Home » Example for the day » हन्ता 3As-लुँट्

हन्ता 3As-लुँट्

Today we will look at the form हन्ता 3As-लुँट् from श्रीमद्भागवतम् 10.1.33

शङ्खतूर्यमृदङ्गाश्च नेदुर्दुन्दुभयः समम् ।
प्रयाणप्रक्रमे तावद् वरवध्वोः सुमङ्गलम् ।। १०-१-३३ ।।
पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवाक् ।
अस्यास्त्वामष्टमो गर्भो हन्ता यां वहसेऽबुध ।। १०-१-३४ ।।

श्रीधर-स्वामि-टीका
आभाष्य रे रे कंसेति संबोध्य । हन्ता हनिष्यति ।। ३४ ।।

Gita Press translation “As the procession of the bride and the bridegroom was just going to start, conchs, clarinets, clay tom-toms and kettledrums sounded all at once in a most auspicious manner. Addressing Kaṁsa, who held the reins while on the way, an incorporeal voice said, “O foolish one! the eighth child of this girl, whom you are (now) conducting, will slay you.”

हन्ता is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)

The ending अकारः (which is an इत्) of “हनँ” has a उदात्त-स्वरः। Thus √हन् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √हन् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हन् + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) हन् + तासिँ + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) हन् + तास् + ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः
See question 3.

(7) हन् + तास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”।

(8) हन् + तास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) हन् + त् + आ । By 6-4-143 टेः, when the अङ्गम् has the भ-सञ्ज्ञा, then its “टि” portion (ref. 1-1-64 अचोऽन्त्यादि टि) takes लोप: when followed by an affix that has डकारः as an indicatory letter.
Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः

(10) हंता । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(11) हन्ता । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions:

1. Can you think of a प्रातिपदिकम् which when declined पुंलिङ्गे प्रथमा-एकवचनम् will give the form हन्ता?

2. Where is this प्रातिपदिकम् (answer to question 1) used in Chapter Two of the गीता?

3. √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २) is one among two monosyllabic (having one vowel) verbal roots in the धातु-पाठ: which end in a नकार: and have a अनुदात्त-स्वर: on their vowel. Which is the other one?

4. Which सूत्रम् is used for the एकारादेश: in the form नेदु:?

5. Where has 3-4-80 थासस्से been used in the verses?

6. How would you say this in Sanskrit?
“Bharata said to Sri Rama, ‘I will not return to Ayodhya without you.'” Use the अव्ययम् “विना” for “without” and (a लुँट् form of) √गम् (गमॢँ गतौ १. ११३७) with the उपसर्ग: “प्रति” for “to return.” Use द्वितीया विभक्ति: with “you.”

Easy questions:

1. Where has 7-2-113 हलि लोपः been used in the verses?

2. Which सूत्रम् is used for the टि-लोप: it the form पथि (पुंलिङ्ग-प्रातिपदिकम् “पथिन्”, सप्तमी-एकवचनम्)?


1 Comment

  1. Questions:
    1. Can you think of a प्रातिपदिकम् which when declined पुंलिङ्गे प्रथमा-एकवचनम् will give the form हन्ता?
    Answer: The प्रातिपदिकम् which when declined पुंलिङ्गे प्रथमा-एकवचनम् will give the form हन्ता is “हन्तृ”।
    हन्तृ + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। The प्रत्यय: “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = हन्तृ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = हन्त् अनँङ् + स् । By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च, “ऋत्” (short “ऋ”) ending terms, as well as the terms “उशनस्”, “पुरुदंसस्” and “अनेहस्” get the “अनँङ्” replacement when the “सुँ” suffix, that is not सम्बुद्धिः, follows. As per 1-1-53 ङिच्च, only the ending ऋकार: of “हन्तृ” is replaced.
    = हन्त् अन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन्तान् + स् । By 6-4-11 अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम्, when a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of “अप्”, of words ending in affixes “तृन्” and “तृच्” and of the words “स्वसृ”, “नप्तृ”, “नेष्टृ”, “त्वष्टृ”, “क्षत्तृ”, “होतृ”, “पोतृ” and “प्रशास्तृ” is elongated.
    = हन्तान् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now “हन्तान्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = हन्ता । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    2. Where is this प्रातिपदिकम् (answer to question 1) used in Chapter Two of the गीता?
    Answer: The प्रातिपदिकम् “हन्तृ” is used in Chapter Two of the गीता in the form हन्तारम् (पुंलिङ्गे द्वितीया-एकवचनम्) ।

    य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् |
    उभौ तौ न विजानीतो नायं हन्ति न हन्यते || 2-19||

    हन्तृ + अम् । By 4-1-2 स्वौजसमौट्छष्टा…। The प्रत्यय: “अम्” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = हन्तर् अम् । By 7-3-110 ऋतो ङि-सर्वनामस्थानयोः – The ending ऋकार: of a अङ्गम् gets a गुणः replacement, when followed by the affix “ङि” (सप्तमी-एकवचनम्) or an affix with the designation सर्वनामस्थानम्। As per 1-1-51 उरण् रँपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
    = हन्तारम् । By 6-4-11 अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम् – When a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of “अप्”, of words ending in affixes “तृन्” and “तृच्” and of the words “स्वसृ”, “नप्तृ”, “नेष्टृ”, “त्वष्टृ”, “क्षत्तृ”, “होतृ”, “पोतृ” and “प्रशास्तृ” is elongated.

    3. (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २) is one among two monosyllabic (having one vowel) verbal roots in the धातु-पाठ: which end in a नकार: and have a अनुदात्त-स्वर: on their vowel. Which is the other one?
    Answer: The other one is √मन् (मनँ ज्ञाने ४. ७३)।

    4. Which सूत्रम् is used for the एकारादेश: in the form नेदु:?
    Answer: सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि is used for the एकारादेश: in the form नेदुः derived from the धातुः √नद् (भ्वादि-गणः, णदँ अव्यक्ते शब्दे, धातु-पाठः #१. ५६). The initial णकार: of “णदँ” is replaced by a नकार: by 6-1-65 णो नः – There is the substitution of नकारः in the place of the initial णकारः of a धातुः in the धातु-पाठः।

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    नद् + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = नद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नद् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = नद् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = नद् नद् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = न नद् + उस् । By 7-4-60 हलादिः शेषः।
    = नेद् + उस् । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
    (i) the अकार: is preceded and followed by a single (non-conjunct) consonant
    (ii) the अङ्गम् is followed by a लिँट् affix which is कित्
    (iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.

    Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence “उस्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.
    = नेदुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    5. Where has 3-4-80 थासस्से been used in the verses?
    Answer: 3-4-80 थासस्से has been used in the verses in the form वहसे derived from the धातुः √वह् (वहँ प्रापणे १. ११५९)।
    The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    वह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वह् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वह् + से । By 3-4-80 थासस्से, the “थास्”-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement.
    = वह् + शप् + से । By 3-1-68 कर्तरि शप्।
    = वहसे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    6. How would you say this in Sanskrit?
    “Bharata said to Sri Rama, ‘I will not return to Ayodhya without you.’” Use the अव्ययम् “विना” for “without” and (a लिँट् form of) √गम् (गमॢँ गतौ १. ११३७) with the उपसर्ग: “प्रति” for “to return.” Use द्वितीया विभक्ति: with “you.”
    Answer: त्वाम् विना अयोध्याम् न प्रतिगन्तास्मि इति भरतः श्रीरामम् उवाच = त्वां विनायोध्यां न प्रतिगन्तास्मीति भरतः श्रीराममु्वाच।

    Easy questions:

    1. Where has 7-2-113 हलि लोपः been used in the verses?
    Answer: 7-2-113 हलि लोपः has been used in the form अस्याः (सर्वनाम-प्रातिपदिकम् “इदम्”, स्त्रीलिङ्गे षष्ठी-एकवचनम्)।
    इदम् + ङस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = इद अ + ङस् । By 7-2-102 त्यदादीनामः।
    = इद + ङस् । By 6-1-97 अतो गुणे।
    = इद टाप् + ङस् । By 4-1-4 अजाद्यतष्टाप्।
    = इद आ + ङस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = इदा + ङस् । By 6-1-101 अकः सवर्णे दीर्घः।
    = इदा + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
    = इद + स्याट् अस् । By 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च, 1-1-46 आद्यन्तौ टकितौ।
    = इद + स्या अस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इद + स्यास् । By 6-1-101 अकः सवर्णे दीर्घः।
    = अस्यास् । By 7-2-113 हलि लोपः, the “इद्” of इदम् that is without the ककारः takes लोपः, when the विभक्तिः affixes of the आप्-प्रत्याहारः, which begin with a consonant, follow.
    आप् is the प्रत्याहारः made of the सुँप् affixes from टा (तृतीया-एकवचनम्) until सुप् (सप्तमी-बहुवचनम्)।
    = अस्याः । By 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Which सूत्रम् is used for the टि-लोप: it the form पथि (पुंलिङ्ग-प्रातिपदिकम् “पथिन्”, सप्तमी-एकवचनम्)?
    Answer: 7-1-88 भस्य टेर्लोपः is used for the टि-लोप: in the form पथि (पुंलिङ्ग-प्रातिपदिकम् “पथिन्”, सप्तमी-एकवचनम्)
    पथिन् + ङि । By 4-1-2 स्वौजसमौट्छष्टा…।
    = पथिन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। ‘पथिन्’ gets भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = पथि । टि-लोप: by 7-1-88 भस्य टेर्लोपः – The टि-भागः (“इन्”) of “पथिन्”, “मथिन्” and “ऋभुक्षिन्”, when they have the भ-सञ्ज्ञा, takes लोपः। “टि” is defined by 1-1-64 अचोऽन्त्यादि टि – That part of a group of sounds which begins with the last vowel of the group (and goes to the end of the group) gets the designation “टि”।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

February 2012
M T W T F S S
« Jan   Mar »
 12345
6789101112
13141516171819
20212223242526
272829  

Topics