Home » Example for the day » प्रेषयामास 3As-लिँट्

प्रेषयामास 3As-लिँट्

Today we will look at the form प्रेषयामास 3As-लिँट् from श्रीमद्भागवतम् 7.9.3

साक्षाच्छ्रीः प्रेषिता देवैर्दृष्ट्वा तन्महदद्भुतम् ।
अदृष्टाश्रुतपूर्वत्वात्सा नोपेयाय शङ्किता ।। ७-९-२ ।।
प्रह्रादं प्रेषयामास ब्रह्मावस्थितमन्तिके ।
तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ।। ७-९-३ ।।

श्रीधर-स्वामि-टीका
श्रीर्लक्ष्मीर्देवैः प्रेषितापि महदद्भुतं तद्रूपं दृष्ट्वा शङ्किता सती तं नोपजगाम । अद्भुतत्वे हेतुः – अदृष्टेति ।। उपेह्युपगच्छ ।।

Gita Press translation “Śrī (the Lord’s own Consort and the goddess of beauty and prosperity) was personally sent by the gods (to appease Him). Perceiving that great wonder and full of misgiving (however), She dared not go near, the form having neither been seen nor heard of (by Her) before. Brahmā (then) sent Prahrāda, standing close by, with the words; “Approach, dear one, and pacify the Lord, who has waxed angry at your father.”

प्रेषयामास is derived from the धातुः √प्रेष् (प्रेषृँ गतौ १. ७०६)

The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

प्रेष् + णिच् । 3-1-26 हेतुमति च, the affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= प्रेष् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= प्रेषि । “प्रेषि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(1) प्रेषि + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) प्रेषि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)

(3) प्रेषय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु, the affix “णि” is substituted by “अय्” when followed by any one of the following affixes – “आम्”, “अन्त”, “आलु”, “आय्य”, “इत्नु” or “इष्णु”।

(4) प्रेषयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision. Now “प्रेषयाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्
Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्

(5) प्रेषयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..

(6) प्रेषयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision.

(7) प्रेषयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
iii. √अस् (असँ भुवि २. ६०) followed by लिँट्

Note: In this सूत्रम्, “कृञ्” is a प्रत्याहार: formed starting from “कृ” in 5-4-50 and ending with “ञ्” in 5-4-58.

(8) प्रेषयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

The ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of (असँ भुवि २. ६०) has a उदात्त-स्वर:। Hence as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √अस् takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:। The विवक्षा is प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(9) प्रेषयाम् + अस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(10) प्रेषयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(11) प्रेषयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) प्रेषयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः

(13) प्रेषयाम् + आस् अस् + अ । By 7-4-70 अत आदेः, a beginning अकारः of a अभ्यास: (reduplicate) takes the दीर्घादेश: (आकार:) when लिँट् follows.

(14) प्रेषयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(15) प्रेषयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः , a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

(16) प्रेषयामास । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. In the last ten verses of Chapter Fourteen of the गीता, where has 7-2-116 अत उपधायाः (used in step 15 of this example) been used in a तिङन्तं पदम्?

2. Where has 6-4-78 अभ्यासस्यासवर्णे been used in the verses?

3. Where else (besides in प्रेषयामास) has the प्रत्यय: “णिच्” been used in the verses?

4. Which सूत्रम् is used for the “हि”-आदेश: in the form उपेहि (= उप + इहि)?

5. In which word in the commentary has लिँट् been used?

6. How would you say this in Sanskrit?
“Sri Rama dispatched Angada (as) a messenger to Ravana.” Use the masculine प्रातिपदिकम् “दूत” for “messenger.” Use चतुर्थी विभक्ति: with “Ravana.”

Easy questions:

1. Where has 8-4-63 शश्छोऽटि been used in the verses?

2. Which सूत्रम् is used for the सकारादेश: (substitute letter “स्”) in the form सा (सर्वनाम-प्रातिपदिकम् “तद्”, स्त्रीलिङ्गे प्रथमा-एकवचनम्)?


1 Comment

  1. Questions:
    1. In the last ten verses of Chapter Fourteen of the गीता, where has 7-2-116 अत उपधायाः (used in step 15 of this example) been used in a तिङन्तं पदम्?
    Answer: In the last ten verses of Chapter Fourteen of the गीता, 7-2-116 अत उपधायाः has been used in the form विचाल्यते derived from the धातुः √चल् (चलँ कम्पने १. ९६६).
    उदासीनवदासीनो गुणैर्यो न विचाल्यते |
    गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते || 14-23||
    The विवक्षा is लँट्, कर्मणि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    चल् + णिच् । By 3-1-26 हेतुमति च। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = चाल् + णिच् । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।
    = चाल् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = चालि। “चालि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
    Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः।
    चालि + लँट् । By 3-2-123 वर्तमाने लट्।
    = चालि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चालि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = चालि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = चालि + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = चालि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चाल्यते। By 6-4-51 णेरनिटि ।
    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + चाल्यते = विचाल्यते ।

    2. Where has 6-4-78 अभ्यासस्यासवर्णे been used in the verses?
    Answer: 6-4-78 अभ्यासस्यासवर्णे has been used in the verses in the form उपेयाय derived from the धातुः √इ (इण् गतौ २. ४०).
    The विवक्षा is लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    इ + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = इ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = इ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = इ इ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-2-115.
    = इ ऐ + अ । By 7-2-115 अचो ञ्णिति।
    = इयँङ् ऐ + अ । By 6-4-78 अभ्यासस्यासवर्णे, “इयँङ्” and “उवँङ्” are substituted respectively in place of a इवर्ण: (इकार:/ईकार:) and उवर्ण: (उकार:/ऊकार:) belonging to a अभ्यास:, when followed by a vowel which is not सवर्ण:
    Note: 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ would not have worked here, because it only applies in the case of a इवर्ण:/उवर्ण: that is at the end of a अङ्गम् followed by a अच् (vowel) of a प्रत्यय:। Here the इकार: is not at the end of the अङ्गम् and the ऐकार: is not part of the प्रत्यय:।
    = इय् ऐ + अ। । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इयाय । By 6-1-78 एचोऽयवायावः ।
    “उप” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उप + इयाय = उपेयाय । By 6-1-87 आद्‍गुणः।

    3. Where else (besides in प्रेषयामास) has the प्रत्यय: “णिच्” been used in the verses?
    Answer: The प्रत्यय: “णिच्” has also been used in प्रशमय derived from the धातुः √शम् (शमुँ उपशमे ४. ९८).
    The विवक्षा is लोँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, एकवचनम्।
    शम् + णिच् । By 3-1-26 हेतुमति च।
    = शाम् + णिच् । By 7-2-116 अत उपधायाः।
    = शम् + णिच् । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”। Note: √शम् is a मित् as per the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: an an इत्)।
    = शम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = शमि। “शमि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
    शमि + लोँट् । By 3-3-162 लोट् च ।
    = शमि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शमि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = शमि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शमि + हि । By 3-4-87 सेर्ह्यपिच्च।
    = शमि + शप् + हि । By 3-1-68 कर्तरि शप्, 3-4-113 तिङ्शित्सार्वधातुकम्।
    = शमि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = शमे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = शमय + हि । By 6-1-78 एचोऽयवायावः।
    = शमय । By 6-4-105 अतो हेः।
    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + शमय = प्रशमय ।

    4. Which सूत्रम् is used for the “हि”-आदेश: in the form उपेहि (= उप + इहि)?
    Answer: 3-4-87 सेर्ह्यपिच्च is used for the “हि”-आदेश: in the form उपेहि (= उप + इहि)।
    उपेहि is derived from the धातुः √इ (इण् गतौ #२. ४०).

    The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    इ + लोँट् । By 3-3-162 लोट् च ।
    = इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = इ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्
    = इ + शप् + हि । By 3-1-68 कर्तरि शप्।
    = इ + हि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = इहि ।

    ‘उप’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उप + इहि = उपेहि । By 6-1-87 आद्‍गुणः।

    5. In which word in the commentary has लिँट् been used?
    Answer: लिँट् has been used in उपजगाम derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    गम् + लिँट् । By 3-2-115 परोक्षे लिँट्
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गम् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = गम् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = गम् गम् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-2-116.
    = ग गम् + अ । By 7-4-60 हलादिः शेषः।
    = ज गम् + अ । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = जगाम । By 7-2-116 अत उपधायाः ।

    ‘उप’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उप + जगाम = उपजगाम ।

    6. How would you say this in Sanskrit?
    “Sri Rama dispatched Angada (as) a messenger to Ravana.” Use the masculine प्रातिपदिकम् “दूत” for “messenger.” Use चतुर्थी विभक्ति: with “Ravana.”
    Answer: श्रीरामः अङ्गदम् दूतम् रावणाय प्रेषयामास । = श्रीरामोऽङ्गदं दूतं रावणाय प्रेषयामास।

    Easy questions:

    1. Where has 8-4-63 शश्छोऽटि been used in the verses?
    Answer: 8-4-63 शश्छोऽटि has been used in the verses in the सन्धि-कार्यम् between साक्षात् + श्रीः = साक्षाच्छ्रीः।
    साक्षात् + श्रीः
    = साक्षाद् + श्रीः । By 8-2-39 झलां जशोऽन्ते।
    = साक्षाज् + श्रीः । By 8-4-40 स्तोः श्चुना श्चुः।
    = साक्षाच् + श्रीः । By 8-4-55 खरि च।
    = साक्षाच्छ्रीः । By 8-4-63 शश्छोऽटि – When a झय् letter precedes, a शकार: is optionally substituted by a छकार:, if an अट् letter follows.

    2. Which सूत्रम् is used for the सकारादेश: (substitute letter “स्”) in the सा (सर्वनाम-प्रातिपदिकम् “तद्”, स्त्रीलिङ्गे प्रथमा-एकवचनम्)?
    Answer: 7-2-106 तदोः सः सावनन्त्ययोः is used for the सकारादेश: (substitute letter “स्”) in the form सा (सर्वनाम-प्रातिपदिकम् “तद्”, स्त्रीलिङ्गे प्रथमा-एकवचनम्)।
    तद् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…।
    = त अ + सुँ । By 7-2-102 त्यदादीनामः, “तद्” gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य, only the ending दकार: gets replaced.
    = त + सुँ । By 6-1-97 अतो गुणे the अकारः at the end of “त” and the following अकारादेशः is replaced by “अ” (पररूपम्) as एकादेशः।
    = त टाप् + सुँ । Since we are deriving a feminine form, we have to add the प्रत्ययः “टाप्” to “त” using 4-1-4 अजाद्यतष्टाप्।
    = त आ + सुँ । अनुबन्धलोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = ता + सुँ । By 6-1-101 अकः सवर्णे दीर्घः।
    = त् आ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = स् आ + स् । By 7-2-106 तदोः सः सावनन्त्ययोः – When the affix “सुँ” follows, the तकारः or दकारः belonging to any pronoun (सर्वनाम-शब्द:) starting with “त्यद्” and ending with “द्वि”, gets सकारः as a replacement as long as the तकारः or दकारः does not occur at the end of the pronoun.
    = सा । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् ।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics