Today we will look at the form ईयतु: 3Ad-लिँट् from श्रीमद्भागवतम् Sb7.1.19
कथं तस्मिन्भगवति दुरवग्राहधामनि ।
पश्यतां सर्वलोकानां लयमीयतुरञ्जसा ।। ७-१-१९ ।।
एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना ।
ब्रूह्येतदद्भुततमं भगवांस्तत्र कारणम् ।। ७-१-२० ।।
श्रीधर-स्वामि-टीका –
दुरवग्राहं दुष्प्रापं धाम स्वरूपं यस्य तस्मिन् लयं सायुज्यमीयतुर्जग्मतुः । अभूतस्यापि दन्तवक्त्रलस्य तज्जातकप्रामाण्येन सिद्धवन्निर्देशः ।। १९ ।। एतदद्भुततममत एतत्प्रति मे धीर्भ्राम्यति । भगवान् सर्वज्ञस्त्वं ब्रूहि ।। २० ।।
Gita Press translation “How did they attain absorption directly into the aforesaid Lord, whose reality cannot be easily grasped, while all the people (assembled on the spot) stood looking on? My mind is wavering on this point even as the flame of a light is unsteady under the action of wind; (for) this was (something) most wonderful. Omniscient as you are, kindly tell me the cause of it.”
ईयतु: is derived from the धातुः √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०)
The ending णकार: of “इण्” gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। This धातु: is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √इ takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √इ can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्, hence the प्रत्ययः is “तस्”।
(1) इ + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.
(2) इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) इ + तस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तस्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तस्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप् (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.
(4) इ + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा।
Note: As per 1-2-5 असंयोगाल्लिट् कित्, “अतुस्” is a कित्। This allows 1-1-5 ग्क्ङिति च to block 7-3-84 सार्वधातुकार्धधातुकयोः।
(5) इ इ + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-81 इणो यण्।
(6) ई इ + अतुस् । By 7-4-69 दीर्घ इणः किति, when followed by a लिँट्-प्रत्यय: which is कित् (has ककार: as a इत्), there is an elongation of the vowel in the अभ्यास: of the verbal root √इ (इण् गतौ २. ४०)।
(7) ई य् + अतुस् । By 6-4-81 इणो यण्, the verbal root √इ (इण् गतौ #२. ४०), gets यण् as the replacement when followed by an अजादि-प्रत्यय: (vowel-beginning affix).
(8) ईयतु: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
Questions:
1. In which chapter of the गीता has √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०) been used with लँट् in the last verse?
2. Commenting on the सूत्रम् 7-4-69 दीर्घ इणः किति, the तत्त्वबोधिनी says – किति किम्। इयाय। Please explain.
3. Continuing with the above comment, the तत्त्वबोधिनी says – अत्र वदन्ति – इह दीर्घे कृतेऽपि “अभ्यासस्याऽसवर्णे” इतीयङा रूपसिद्धेः कितीति व्यर्थम्। Please explain.
4. Which सूत्रम् is used for the दीर्घादेश: in the form भ्राम्यति?
5. Where has 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the commentary?
6. How would you say this in Sanskrit?
“Accompanied by the sage Viswamitra, Sri Rama and Lakshmana went to Mithila.” Use the compound प्रातिपदिकम् “श्रीराम-लक्ष्मण” (in the dual.)
Easy questions:
1. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?
2. Why didn’t 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् apply in the form धी: (स्त्रीलिङ्ग-प्रातिपदिकम् “धी”, प्रथमा-एकवचनम्)?
Questions:
1. In which chapter of the गीता has √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०) been used with लँट् in the last verse?
Answer: √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०) has been used with लँट् in the last verse of chapter 8 of गीता in the form अत्येति।
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम् |
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् || 8-28||
It is also used in the last verse of Chapter Eleven of the गीता in the form एति।
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः |
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव || 11-55||
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
इ + लँट् । By 3-2-123 वर्तमाने लट् ।
= इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= इ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= इ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= इ + शप् + ति । By 3-1-68 कर्तरि शप्।
= इ + ति । By 2-4-72 अदिप्रभृतिभ्यः शपः।
= एति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
In verse 8-28, “अति” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अति + एति = अत्येति । By 6-1-77 इको यणचि।
2. Commenting on the सूत्रम् 7-4-69 दीर्घ इणः किति, the तत्त्वबोधिनी says – किति किम्। इयाय। Please explain.
Answer: किति किम् means what was the need to use “किति” (when followed by a प्रत्यय: that has ककार: as a इत्) in the सूत्रम् 7-4-69 दीर्घ इणः किति। The reason is to restrict the application of 7-4-69 only to those cases when followed by a लिँट्-प्रत्यय: which is कित्। This makes sure that 7-4-69 does not apply in forms like इयाय। In the form इयाय, all the conditions for applying 7-4-69 are satisfied except that the प्रत्यय “णल्” does not have ककारः as a इत्। (Since “णल्” came in place of “तिप्”, it is a पित् and hence 1-2-5 असंयोगाल्लिट् कित् does not apply.) इयाय is derived from the धातुः √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०).
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
इ + लिँट् । By 3-2-115 परोक्षे लिँट्।
= इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= इ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= इ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमा:।
= इ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= इ इ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-115 अचो ञ्णिति।
= इ ऐ + अ । By 7-2-115 अचो ञ्णिति।
= इयँङ् ऐ + अ । By 6-4-78 अभ्यासस्यासवर्णे, “इयँङ्” and “उवँङ्” are substituted respectively in place of a इवर्ण: (इकार:/ईकार:) and उवर्ण: (उकार:/ऊकार:) belonging to a अभ्यास:, when followed by a vowel which is not सवर्ण:।
Note: 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ would not have worked here, because it only applies in the case of a इवर्ण:/उवर्ण: that is at the end of a अङ्गम् followed by a अच् (vowel) of a प्रत्यय:। Here the इकार: is not at the end of the अङ्गम् and the ऐकार: is not part of the प्रत्यय:।
= इय् ऐ + अ। । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= इयाय । By 6-1-78 एचोऽयवायावः ।
3. Continuing with the above comment, the तत्त्वबोधिनी says – अत्र वदन्ति – इह दीर्घे कृतेऽपि “अभ्यासस्याऽसवर्णे” इतीयङा रूपसिद्धेः कितीति व्यर्थम्। Please explain.
Answer:
अत्र वदन्ति – in this context some say that
इह दीर्घे कृतेऽपि – even if in the example इयाय here there were to be दीर्घ: (ईकार: in place of the इकार: in the अभ्यास:)
“अभ्यासस्याऽसवर्णे” इतीयङा रूपसिद्धेः – we would get the same form इयाय by doing the “इयँङ्” substitution using 6-4-78 अभ्यासस्यासवर्णे। Hence
कितीति व्यर्थम् – there is no need to say “किति” in the सूत्रम् 7-4-69 दीर्घ इणः किति।
4. Which सूत्रम् is used for the दीर्घादेश: in the form भ्राम्यति?
Answer: 7-3-74 शमामष्टानां दीर्घः श्यनि is used for the दीर्घादेश: in the form भ्राम्यति। भ्राम्यति is derived from √भ्रम् (भ्रमुँ अनवस्थाने ४. १०२).
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
भ्रम् + लँट् । By 3-2-123 वर्तमाने लट् ।
= भ्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भ्रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= भ्रम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भ्रम् + श्यन् + ति । By 3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः।
= भ्राम् + श्यन् + ति । By 7-3-74 शमामष्टानां दीर्घः श्यनि – The eight verbal roots beginning with √शम् (शमुँ उपशमे ४. ९८, तमुँ काङ्क्षायाम् ४. ९९, दमुँ उपशमे ४. १००, श्रमुँ तपसि खेदे च ४. १०१, भ्रमुँ अनवस्थाने ४. १०२, क्षमूँ सहने ४. १०३, क्लमुँ ग्लानौ ४. १०४ and मदीँ हर्षे ४. १०५) take a दीर्घादेश: (elongation) when followed by the श्यन्-प्रत्ययः।
= भ्राम्यति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
Note: As per 3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः, we can use “शप्” optionally here. The optional form is भ्रमति।
5. Where has 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the commentary?
Answer: 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि has been used in the commentary in the form जग्मतुः derived from the धातुः √गम् (गमॢँ गतौ १. ११३७) .
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
गम् + लिँट् । By 3-2-115 परोक्षे लिँट्।
= गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गम् + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= गम् + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा।
= गम् गम् + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि।
= ग गम् + अतुस् । By 7-4-60 हलादिः शेषः।
= ज गम् + अतुस् । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
= ज ग्म् + अतुस् । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि, the उपधा (penultimate letter – ref. 1-1-65) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् or a ङित् with the exclusion of the अङ्-प्रत्ययः।
Note: “अतुस्” is a कित्-प्रत्यय: here as per 1-2-5 असंयोगाल्लिट् कित्। This allows 6-4-98 to apply.
= जग्मतुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
6. How would you say this in Sanskrit?
“Accompanied by the sage Viswamitra, Sri Rama and Lakshmana went to Mithila.” Use the compound प्रातिपदिकम् “श्रीराम-लक्ष्मण” (in the dual.)
Answer: विश्वामित्रेण मुनिना सह श्रीरामलक्ष्मणौ मिथिलाम् ईयतु:/जग्मतुः = विश्वामित्रेण मुनिना सह श्रीरामलक्ष्मणौ मिथिलामीयतु: / मिथिलां जग्मतुः।
Easy questions:
1. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?
Answer: 8-3-7 नश्छव्यप्रशान् is used in the सन्धिकार्यम् between भगवान् + तत्र = भगवांस्तत्र।
भगवान् + तत्र ।
= भगवारुँ + तत्र । By 8-3-7 नश्छव्यप्रशान् – When the letter “न्” occurs at the end of a पदम् it is substituted by “रुँ” when a letter of the “छव्”-प्रत्याहार: follows as long as the letter of the “छव्”-प्रत्याहार: is followed by letter of the “अम्”-प्रत्याहार:।
= भगवांरुँ तत्र । By 8-3-4 अनुनासिकात् परोऽनुस्वारः।
= भगवांर् तत्र । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= भगवां: + तत्र । By 8-3-15 खरवसानयोर्विसर्जनीयः।
= भगवांस् + तत्र । By 8-3-34 विसर्जनीयस्य सः।
= भगवांस्तत्र ।
2. Why didn’t 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् apply in the form धी: (स्त्रीलिङ्ग-प्रातिपदिकम् “धी”, प्रथमा-एकवचनम्)?
Answer: 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् didn’t apply in the form धी: (स्त्रीलिङ्ग-प्रातिपदिकम् “धी”, प्रथमा-एकवचनम्) because “धी” does not end in the स्त्री-प्रत्यय: “ङी”। The ending ईकार: of “धी” belongs to a धातु:।
There are nine such स्त्रीलिङ्ग-प्रातिपदिकानि given in the following verse –
अवी-तन्त्री-स्तरी-लक्ष्मी-तरी-धी-ह्री-श्रियां भियः।
अङ्यन्तत्वात् स्त्रियामेषां न सुलोपः कदाचन ।।
These end in a ईकार: but for these there is no elision of सुँ-प्रत्ययः because they don’t end in the स्त्री-प्रत्यय: “ङी”। Hence 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् does not apply to these nine.