Today we will look at the form बिभेति 3As-लँट् from श्रीमद्वाल्मीकि-रामायणम् 3-33-17.
नानुतिष्ठति कार्याणि भयेषु न बिभेति च |
क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भवेदिह || ३-३३-१७ ||
Gita Press translation “A king who does not perform his duties and is not apprehensive (even) in the face of dangers is soon deprived of his kingdom and reduced to a wretched condition, and becomes of no more worth than straw in this world.”
बिभेति is derived from the धातुः √भी (जुहोत्यादि-गणः, ञिभी भये, धातु-पाठः #३. २)
The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
The “ञि” at the beginning of “ञिभी” gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and takes लोप: by 1-3-9 तस्य लोपः।
The √भी-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √भी-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भी-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।
(1) भी + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
(2) भी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) भी + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
(4) भी + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
(5) भी + शप् + ति । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
(6) भी + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः, the “शप्”-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).
(7) भी + भी + ति । By 6-1-10 श्लौ, a verbal root when followed by “श्लु” gets reduplicated.
(8) भि + भी + ति । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.
(9) भिभेति । By 7-3-84 सार्वधातुकाऽर्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
(10) बिभेति । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
Questions:
1. Where has 6-1-10 श्लौ been used in Chapter 4 of the गीता?
2. Among the nine items in the conjugation table of √भी (ञिभी भये, धातु-पाठः #३. २) with लँट्, in which form does 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य apply?
3. Which धातु: and लकार: has been in the form (अनु)तिष्ठति?
4. Can you spot a “इय्”-आदेश: in the verse?
5. How would you say this in Sanskrit?
“I am not afraid even of death.” Use the neuter प्रातिपदिकम् “मरण” for “death”. Use पञ्चमी विभक्ति: with “मरण”।
6. How would you say this in Sanskrit?
“I am only afraid of infamy.” Use the feminine (compound) प्रातिपदिकम् “अकीर्ति” for “infamy”. (ref. गीता 2-34.) Use पञ्चमी विभक्ति: with “अकीर्ति”।
Easy questions:
1. Where has 8-4-40 स्तोः श्चुना श्चुः been used in the verse?
2. Can you spot a “शि”-आदेश: in the verse?
Questions:
1. Where has 6-1-10 श्लौ been used in Chapter 4 of the गीता?
Answer: The सूत्रम् 6-1-10 श्लौ has been used in the form जुह्वति derived from the धातुः √हु (हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, जुहोत्यादि-गणः, धातु-पाठः #३. १) in the following verses of Chapter 4 of the गीता ।
दैवमेवापरे यज्ञं योगिनः पर्युपासते |
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ||४-२५||
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति |
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति || 4-26||
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे |
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते || 4-27||
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे |
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः || 4-29||
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति |
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः || 4-30||
The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
हु + लँट् । By 3-2-123 वर्तमाने लट्।
= हु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हु + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्
= हु + शप् + झि । By 3-1-68 कर्तरि शप्।
= हु + झि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
= हु + हु + झि । By 6-1-10 श्लौ।
= झु + हु + झि । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
= झु हु + अत् इ । By 7-1-4 अदभ्यस्तात्।
= झुह् व् + अत् इ । By 6-4-87 हुश्नुवोः सार्वधातुके।
= जुह्वति । By 8-4-54 अभ्यासे चर्च्, 1-1-50 स्थानेऽन्तरतमः।
2. Among the nine items in the conjugation table of √भी (ञिभी भये, धातु-पाठः #३. २) with लँट्, in which form does 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य apply?
Answer: The सूत्रम् 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य applies to the form “बिभ्यति” (लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।
भी + लँट् । By 3-2-123 वर्तमाने लट्।
= भी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भी + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्
= भी + शप् + झि । By 3-1-68 कर्तरि शप्।
= भी + झि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
= भी + भी + झि । By 6-1-10 श्लौ।
= भि + भी + झि । By 7-4-59 ह्रस्वः।
= भिभी + अत् इ । By 7-1-4 अदभ्यस्तात्। Note: ‘भिभी’ has the अभ्यस्त-सञ्ज्ञा by 6-1-5 उभे अभ्यस्तम्। This allows 7-1-4 to apply.
= भिभ्य् + अति। By 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by a यण् letter in the following situation – If the अङ्गम् is अनेकाच् (has more than one vowel) and ends in a धातु: which ends in the इवर्ण: (इकारः or ईकारः) and there is no conjunct consonant belonging to the धातु: prior to the इवर्ण:।
= बिभ्यति । By 8-4-54 अभ्यासे चर्च्, 1-1-50 स्थानेऽन्तरतमः।
3. Which धातु: and लकार: has been in the form (अनु)तिष्ठति?
Answer: (अनु)तिष्ठति is derived from the धातुः √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७)
The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And by the परिभाषा “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, it’s effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, will now be reverted to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्। “अनु” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे।
स्था + लँट् । By 3-2-123 वर्तमाने लट्।
= स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= स्था + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्
= स्था + शप् + तिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
= स्था + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= तिष्ठ + अ + ति । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः ।
= तिष्ठति । By 6-1-97 अतो गुणे।
4. Can you spot a “इय्”-आदेश: in the verse?
Answer: “इय्”-आदेश: by the सूत्रम् 7-2-80 अतो येयः is used in the form भवेत् derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
भू + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
= भू+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
= भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।
= भू + त् । By 3-4-100 इतश्च।
= भू + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ ।
= भू + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= भू + शप् + यास् त् । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
= भो + शप् + यास् त् । By 7-3-84 सार्वधातुकार्धधातुकयोः ।
= भो + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
= भव + यास् त् । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।
= भव + इय् त् । By 7-2-80 अतो येयः, when “यास्” of a सार्वधातुक-प्रत्ययः follows an अङ्गम् ending in a अकारः, then it is substituted by “इय्” ।
= भव इ त् । By 6-1-66 लोपो व्योर्वलि ।
= भवेत् । By 6-1-87 आद्गुणः ।
5. How would you say this in Sanskrit?
“I am not afraid even of death.” Use the neuter प्रातिपदिकम् “मरण” for “death”. Use पञ्चमी विभक्ति: with “मरण”।
Answer: अहम् मरणात् अपि न बिभेमि । = अहं मरणादपि न बिभेमि ।
Note: अहम् can be left out of the sentence because the subject of बिभेमि can only be अहम्।
मरणादपि न बिभेमि ।
6. How would you say this in Sanskrit?
“I am only afraid of infamy.” Use the feminine (compound) प्रातिपदिकम् “अकीर्ति” for “infamy”. (ref. गीता 2-34.) Use पञ्चमी विभक्ति: with “अकीर्ति”।
Answer: अकीर्तेः एव बिभेमि । = अकीर्तेरेव बिभेमि ।
Easy questions:
1. Where has 8-4-40 स्तोः श्चुना श्चुः been used in the verse?
Answer: The सूत्रम् 8-4-40 स्तोः श्चुना श्चुः has been used in the सन्धि-कार्यम् between राज्यात् and च्युत: giving the form राज्याच्च्युत:।
राज्यात् + च्युत:
= राज्याद् च्युत: ।by 8-2-39 झलां जशोऽन्ते ।
= राज्याज् च्युत: । by 8-4-40 स्तोः श्चुना श्चुः – When the letter स् or a letter of the त-वर्ग: (त्, थ्, द्, ध्, न्) comes in contact with either the letter श् or a letter of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्), then it is replaced respectively by श्, च-वर्ग: (च्, छ्, ज्, झ्, ञ्) ।
= राज्याच्च्युत: । by 8-4-55 खरि च ।
2. Can you spot a “शि”-आदेश: in the verse?
Answer: “शि”-आदेश: by the सूत्रम् 7-1-20 जश्शसोः शिः is used to form कार्याणि । The विवक्षा here is नपुंसकलिङ्गे प्रथमा-बहुवचनम् ।
कार्य + जस् ।
= कार्य + शि । By 7-1-20 जश्शसोः शिः – the affixes जस् and शस् get शि as the replacement when they follow a neuter अङ्गम्। By 1-1-42 शि सर्वनामस्थानम्, the affix शि has the designation सर्वनामस्थानम्।
= कार्य नुँम् + शि । By 7-1-72 नपुंसकस्य झलचः, 1-1-47 मिदचोऽन्त्यात्परः।
= कार्य न् + इ । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= कार्यानि । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ।
= कार्याणि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।