आहर्तास्मि 1As-लुँट्
Today we will look at the form आहर्तास्मि 1As-लुँट् from श्रीमद्भागवतम् 1.17.14.
जनेऽनागस्यघं युञ्जन्सर्वतोऽस्य च मद्भयम् ।
साधूनां भद्रमेव स्यादसाधुदमने कृते ।। १-१७-१४ ।।
अनागस्स्विह भूतेषु य आगस्कृन्निरङ्कुशः ।
आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ।। १-१७-१५ ।।
श्रीधर-स्वामि-टीका –
ननु तदाख्याने कृते कथं भद्रं स्यादित्यत आह । यस्मादनागसि जने योऽघं दुःखं युञ्जन् कुर्वन् भवत्यस्यैवंभूतस्य मत्तः सकाशात् सर्वत्रापि भयं भवति, ततः साधूनां भद्रं भवेदेवेति ।। १४ ।। एतस्य दण्डेऽहमसमर्थ इति माशङ्कीरित्याह – अनगःस्विति । आगस्कृदपराधकर्ता । तस्यामर्त्यस्य देवस्यापि भुजमाहर्तास्म्याहरिष्यामि । साङगदमित्यनेन मूलत उत्पाट्याहरिष्यामीति दर्शितम् ।। १५ ।।
Gita Press translation – “He who does evil to an innocent creature must have fear from me on all sides. Pious souls are surely benefited when vile creatures are subdued. I shall certainly cut off the arm, along with the armlet adorning it, of the individual, be he a veritable god, who in his unbridled madness inflicts injury on harmless creatures. “
हर्तास्मि is derived from the धातुः √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६)
In the धातु-पाठः, “हृञ्” has one इत् letter which is the ending ञकार:। It gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √हृ is उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।
The विवक्षा is लुँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
(1) हृ + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.
(2) हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) हृ + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः।
(4) हृ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) हृ + तासिँ + मि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.
Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप् etc.
(6) हृ + तास् + मि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
(7) हर् + तास् + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
(8) हर्तास्मि ।
“आङ्” (ending ङकार: is a इत्) is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
आङ् + हर्तास्मि = आहर्तास्मि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
Questions:
1. लुँट् is used only in three chapters of the गीता। Which are they?
2. Which विभक्ति:/वचनम् has been used in the term स्यतासी in the सूत्रम् 3-1-33 स्यतासी लृलुटोः?
i. प्रथमा-द्विवचनम्
ii. प्रथमा-एकवचनम्
iii. द्वितीया-द्विवचनम्
iv. None of the above.
3. Where has 6-4-111 श्नसोरल्लोपः been used in the verses?
4. Can you spot a “इय्”-आदेश: in the commentary?
5. Which सूत्रम् is used for the “आह्”-आदेश: in the form आह used in the commentary?
6. How would you say this in Sanskrit?
“Knowledge will always bring happiness.” Use (a लुँट् form of) √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) will the उपसर्ग: “आङ्” for “to bring.”
Easy questions:
1. Where has 7-2-113 हलि लोपः been used in the verses?
2. Can you spot a “अनँङ्”-आदेश: in the commentary?
Recent Comments