this in Sanskrit?
“Sri Rama said to Vibhishana, ‘You will be the king of the demons.'” Use (a लिँट् form of) √वच् (वचँ परिभाषणे २. ५८) for “to say.”
Easy questions:
1. Which सूत्रम् is used for the “सुँट्”-आगम: in the words येषाम् and तेषाम् used in the commentary?
2. Where has 8-3-7 नश्छव्यप्रशान् been used in the verses?
Questions:
1. In the last verse of which chapter of the गीता has √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) been used in a तिङन्तं पदम्?
Answer: √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) has been used in a तिङन्तं पदम् in the last verse of chapter 9 of the गीता।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः || 9-34||
The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
भू + लोँट् । By 3-3-162 लोट् च।
= भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भू + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= भू + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भू + हि । By 3-4-87 सेर्ह्यपिच्च।
= भू + शप् + हि । By 3-1-68 कर्तरि शप्।
= भो + शप् + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= भो + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= भव् + अ + हि = भवहि । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।
= भव । By 6-4-105 अतो हेः।
2. In which of the nine forms in the declension table of √भू with लुँट् is 7-4-50 तासस्त्योर्लोपः used?
Answer: 7-4-50 तासस्त्योर्लोपः is used in भवितासि derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).
The विवक्षा is लुँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
भू + लुँट् । By 3-3-15 अनद्यतने लुट।
= भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भू + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= भू + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भू + तासिँ + सि । By 3-1-33 स्यतासी लृलुटोः।
= भू + तास् + सि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= भू + इट् तास् + सि । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ ।
= भू + इतास् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भो + इतास् + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= भवितास् + सि । By 6-1-78 एचोऽयवायावः।
= भवितासि । By 7-4-50 तासस्त्योर्लोपः – when followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।
3. Which सूत्रम् is used for the ह्रस्वादेश: in the form गृणीत?
Answer: 7-3-80 प्वादीनां ह्रस्वः is used for the ह्रस्वादेश: in the form गृणीत derived from the धातुः √गॄ (क्र्यादि-गणः, गॄ शब्दे, धातु-पाठः # ९. ३३).
The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, बहुवचनम्।
गॄ + लोँट् । By 3-3-162 लोट् च।
= गॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गॄ + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= गॄ + त । By 3-4-85 लोटो लङ्वत्, 3-4-101 तस्थस्थमिपां तांतंतामः।
= गॄ + श्ना + त । By 3-1-81 क्र्यादिभ्यः श्ना।
= गॄ + ना + त । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
= गृ + ना + त । By 7-3-80 प्वादीनां ह्रस्वः, a short vowel is substituted (in place of the long vowel) of the twenty-four verbal roots √पूञ् (पूञ् पवने ९. १४) etc., when a शित्-प्रत्ययः follows.
= गृ + नी + त । By 6-4-113 ई हल्यघोः।
= गृणीत । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel “ऋ” also (along-side the रेफः and षकारः)।
4. Where has 7-1-101 उपधायाश्च been used in the commentary?
Answer: 7-1-101 उपधायाश्च has been used in the commentary in the form कीर्तयतु derived from the धातुः √कॄत् (कॄतँ संशब्दने १०. १५५).
The विवक्षा is लोँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
कॄत् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
= कॄत् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= किर् त् + इ । By 7-1-101 उपधायाश्च, a ॠकार:, when it is the penultimate (उपधा) letter of a धातु:, takes the इकारादेश:। As per 1-1-51 उरण् रपरः, the रेफ: is added to the इकार:।
= कीर्ति । By 8-2-78 उपधायां च। “कीर्ति” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
कीर्ति + लोँट् । By 3-3-162 लोट् च।
= कीर्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कीर्ति + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= कीर्ति + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कीर्ति + तु । By 3-4-86 एरुः ।
= कीर्ति + शप् + तु । By 3-1-68 कर्तरि शप्।
= कीर्ति + अ + तु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= कीर्ते + अ + तु । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= कीर्तयतु । By 6-1-78 एचोऽयवायावः।
5. Where has √इष् (इषँ इच्छायाम् ६. ७८) been used in the commentary?
Answer: √इष् (इषँ इच्छायाम् ६. ७८) has been used in the commentary in the form इच्छामि ।
The विवक्षा is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्।
इष् + लँट् । By 3-2-123 वर्तमाने लट्।
= इष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= इष् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= इष् + श + मिप् । By 3-1-77 तुदादिभ्यः शः।
= इष् + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= इछ् + अ + मि । By 7-3-77 इषुगमियमां छः।
= इतुँक् छ् + अ + मि। By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
= इत् छ मि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= इत्छामि । By 7-3-101 अतो दीर्घो यञि।
= इच्छामि । By 8-4-40 स्तोः श्चुना श्चुः।
6. How would you say this in Sanskrit?
“Sri Rama said to Vibhishana, ‘You will be the king of the demons.’” Use (a लिँट् form of) √वच् (वचँ परिभाषणे २. ५८) for “to say.”
Answer: (त्वम्) राक्षसानाम् नृप: भवितासि इति श्रीरामः विभीषणम् उवाच = (त्वं) राक्षसानां नृपो भवितासीति श्रीरामो विभीषणमुवाच।
Easy questions:
1. Which सूत्रम् is used for the “सुँट्”-आगम: in the words येषाम् and तेषाम् used in the commentary?
Answer: 7-1-52 आमि सर्वनाम्नः सुट् is used for the “सुँट्”-आगम: in the words येषाम् and तेषाम् ।
येषाम् (सर्वनाम-प्रातिपदिकम् “यद्”, पुंलिङ्गे षष्ठी-बहुवचनम्)।
यद् + आम् । By 4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा।
= य अ + आम् । By 7-2-102 त्यदादीनामः, “यद्” gets अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य, only the ending दकार: gets replaced.
= य + आम् । By 6-1-97 अतो गुणे।
= य + सुँट् आम् । By 7-1-52 आमि सर्वनाम्नः सुट्, the affix “आम्” prescribed to a pronoun (सर्वनाम-शब्द:), takes the augment “सुँट्” when the base (अङ्गम्) ends in a अवर्ण: (अकार: or आकार:)। As per 1-1-46 आद्यन्तौ टकितौ, the ‘सुँट्’-आगम: attaches to the beginning of आम्।
= य + स् आम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= ये साम् । By 7-3-103 बहुवचने झल्येत्
= येषाम् । By 8-3-59 आदेशप्रत्यययोः।
तेषाम् (सर्वनाम-प्रातिपदिकम् “तद्”, पुंलिङ्गे षष्ठी-बहुवचनम्)।
तद् + आम् । By 4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा।
= त अ + आम् । By 7-2-102 त्यदादीनामः, “तद्” gets अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य, only the ending दकार: gets replaced.
= त + आम् । By 6-1-97 अतो गुणे।
= त + सुँट् आम् । By 7-1-52 आमि सर्वनाम्नः सुट्, the affix “आम्” prescribed to a pronoun (सर्वनाम-शब्द:), takes the augment “सुँट्” when the base (अङ्गम्) ends in a अवर्ण: (अकार: or आकार:)। As per 1-1-46 आद्यन्तौ टकितौ, the ‘सुँट्’-आगम: attaches to the beginning of आम्।
= त + स् आम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= ते साम् । By 7-3-103 बहुवचने झल्येत्।
= तेषाम् । By 8-3-59 आदेशप्रत्यययोः।
2. Where has 8-3-7 नश्छव्यप्रशान् been used in the verses?
Answer: 8-3-7 नश्छव्यप्रशान् is used in the सन्धि-कार्यम् between गुणान् + ते = गुणांस्ते।
गुणान् +ते।
= गुणांरुँ + ते । By 8-3-7 नश्छव्यप्रशान्, when the letter “न्” occurs at the end of a पदम् it is substituted by “रुँ” when a “छव्” letter follows as long as the “छव्” letter is followed by an “अम्” letter. 8-3-4 अनुनासिकात् परोऽनुस्वार: – This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter preceding the “रुँ” is not nasalized then following that letter (which precedes “रुँ”) the अनुस्वार: comes as an augment.
= गुणांर् + ते । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= गुणां: + ते । By 8-3-15 खरवसानयोर्विसर्जनीयः।
= गुणांस्ते । By 8-3-34 विसर्जनीयस्य सः।