Today we will look at the form विचुक्षुभुः 3Ap-लिँट् from श्रीमद्भागवतम् 7.8.32
सटावधूता जलदाः परापतन्ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः।
अम्भोधयः श्वासहता विचुक्षुभुर्निर्ह्रादभीता दिगिभा विचुक्रुशुः ।। ७-८-३२ ।।
श्रीधर-स्वामि-टीका –
दैत्यवधव्यग्रस्य नृहरेराटोपमाह द्वाभ्याम् । सटाभिरवधूताः प्रकम्पिता जलदा मेघाः परापतन् व्यशीर्यन्त । (अनेन ये मेघान्तरिता देवास्ते स्पष्टं पश्यन्त्वित्याज्ञां दत्तवानित्यर्थः)। तस्य दृष्ट्या विमुष्टं रोचिर्येषां ग्रहाणां ते तिरस्कृतप्रभा अभवन्निति शेषः । दिगिभा दिग्गजाः ।।
Gita Press translation “Shaken by His hair, clouds began to scatter away and the planets were robbed of their lustre by His (very) glances. Tossed by His breath, the oceans grew turbulent and, frightened by His roar, the elephants guarding the quarters trumpeted.”
विचुक्षुभुः is derived from the धातुः √क्षुभ् (क्र्यादि-गणः, क्षुभँ सञ्चलने ९. ५५) or √क्षुभ् (दिवादि-गणः, क्षुभँ सञ्चलने ४. १५४).
[Note: There is also a धातु: √क्षुभ् (क्षुभँ सञ्चलने १. ८५४) in the भ्वादि-गणः। But it cannot be used to derive the form चुक्षुभुः because it is आत्मनेपदी।]
In the धातु-पाठः, this √क्षुभ्-धातुः has one इत् letter which is the अकार: following the भकार:। This इत् letter has a उदात्त-स्वर:। Thus this √क्षुभ्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, this √क्षुभ्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So this √क्षुभ्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is झि।
(1) क्षुभ् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.
(2) क्षुभ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) क्षुभ् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा।
(4) क्षुभ् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
(5) क्षुभ् क्षुभ् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
(6) कु क्षुभ् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
(7) चु क्षुभ् + उस् By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
Note: “उस्” is a कित्-प्रत्यय: as per 1-2-5 असंयोगाल्लिट् कित् – A लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence 1-1-5 ग्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.
(8) चुक्षुभुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + चुक्षुभुः = विचुक्षुभुः ।
Questions:
1. Where is लिँट् used for the first time in the गीता?
2. Where else (besides in चुक्षुभुः) has 7-4-62 कुहोश्चुः (used in step 7 of the example) been used in the verse?
3. In the commentary, in a तिङन्तं पदम् can you spot a धातु: which ends in a ॠकार:?
4. Which सूत्रम् is used for the उकारादेश: in the word पश्यन्तु used in the commentary?
5. Which word used in the commentary is an alternate form for ब्रवीति?
6. How would you say this in Sanskrit?
“When Ravana fell on the ground, the entire earth, along with the mountains and the oceans, shook.” Use (a लिँट् form of) √क्षुभ् (क्र्यादि-गणः, क्षुभँ सञ्चलने ९. ५५) for “to shake” and (a लिँट् form of) √पत् (पतॢँ गतौ १. ९७९) for “to fall.” Use the adjective प्रातिपदिकम् “सकल” (feminine “सकला”) for “entire” and use the अव्यये यदा/तदा for “when” and “then.”
Easy questions:
1. Where has 7-3-109 जसि च been used in the verse?
2. Which सूत्रम् is used for the एकारादेश: (letter “ए” as a substitute) in the word येषाम् (used in the commentary)?
Questions:
1. Where is लिँट् used for the first time in the गीता?
Answer: लिँट् is used for the first time in the गीता in the very first verse in the form उवाच (वचँ परिभाषणे २. ५८, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।
धृतराष्ट्र उवाच |
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय || 1-1||
वच्+ लिँट् । By 3-2-115 परोक्षे लिँट्।
= वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= वच् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
= वच् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= वच् वच् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-2-116.
= व वच् + अ । By 7-4-60 हलादिः शेषः।
= उ अ वच् + अ । By 6-1-17 लिट्यभ्यासस्योभयेषाम्।
= उ वच् + अ । By 6-1-108 सम्प्रसारणाच् च।
= उवाच । By 7-2-116 अत उपधायाः।
2. Where else (besides in चुक्षुभुः) has 7-4-62 कुहोश्चुः (used in step 7 of the example) been used in the verse?
Answer: 7-4-62 कुहोश्चुः (used in step 7 of the example) has been used in the verse in the form विचुक्रुशुः derived from the धातुः √क्रुश् (भ्वादि-गणः, क्रुशँ आह्वाने रोदने च, धातु-पाठः # १. ९९२).
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
क्रुश् + लिँट् । By 3-2-115 परोक्षे लिँट्।
= क्रुश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= क्रुश् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= क्रुश् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
= क्रुश् क्रुश् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
= कु क्रुश् + उस् । By 7-4-60 हलादिः शेषः।
= चु क्रुश् + उस् । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
= चुक्रुशुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + चुक्रुशुः = विचुक्रुशुः।
3. In the commentary, in a तिङन्तं पदम् can you spot a धातु: which ends in a ॠकार:?
Answer: In the commentary, in a तिङन्तं पदम् a धातु: which ends in a ॠकार: is √शॄ (शॄ हिंसायाम् ९. २१) used in the form व्यशीर्यन्त (लँङ्, कर्मणि प्रयोग:, प्रथम-पुरुष:, बहुवचनम्)।
शॄ + लँङ् । By 3-2-111 अनद्यतने लङ्।
= शॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= शॄ + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= शॄ + यक् + झ । By 3-1-67 सार्वधातुके यक्। Note: 1-1-5 ग्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
= शॄ + य + झ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= शॄ + य + अन्त् अ । By 7-1-3 झोऽन्तः।
= शिर् + य + अन्त् अ । 7-1-100 ॠत इद्धातोः, 1-1-51 उरण् रपरः।
= शिर्यन्त । By 6-1-97 अतो गुणे।
= शीर्यन्त । By 8-2-77 हलि च।
= अट् शीर्यन्त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
= अशीर्यन्त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + अशीर्यन्त = व्यशीर्यन्त । By 6-1-77 इको यणचि।
4. Which सूत्रम् is used for the उकारादेश: in the word पश्यन्तु used in the commentary?
Answer: 3-4-86 एरुः is used for the उकारादेश: in the word पश्यन्तु used in the commentary. पश्यन्तु is derived from the धातुः √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुष:, बहुवचनम्।
दृश् + लोँट् । By 3-3-162 लोट् च |
= दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दृश् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= दृश् + झ् उ । By 3-4-86 एरुः – इकारः of a लोँट् affix is substituted by उकारः।
= दृश् + शप् + झ् उ । By 3-1-68 कर्तरि शप्।
= दृश् + अ + झ् उ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= पश्य + अ + झ् उ । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, when followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.
= पश्य + अ + अन्त् उ । By 7-1-3 झोऽन्तः ।
= पश्यन्तु । By 6-1-97 अतो गुणे।
5. Which word used in the commentary is an alternate form for ब्रवीति?
Answer: The word आह derived from the धातुः (√ब्रू, अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) used in the commentary is an alternate form for ब्रवीति ।
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष:, एकवचनम्।
ब्रू + लँट् । By 3-2-123 वर्तमाने लट्।
= ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= ब्रू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= आह् + णल् । By 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः।
= आह् + शप् + णल् । By 3-1-68 कर्तरि शप्।
= आह् + णल् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
= आह् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= आह ।
6. How would you say this in Sanskrit?
“When Ravana fell on the ground, the entire earth, along with the mountains and the oceans, shook.” Use (a लिँट् form of) √क्षुभ् (क्र्यादि-गणः, क्षुभँ सञ्चलने ९. ५५) for “to shake” and (a लिँट् form of) √पत् (पतॢँ गतौ १. ९७९) for “to fall.” Use the adjective प्रातिपदिकम् “सकल” (feminine “सकला”) for “entire” and use the अव्यये यदा/तदा for “when” and “then.”
Answer: यदा रावणः भूमौ पपात तदा पर्वतैः समुद्रैः/सागरैः च सह सकला पृथिवी चुक्षोभ = यदा रावणो भूमौ पपात तदा पर्वतैः समुद्रैश्च/सागरैश्च सह सकला पृथिवी चुक्षोभ ।
Easy questions:
1. Where has 7-3-109 जसि च been used in the verse?
Answer: 7-3-109 जसि च has been used in the form अम्भोधयः (पुंलिङ्ग-प्रातिपदिकम् “अम्भोधि”, प्रथमा-बहुवचनम्)।
अम्भोधि + जस् । By 4-1-2 स्वौजसमौट्छष्टा…।
= अम्भोधे + जस् । By 7-3-109 जसि च, when the affix “जस्” follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
= अम्भोधे + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting the इत्-सञ्ज्ञा।
= अम्भोधय् + अस् । By 6-1-78 एचोऽयवायावः।
= अम्भोधयः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Which सूत्रम् is used for the एकारादेश: (letter “ए” as a substitute) in the word येषाम् (used in the commentary)?
Answer: 7-3-103 बहुवचने झल्येत् is used for the एकारादेश: (letter “ए” as a substitute) in the word येषाम् (सर्वनाम-प्रातिपदिकम् “यद्”, पुंलिङ्गे षष्ठी-बहुवचनम्)।
यद् + आम् । By 4-1-2 स्वौजसमौट्छष्टा…।
= य अ + आम् । By 7-2-102 त्यदादीनामः, “यद्” gets अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य, only the ending दकार: gets replaced.
= य + आम् । By 6-1-97 अतो गुणे।
= य + सुँट् आम् । By 7-1-52 आमि सर्वनाम्नः सुट्, 1-1-46 आद्यन्तौ टकितौ।
= य + स् आम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= ये साम् । By 7-3-103 बहुवचने झल्येत्, the ending “अ” of a अङ्गम् changes to “ए” when followed by a plural सुँप् affix beginning with a झल् letter.
= येषाम् । By 8-3-59 आदेशप्रत्यययोः, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)