Today we will look at the form भविष्यति 3As-लृँट् from श्रीमद्भागवतम् 4.30.11.
यद्यूयं पितुरादेशमग्रहीष्ट मुदान्विताः ।
अथो व उशती कीर्तिर्लोकाननु भविष्यति ।। ४-३०-११ ।।
भविता विश्रुतः पुत्रोऽनवमो ब्रह्मणो गुणैः ।
य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति ।। ४-३०-१२ ।।
श्रीधर-स्वामि-टीका –
अग्रहीष्ट गृहीतवन्तः । अथो इति हेतोः । लोकाननु लोकेषु भविष्यति । यद्वा लोकाननु भविष्यति द्रक्ष्यति व्याप्स्यतीत्यर्थः ।। ११ ।। आत्मनो विर्येण सन्तानेन ।। १२ ।।
Gita Press translation “Inasmuch as you have joyfully carried out the command of your father, your bright renown will accordingly pervade all the (different) worlds (comprised in this universe). An illustrious son will be born to you, who will be in no way inferior to Brahmā (the creator) in point of virtues and who will fill all the three worlds with his progeny.”
भविष्यति is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)
In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।
The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
(1) भू + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.
(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।
(4) भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) भू + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.
Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप् etc.
(6) भू + इट् स्य + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।
(7) भू + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(8) भो + इस्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
(9) भविस्य + ति । By 6-1-78 एचोऽयवायावः।
(10) भविष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
Questions:
1. Where has लृँट् been used for the last time in the गीता?
2. Clarifying the meaning of the word शेषे in the सूत्रम् 3-3-13 लृट् शेषे च (used in step 1), the तत्त्वबोधिनी says – “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्” इति प्रागुक्तं, ततोऽन्यः शेष:। Please explain.
3. Why didn’t the “स्य”-प्रत्यय: take the “इट्”-आगम: in the form व्याप्स्यति used in the commentary?
4. Where has लुँट् been used in the verses?
5. Can you spot a “णिच्”-प्रत्यय: in the verses?
6. How would you say this in Sanskrit?
“Only through knowledge will there be an end to (of) my sorrow.” Use the neuter प्रातिपदिकम् “शमन” for “end.” Use तृतीया विभक्ति: to express the meaning of “through (by means of.)”
Easy questions:
1. Where has 6-1-111 ऋत उत् been used in the verses?
2. Why doesn’t 6-4-134 अल्लोपोऽनः apply in the form ब्रह्मण: (प्रातिपदिकम् “ब्रह्मन्”, पुंलिङ्गे षष्ठी-एकवचनम्)?
Questions:
1. Where has लृँट् been used for the last time in the गीता?
Answer: लृँट् been used for the last time in the गीता in the form करिष्ये derived from the धातुः √कृ (डुकृञ् करणे ८. १०).
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत |
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव || 18-73||
The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
कृ + लृँट् । By 3-3-13 लृट् शेषे च।
= कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृ + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
= कृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृ + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
= कृ + स्य + ए । By 3-1-33 स्यतासी लृलुटोः।
= कृ + इट् स्य + ए । By 7-2-70 ऋद्धनोः स्ये, 1-1-46 आद्यन्तौ टकितौ ।
= कृ + इस्य + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कर् + इस्य + ए । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
= करिस्ये । By 6-1-97 अतो गुणे।
= करिष्ये । By 8-3-59 आदेशप्रत्यययो:।
2. Clarifying the meaning of the word शेषे in the सूत्रम् 3-3-13 लृट् शेषे च (used in step 1), the तत्त्वबोधिनी says – “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्” इति प्रागुक्तं, ततोऽन्यः शेष:। Please explain.
Answer: प्रागुक्तं (= प्राक् + उक्तम्) means – told earlier. The सूत्रम् 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् comes in अष्टाध्यायी before 3-3-13 लृट् शेषे च। Hence “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्” इति प्रागुक्तं means that earlier (in the अष्टाध्यायी in 3-3-10), the affixes तुमुन् and ण्वुल् have been prescribed (only) when there is a क्रियार्था क्रिया (an action meant or intended for another action) present. ततोऽन्यः शेष: means – other than that is शेष: (remaining case.) So शेष: here means the case where a क्रियार्था क्रिया is not present. Thus the meaning of 3-3-13 लृट् शेषे च becomes – with or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.
3. Why didn’t the “स्य”-प्रत्यय: take the “इट्”-आगम: in the form व्याप्स्यति used in the commentary?
Answer: In the form व्याप्स्यति, the “स्य”-प्रत्यय: does not take the “इट्”-आगम: because it is blocked by the निषेध-सूत्रम् (prohibition rule) 7-2-10 एकाच उपदेशेऽनुदात्तात् – A “इट्”-आगम: is prohibited for a आर्धधातुक-प्रत्यय: when it follows a धातु: which in the धातु-पाठ: has only one vowel with a अनुदात्त: accent. The धातुः √आप् (आपॢँ व्याप्तौ ५. १६) used in deriving the form व्याप्स्यति has only one vowel with a अनुदात्त: accent in the धातु-पाठ:।
The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
आप् + लृँट् । By 3-3-13 लृट् शेषे च।
= आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= आप् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= आप् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= आप् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः। As explained above, 7-2-10 एकाच उपदेशेऽनुदात्तात् blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
= आप्स्यति ।
“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + आप्स्यति = व्याप्स्यति । By 6-1-77 इको यणचि।
4. Where has लुँट् been used in the verses?
Answer: लुँट् been used in the verses in the form भविता derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)
The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
भू + लुँट् । By 3-3-15 अनद्यतने लुट्।
= भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भू + तासिँ + ति । By 3-1-33 स्यतासी लृलुटोः।
= भू + तास् + ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= भू + इट् तास् + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= भू + इतास् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भो + इतास् + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= भवितास् + ति । By 6-1-78 एचोऽयवायावः।
= भवितास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः।
= भवितास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= भविता । By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
5. Can you spot a “णिच्”-प्रत्यय: in the verses?
Answer: “णिच्”-प्रत्यय: is seen in the form पूरयिष्यति derived from the धातुः √पूर् (पूरीँ आप्यायने ४. ४६ or पूरीँ आप्यायने १०. ३३४).
पूर् + णिच् । By 3-1-26 हेतुमति च (in the case of पूरीँ आप्यायने ४. ४६) or by 3-1-25 सत्यापपाश…चुरादिभ्यो णिच् (in the case of पूरीँ आप्यायने १०. ३३४).
= पूर् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= पूरि । “पूरि” get the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
पूरि + लृँट् । By 3-3-13 लृट् शेषे च।
= पूरि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= पूरि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= पूरि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= पूरि + स्य + ति । By 3-1-33 स्यतासी लृलुटोः।
= पूरि + इट् स्य + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= पूरि + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= पूरे + इस्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= पूर् अय् + इस्य + ति । By 6-1-78 एचोऽयवायावः।
= पूरयिष्यति। By 8-3-59 आदेशप्रत्यययो:।
6. How would you say this in Sanskrit?
“Only through knowledge will there be an end to (of) my sorrow.” Use the neuter प्रातिपदिकम् “शमन” for “end.” Use तृतीया विभक्ति: to express the meaning of “through (by means of.)”
Answer: ज्ञानेन एव मम दुःखस्य शमनम् भविष्यति = ज्ञानेनैव मम दुःखस्य शमनं भविष्यति ।
Easy questions:
1. Where has 6-1-111 ऋत उत् been used in the verses?
Answer: 6-1-111 ऋत उत् has been used in the verses in the form पितु: (पुंलिङ्ग-प्रातिपदिकम् “पितृ”, षष्ठी-एकवचनम्।)
पितृ + ङस् । By 4-1-2 स्वौजसमौट्छष्टा…………..।
= पित् ऋ + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “ङस्” from getting the इत्-सञ्ज्ञा ।
= पित् उर् + स् । By 6-1-111 ऋत उत् – The short उकारः shall be a single substitute in the place of the short ऋकारः and the following short अकारः of the affix “ङसिँ” or “ङस्”। As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
= पित् उर् । By 8-2-23 संयोगान्तस्य लोपः along with 8-2-24 रात् सस्य।
= पितुः । By 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Why doesn’t 6-4-134 अल्लोपोऽनः apply in the form ब्रह्मण: (प्रातिपदिकम् “ब्रह्मन्”, पुंलिङ्गे षष्ठी-एकवचनम्)?
Answer: 6-4-134 अल्लोपोऽनः does not apply in the form ब्रह्मण: because it is blocked by 6-4-137 न संयोगाद्वमन्तात्, the अकारः of “अन्” does not take लोपः (as ordained by 6-4-134 अल्लोपोऽनः), when it follows a conjunct that has वकारः or मकारः as its last member. 6-4-137 is निषेध-सूत्रम् to 6-4-134. In this example, we have the conjunct “ह्म्” preceding “अन्” – hence 6-4-137 stops 6-4-134.
ब्रह्मन् + ङस् । By 4-1-2 स्वौजसमौट्छष्टा…………..।
= ब्रह्मन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “ङस्” from getting the इत्-सञ्ज्ञा। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्। But as explained above, 6-4-137 stops 6-4-134.
= ब्रह्मनः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
= ब्रह्मणः । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।