Today we will look at the form तुतोष 3As-लिँट् from श्रीमद्भागवतम् 7.9.9
मन्ये धनाभिजनरूपतपःश्रुतौजस्तेजःप्रभावबलपौरुषबुद्धियोगाः ।
नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तुतोष भगवान्गजयूथपाय ।। ७-९-९ ।।
श्रीधर-स्वामि-टीका –
एवं हरितोषणे स्वस्यायोग्यतामाशङ्क्य योग्यतां सम्भावयति – मन्य इति द्वाभ्याम् । अभिजनः सत्कुले जन्म । रूपं सौन्दर्यम् । श्रुतं पाण्डित्यम् । ओज इन्द्रियनैपुणम् । तेजः कान्तिः । प्रभावः प्रतापः । पौरुषमुद्यमः । बुद्धिः प्रज्ञा । योगोऽष्टाङ्गः । एते धनादयो द्वादशापि गुणाः परस्य पुंस आराधनाय न भवन्ति । हि यतः केवलया भक्त्यैव गजेन्द्राय तुष्टोऽभवत् ।।
Gita Press translation “Wealth, pedigree, comeliness of form, asceticism, learning, keenness of the senses, splendor, glory, bodily strength, self-endeavor, intelligence and Yoga (concentration of mind or breath-control), I believe, are not sufficient for the propitiation of the Supreme Person. For (on the other hand) the Lord was pleased with the leader of a herd of (wild) elephants through (mere) Devotion.”
तुतोष is derived from the धातुः √तुष् (दिवादि-गणः, तुषँ प्रीतौ, धातु-पाठः # ४. ८१)
In the धातु-पाठः, the धातुः √तुष् has one इत् letter – the अकार: following the षकार:। This इत् letter has a उदात्त-स्वर:। Thus the धातुः √तुष् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the तुष्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So तुष्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।
(1) तुष् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.
(2) तुष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) तुष् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा।
(4) तुष् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
(5) तुष् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
(6) तुष् तुष् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
(7) तु तुष् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
(8) तुतोष । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः
or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
Questions:
1. Where has √तुष् (दिवादि-गणः, तुषँ प्रीतौ, धातु-पाठः # ४. ८१) been used in a तिङन्तं पदम् in the first ten verses of Chapter Ten of the गीता?
2. Can you spot a “श्यन्”-प्रत्यय: in the verse?
3. Can you spot a “शप्”-प्रत्यय: in the verse?
4. Where has 3-4-100 इतश्च been used in the commentary?
5. How would you say this in Sanskrit?
“Sri Krishna was pleased by the humility of Arjuna.” Use the masculine प्रातिपदिकम् “विनय” for “humility.”
6. How would you say this in Sanskrit?
“Lord Siva burned Cupid, with (his) third eye.” Use the masculine प्रातिपदिकम् “मदन” for “Cupid”, use the adjective प्रातिपदिकम् “तृतीय” for “third” and use (a लिँट् form) of √दह् (दहँ भस्मीकरणे १. ११४६) for “to burn.”
Easy questions:
1. Can you spot a “शी”-आदेश: in the commentary?
2. Where has 7-3-102 सुपि च been used in the verse?
Questions:
1. Where has √तुष् (दिवादि-गणः, तुषँ प्रीतौ, धातु-पाठः # ४. ८१)has been used in a तिङन्तं पदम् in the first ten verses of Chapter Ten of the गीता?
Answer: √तुष् (दिवादि-गणः, तुषँ प्रीतौ, धातु-पाठः # ४. ८१) has been used in a तिङन्तं पदम् in the first ten verses of Chapter Ten of the गीता in the form तुष्यन्ति |
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् |
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च || 10-9||
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
तुष् + लँट् । 3-2-123 वर्तमाने लट् ।
= तुष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= तुष् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= तुष् + श्यन् + झि । By 3-1-69 दिवादिभ्यः श्यन्। (Note: Since the सार्वधातुक-प्रत्यय: “श्यन्” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 ग्क्ङिति च to prevent 7-3-86 पुगन्तलघूपधस्य च from applying.)
= तुष् + य + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= तुष् + य + अन्ति । By 7-1-3 झोऽन्तः।
= तुष्यन्ति । By अतो गुणे ।
2. Can you spot a “श्यन्”-प्रत्यय: in the verse?
Answer: A“श्यन्”-प्रत्यय: in the verse is seen in the form मन्ये derived from the धातुः √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः #४. ७३ )
The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
मन् + लँट् । By 3-2-123 वर्तमाने लट्।
= मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मन् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। “इट्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
= मन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मन् + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
= मन् + श्यन् + ए । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप् ।
= मन् + य + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मन्ये । By 6-1-97 अतो गुणे।
3. Can you spot a “शप्”-प्रत्यय: in the verse?
Answer: A “शप्”-प्रत्यय: is seen in the verse in the form भवन्ति derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१.१)
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
भू + लँट् । By 3-2-123 वर्तमाने लट्।
= भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भू + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
= भू + शप् + झि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
= भो + शप् + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः ।
= भो + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
= भव + झि । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।
= भव + अन्त् इ । By 7-1-3 झोऽन्तः।
= भवन्ति । By 6-1-97 अतो गुणे।
4. Where has 3-4-100 इतश्च been used in the commentary?
Answer: 3-4-100 इतश्च has been used in the commentary in the form अभवत् derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)।
The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
भू + लँङ् । By 3-2-111 अनद्यतने लङ्।
= भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
= भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भू + त् । By 3-4-100 इतश्च – The ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.
= भू + शप् + त् । 3-1-68 कर्तरि शप्। शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-13 तिङ्शित्सार्वधातुकम्।
= भो + शप् + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= भो + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
= भवत् । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।
= अट् भवत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
= अभवत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
5. How would you say this in Sanskrit?
“Sri Krishna was pleased by the humility of Arjuna.” Use the masculine प्रातिपदिकम् “विनय” for “humility.”
Answer: अर्जुनस्य विनयेन श्रीकृष्ण: तुतोष = अर्जुनस्य विनयेन श्रीकृष्णस्तुतोष ।
6. How would you say this in Sanskrit?
“Lord Siva burned Cupid, with (his) third eye.” Use the masculine प्रातिपदिकम् “मदन” for “Cupid”, use the adjective प्रातिपदिकम् “तृतीय” for “third” and use (a लिँट् form) of √दह् (दहँ भस्मीकरणे १. ११४६) for “to burn.”
Answer: भगवान् शिवः स्वस्य तृतीयेन नेत्रेण मदनम् ददाह = भगवाञ्छिवः/भगवाञ्शिवः स्वस्य तृतीयेन नेत्रेण मदनं ददाह।
Easy questions:
1. Can you spot a “शी”-आदेश: in the commentary?
Answer: A “शी”-आदेश: in the commentary is seen in the form एते (सर्वनाम-प्रातिपदिकम् “एतद्”, पुंलिङ्गे प्रथमा-बहुवचनम्)।
एतद् + जस् । By 4-1-2 स्वौजसमौट्…।
= एत अ + जस् । By 7-2-102 त्यदादीनामः, “एतद्” gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य, only the ending दकार: gets replaced.
= एत + जस् । By 6-1-97 अतो गुणे।
= एत + शी । “शी”-आदेश: by 7-1-17 जसः शी – Following a pronoun ending in short “अ” the nominative plural ending “जस्” is replaced by “शी”।
= एत + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= एते । By 6-1-87 आद्गुणः। (Note: 6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः।)
2. Where has 7-3-102 सुपि च been used in the verse?
Answer: 7-3-102 सुपि च has been used in the verse in the forms आराधनाय (प्रातिपदिकम् “आराधन”) and गजयूथपाय (प्रातिपदिकम् “गजयूथप”)। विवक्षा is चतुर्थी-एकवचनम्।
आराधन + ङे । By 4-1-2 स्वौजसमौट्…।
= आराधन + य । By 7-1-13 ङेर्यः, following a प्रातिपदिकम् ending in an अकार:, the affix “ङे” (चतुर्थी-एकवचनम्) is replaced by “य”।
= आराधनाय । By 7-3-102 सुपि च, the ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।
Similar steps for गजयूथपाय।