Today we will look at the form भविता 3As-लुँट् from श्रीमद्भागवतम् 9.18.22
न ब्राह्मणो मे भविता हस्तग्राहो महाभुज । कचस्य बार्हस्पत्यस्य शापाद्यमशपं पुरा ।। ९-१८-२२ ।।
ययातिरनभिप्रेतं दैवोपहृतमात्मनः । मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह तद्वचः ।। ९-१८-२३ ।।
श्रीधर-स्वामि-टीका –
ब्राह्मणमेव त्वं वृणीहि किमनेनाग्रहेणेति चेत्तत्राह – न ब्राह्मण इति । बृहस्पतेः सुतः कचः शुक्रान्मृतसंजीवनीं विद्यामध्यगात्, तदा च देवयानी तं पतिं चकमे, स च गुरुपुत्री मम पूज्येति न तामुदवहत्, ततश्च कुपिता सती तवेयं विद्या निष्फला भवत्विति तं शशाप, स च तव ब्राह्मणः पतिर्न भवेदिति तां शशाप । तदेतदाह – यमहमशपं तस्य शापात् ।। २२ ।। अशास्त्रीयत्वादनभिप्रेतमपि दैवेनोपहृतं प्रापितं बुद्ध्वा तद्गतं तस्यां सकामं स्वं मनश्च बुद्ध्वा नह्यधर्मे मदीयं मनः प्रविशेदिति तस्या वचः प्रतिजग्राहाङ्गीकृतवान् ।। २३ ।।
Gita Press translation “A Brāhmaṇa is not destined to be my husband, thanks to the imprecation of Kaca (the son of sage Bṛhaspati) – Kaca, whom I had cursed on a former occasion, O long-armed one!” Recognizing the connection as having been pre-ordained by fate, even though it was not (at all) acceptable to him (inasmuch as it was against the recognized code of ethics), and perceiving his mind too (which could not lean towards unrighteousness) drawn towards her, Yayāti agreed to her proposal.”
भविता is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)
In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।
The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
(1) भू + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.
(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
(4) भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) भू + तासिँ + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.
Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप् etc.
(6) भू + तास् + ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
(7) भू + इट् तास् + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।
(8) भू + इतास् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(9) भो + इतास् + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
(10) भवितास् + ति । By 6-1-78 एचोऽयवायावः।
(11) भवितास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”।
(12) भवितास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
(13) भविता । By 6-4-143 टेः, when the अङ्गम् has the भ-सञ्ज्ञा, then its “टि” portion (ref. 1-1-64 अचोऽन्त्यादि टि) takes लोप: when followed by an affix that has डकारः as an indicatory letter.
Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
Questions:
1. Where has भविता been used in the गीता?
2. Commenting on the सूत्रम् 2-4-85 लुटः प्रथमस्य डारौरसः (used in step 11 of the example) the काशिका says – प्रथमस्य इति किम्? श्वः कर्तासि। Please explain.
3. Can you spot a “णल्”-प्रत्यय: in the verse?
4. Which सूत्रम् is used for the ईकारादेश: in the form वृणीहि in the commentary?
5. Where has the “श”-प्रत्यय: been used in the commentary?
6. Using some words from the commentary, construct the following two sentences in Sanskrit:
“Ravana’s sister Surpanakha desired to have Sri Rama as her husband.”
“Ravana desired to have Sita as his wife.”
Easy questions:
1. Where has 6-4-137 न संयोगाद्वमन्तात् been used in the verses?
2. Which सूत्रम् is used for the “स्याट्”-आगम: in तस्याम् and तस्या: in the commentary?
Questions:
1. Where has भविता been used in the गीता?
Answer: भविता has been used in the गीता in the following two verses:
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः |
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || 2-20||
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः |
भविता न च मे तस्मादन्यः प्रियतरो भुवि || 18-69||
2. Commenting on the सूत्रम् 2-4-85 लुटः प्रथमस्य डारौरसः (used in step 11 of the example) the काशिका says – प्रथमस्य इति किम्? श्वः कर्तासि। Please explain.
Answer: प्रथमस्य इति किम् means what was the need to use प्रथमस्य (the third person affixes of लुँट्) in the सूत्रम् 2-4-85 लुटः प्रथमस्य डारौरसः। The reason is to restrict the application of 2-4-85 only to the प्रथमपुरुषः (third person) affixes. This makes sure that 2-4-85 does not apply in forms like कर्तासि which is in मध्यमपुरुषः। कर्तासि is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०). The विवक्षा is लुँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
कृ + लुँट् । By 3-3-15 अनद्यतने लुट्।
= कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृ + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। As explained above, 2-4-85 लुटः प्रथमस्य डारौरसः does not apply here because “सिप्” is not a प्रथम-पुरुष-प्रत्यय:।
= कृ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृ + तासिँ + सि । By 3-1-33 स्यतासी लृलुटोः।
= कृ + तास् + सि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= कृ + ता + सि । By 7-4-50 तासस्त्योर्लोपः।
= कर् + ता + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
= कर्तासि।
3. Can you spot a ‘णल्’-प्रत्यय: in the verse?
Answer: A ‘णल्’-प्रत्यय: is seen in the form प्रतिजग्राह derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१).
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
ग्रह् + लिँट् । By 3-2-115 परोक्षे लिँट्।
= ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= ग्रह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= ग्रह् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः – When they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – ‘तिप्’, ‘तस्’, ‘झि’, ‘सिप्’, ‘थस्’, ‘थ’, ‘मिप्’, ‘वस्’ and ‘मस्’ – are substituted by ‘णल्’, ‘अतुस्’, ‘उस्’, ‘थल्’, ‘अथुस्’, ‘अ’, ‘णल्’, ‘व’ and ‘म’ respectively.
= ग्रह् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= ग्रह् ग्रह् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः।
= ज्रह् ग्रह् + अ । By 7-4-62 कुहोश्चुः – In a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or the letter ‘ह्’ is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
= ज ग्रह् + अ । By 7-4-60 हलादिः शेषः।
= जग्राह । By 7-2-116 अत उपधायाः।
‘प्रति’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
प्रति + जग्राह = प्रतिजग्राह।
4. Which सूत्रम् is used for the ईकारादेश: in the form वृणीहि in the commentary?
Answer: 6-4-113 ई हल्यघोः is used for the ईकारादेश: in the form वृणीहि in the commentary. वृणीहि is derived from the धातुः √वृ (वृङ् सम्भक्तौ ९. ४५).
The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
वृ + लोँट् । By 3-3-162 लोट् च ।
= वृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वृ + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। Note: “वृङ्” has ङकारः as a इत् and hence as per 1-3-12 अनुदात्तङित आत्मनेपदम्, आत्मनेपदम् should have been used here. Instead परस्मैपदम् has been irregularly used.
= वृ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वृ + हि । By 3-4-87 सेर्ह्यपिच्च।
= वृ + श्ना + हि । By 3-1-81 क्र्यादिभ्यः श्ना।
= वृ + ना + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= वृ + नी + हि । By 6-4-113 ई हल्यघोः, when followed by a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is substituted by ईकारः, excepting the आकारः of the verbal roots having the घु-सञ्ज्ञा। (Note: Since the सार्वधातुक-प्रत्यय: “हि” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-113 to apply.)
= वृणीहि । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel “ऋ” also (along-side the रेफः and षकारः)।
5. Where has the “श”-प्रत्यय: been used in the commentary?
Answer: “श”-प्रत्यय: has been used in the form प्रविशेत् derived from the धातुः √विश् (तुदादि-गणः, विशँ प्रवेशने, धातु-पाठः # ६. १६०).
The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
विश् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= विश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= विश् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= विश् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= विश् + त् । By 3-4-100 इतश्च।
= विश् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
= विश् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= विश् + श + यास् त् । By 3-1-77 तुदादिभ्यः शः – The “श”-प्रत्यय: is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्। Note: Since the प्रत्यय: “श” is a सार्वधातुक-प्रत्यय: which is अपित्, it behaves ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the penultimate इकार: of the अङ्गम् “विश्” which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
= विश् + अ + यास् त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= विश + इय् त् । By 7-2-80 अतो येयः।
= विश इ त् । By 6-1-66 लोपो व्योर्वलि।
= विशेत् । By 6-1-87 आद्गुणः।
“प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
प्र + विशेत् = प्रविशेत्।
6. Using some words from the commentary, construct the following two sentences in Sanskrit:
“Ravana’s sister Surpanakha desired to have Sri Rama as her husband.”
“Ravana desired to have Sita as his wife.”
Answer: (1) रावणस्य स्वसा शूर्पणखा श्रीरामम् पतिम् चकमे = रावणस्य स्वसा शूर्पणखा श्रीरामं पतिं चकमे ।
(2) रावणः सीताम् पत्नीम् चकमे = रावणः सीतां पत्नीं चकमे ।
Easy questions:
1. Where has 6-4-137 न संयोगाद्वमन्तात् been used in the verses?
Answer: 6-4-137 न संयोगाद्वमन्तात् is used in formation of आत्मनः। The प्रातिपदिकम् here is “आत्मन्” (= आ त्म् अन्)। By 6-4-137 न संयोगाद्वमन्तात्, the अकारः of “अन्” does not take लोपः (as ordained by 6-4-134 अल्लोपोऽनः), when it follows a conjunct that has वकारः or मकारः as its last member. 6-4-137 न संयोगाद्वमन्तात् is निषेध-सूत्रम् to 6-4-134 अल्लोपोऽनः। In this example, we have the conjunct “त्म्” preceding “अन्” – hence 6-4-137 न संयोगाद्वमन्तात् prohibits 6-4-134 अल्लोपोऽनः।
आत्मन् + ङस् । By 4-1-2 स्वौजसमौट्छष्टा……
= आत्मन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
= आत्मनः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Which सूत्रम् is used for the “स्याट्”-आगम: in तस्याम् and तस्या: in the commentary?
Answer: 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च is used for the “स्याट्”-आगम: in the form तस्याम् (सर्वनाम-प्रातिपदिकम् “तद्”, स्त्रीलिङ्गे सप्तमी-एकवचनम्)। and तस्या: (सर्वनाम-प्रातिपदिकम् “तद्”, स्त्रीलिङ्गे षष्ठी-एकवचनम्)।
तद् + ङि । By 4-1-2 स्वौजसमौट्छष्टा………।
त अ + ङि । By 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
= त + ङि । By 6-1-97 अतो गुणे।
= त टाप् + ङि । Since we are deriving a feminine form, we have to add the प्रत्ययः “टाप्” to “त” using 4-1-4 अजाद्यतष्टाप्।
= त आ + ङि । अनुबन्धलोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= ता + ङि । By 6-1-101 अकः सवर्णे दीर्घः।
= ता + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा। Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, “आम्” is ङित् because it came in place of “ङि”।
= त + स्याट् आम् । By 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च, the ङित् affixes that follow a सर्वनाम-शब्द: that ends in an आप् affix, get the स्याट् augment and the (अङ्गम् ending in) आप् is shortened. As per 1-1-46 आद्यन्तौ टकितौ, the augment स्याट् joins at the beginning of the प्रत्यय: “आम्”।
= त + स्या आम् । अनुबन्धलोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= तस्याम् । By 6-1-101 अकः सवर्णे दीर्घः।
Similarly,
तद् + ङस् । By 4-1-2 स्वौजसमौट्छष्टा………।
त अ + ङस् । By 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
= त + ङस् । By 6-1-97 अतो गुणे।
= त टाप् + ङस् । Since we are deriving a feminine form, we have to add the प्रत्ययः “टाप्” to “त” using 4-1-4 अजाद्यतष्टाप्।
= त आ + ङस् । अनुबन्धलोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= ता + ङस् । By 6-1-101 अकः सवर्णे दीर्घः।
= ता + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
= त + स्याट् अस् । By 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च, the ङित् affixes that follow a सर्वनाम-शब्द: that ends in an आप् affix, get the स्याट् augment and the (अङ्गम् ending in) आप् is shortened. As per 1-1-46 आद्यन्तौ टकितौ, the augment स्याट् joins at the beginning of the प्रत्यय: “अस्”।
= त + स्या अस् । अनुबन्धलोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= तस्यास् । By 6-1-101 अकः सवर्णे दीर्घः।
= तस्या: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।