Today we will look at the form स्यात् 3As-विधिलिँङ् from श्रीमद्वाल्मीकि-रामायणम् 1-29-29.
अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगव |
सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव || १-२९-२९ ||
Gita Press translation “God bless you! Go through the ceremony of consecration (for the sacrificial performance) this very day, O jewel among sages! Let this Siddhāśrama prove to be an abode of success (and thereby justify its name) and let your word (that the ogres deserved to be killed by me) come true.”
स्यात् is derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)
The विवक्षा is विधिलिँङ, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
The ending अकारः (which is an इत्) of “असँ” has a उदात्त-स्वरः। Thus the √अस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।
(1) अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.
(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) अस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
(4) अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।
(5) अस् + त् । 3-4-100 इतश्च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.
(6) अस् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।
(7) अस् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
(8) अस् + शप् + यास् त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
(9) अस् + यास् त् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।
(10) अस् + या त् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.
(11) स्यात् । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: The प्रत्यय: “यात्” is a ङित् due to यासुट् being a ङित् (step 6.) This allows 6-4-111 to apply.
Questions:
1. Where has √अस् (असँ भुवि, धातु-पाठः #२. ६०) been used with विधिलिँङ, कर्तरि प्रयोग: in the last ten verses of the गीता?
2. Which अव्ययम् used in the verse translates to “this day”? Which one translates to “very”?
3. Where has 3-4-86 एरुः been used in the verse?
4. Commenting on the सूत्रम् 7-2-79 लिङः सलोपोऽनन्त्यस्य (used in the step 10 in the present example), the काशिका gives the example कुर्वीत। Please derive this form and show where 7-2-79 has been used.
5. How would you say this in Sanskrit?
“I’m happy to see (having seen) you after a long time.” Use the adjective “हृषित” for “happy”, the अव्ययम् “दृष्ट्वा” for “having seen” and the अव्ययम् “चिरात्” for “after a long time.”
6. How would you say this in Sanskrit?
“How would there be an end to (of) this conflict?” Use the अव्ययम् “कथम्” for “how” and the masculine noun “सङ्घर्ष” for “conflict.”
Easy questions:
1. Where has 7-1-23 स्वमोर्नपुंसकात् been used in the verse?
2. Can you spot a उकारादेश: (letter “उ” used as a substitute) in the verse?
Questions:
1. Where has √अस् (असँ भुवि, धातु-पाठः #२. ६०) been used with विधिलिँङ, कर्तरि प्रयोग: in the last ten verses of the गीता?
Answer: √अस् (असँ भुवि, धातु-पाठः #२. ६०) been used with विधिलिँङ, कर्तरि प्रयोग: in “स्याम्”, उत्तम-पुरुषः एकवचनम्।
अध्येष्यते च य इमं धर्म्यं संवादमावयोः |
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः || 18-70||
अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
अस् + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
अस् + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः। अम् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ।
अस् + यासुट् अम् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च । 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।
अस् + यास् अम् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
अस् + शप् + यास् अम् । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
अस् + यास् अम् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
अस् + या अम् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य ।
स्याम् । By 6-4-111 श्नसोरल्लोपः । (Note: Since the यासुट्-आगम: is ङित् as per 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the प्रत्यय: “या अम्” is ङित्। This allows 6-4-111 to apply)
2. Which अव्ययम् used in the verse translates to “this day”? Which one translates to “very”?
Answer: अव्ययम् “अद्य” translates to “this day”. It is given as a ready-made form by the सूत्रम् 5-3-22 सद्यः परुत् परार्यौषमः परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः। 5-3-22 occurs in the section तसिलादयः प्राक् पाशपः, which extends from 5-3-7 पञ्चम्यास्तसिल् up to (but not including) 5-3-47 याप्ये पाशप्। Therefore “अद्य” gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः ।
अव्ययम् “एव” translates to “very” and comes under चादि-गणः (1-4-57 चादयोऽसत्त्वे), and thus gets the निपात-सञ्ज्ञा by 1-4-56 प्राग्रीश्वरान् निपाताः and a निपातः gets अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातम् अव्ययम् ।
3. Where has 3-4-86 एरुः been used in the verse?
Answer: सूत्रम् 3-4-86 एरुः has been used in the formation of “अस्तु” (लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्) from the धातुः √अस् (असँ भुवि, धातु-पाठः #२. ६०).
अस् + लोँट् । By 3-3-162 लोट् च।
अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
अस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।
अस् + तु । By 3-4-86 एरुः, इकारः of a लोँट् affix is substituted by उकारः।
अस् + शप् + तु । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
अस् + तु । By 2-4-72 अदिप्रभृतिभ्यः शपः।
अस्तु।
4. Commenting on the सूत्रम् 7-2-79 लिङः सलोपोऽनन्त्यस्य (used in the step 10 in the present example), the काशिका gives the example कुर्वीत। Please derive this form and show where 7-2-79 has been used.
Answer: कुर्वीत (विधिलिँङ, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्) is formed from the धातुः √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०)। सूत्रम् 7-2-79 लिङः सलोपोऽनन्त्यस्य has been used in step 6 in the following derivation.
Since डुकृञ् has ञकार: as an इत्, it is उभयपदी as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले। In the present example a आत्मनेपद-प्रत्यय: has been used.
1) कृ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.
(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) कृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
(4) कृ + सीयुट् त । By 3-4-102 लिङस्सीयुट् – the affixes of लिँङ् get सीयुट् as an augment.
(5) कृ + सीय् त। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
(6) कृ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.
(7) कृ + ई त । By 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।
(8) कृ + उ + ई त । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
(9) कर् + उ + ईत । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.
Since the “ईत”-प्रत्ययः has the सार्वधातुक-सञ्ज्ञा and is अपित् (does not have पकार: as a इत्) it becomes ङिद्वत् (as if it has ङकार: as a इत्) by 1-2-4 सार्वधातुकमपित्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the उकार: which would have taken place by 7-3-84 सार्वधातुकार्धधातुकयोः।
(10) कुरु + ई त । By 6-4-110 अत उत् सार्वधातुके, when √कृ (डुकृञ् करणे ८. १०) ends in the “उ”-प्रत्यय: and is followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, then there is a substitution of उकारः in place of the अकारः (which is a result of गुणादेशः) of √कृ।
(11) कुर्वीत। By 6-1-77 इको यणचि । (Note: 8-2-79 न भकुर्छुराम् stops 8-2-77 हलि च।)
5. How would you say this in Sanskrit?
“I’m happy to see (having seen) you after a long time.” Use the adjective “हृषित” for “happy”, the अव्ययम् “दृष्ट्वा” for “having seen” and the अव्ययम् “चिरात्” for “after a long time.”
Answer: त्वाम् चिरात् दृष्टवा हृषितः अस्मि = त्वां चिराद् दृष्टवा हृषितोऽस्मि।
6. How would you say this in Sanskrit?
“How would there be an end to (of) this conflict?” Use the अव्ययम् “कथम्” for “how” and the masculine noun “सङ्घर्ष” for “conflict.”
Answer: अस्य सङ्घर्षस्य अन्तः कथम् स्यात् । = अस्य सङ्घर्षस्यान्तः कथं स्यात् ।
Easy questions:
1. Where has 7-1-23 स्वमोर्नपुंसकात् been used in the verse?
Answer: सूत्रम् 7-1-23 स्वमोर्नपुंसकात् has been used in the formation of “वचः” (प्रथमा-एकवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “वचस्”।
वचस् + सुँ ।
वचस् । By 7-1-23 स्वमोर्नपुंसकात्, the affixes सुँ and अम् that follow a neuter अङ्गम् take the लुक् elision.
वचः । By 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Can you spot a उकारादेश: (letter “उ” used as a substitute) in the verse?
Answer: A उकारादेश: (letter “उ” used as a substitute) is used in two places:
(i) In the सन्धि-कार्यम् between सिद्धाश्रमः, अयम् giving सिद्धाश्रमोऽयम्।
सिद्धाश्रमस् + अयम् ।
सिद्धाश्रमर् + अयम् । 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
सिद्धाश्रम उ + अयम् । 6-1-113 अतो रोरप्लुतादप्लुते – when the letter “रुँ” is sandwiched between two short “अ” letters, then it is substituted by the letter “उ”।
सिद्धाश्रमो + अयम् । 6-1-87 आद्गुणः ।
सिद्धाश्रमोऽयम् । 6-1-109 एङः पदान्तादति ।
(ii) There’s a उकारादेश: in form अस्तु – by 3-4-86 एरुः – इकारः of a लोँट् affix is substituted by उकारः |
√अस् (असँ भुवि, धातु-पाठः #२. ६०) लोँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः एकवचनम्।
अस् + लोँट् । 3-3-162 लोट् च – The affix लोँट् follows a धातुः when used in the sense of command/request.
अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
अस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
अस् + तु । 3-4-86 एरुः – इकारः of a लोँट् affix is substituted by उकारः ।
अस् + शप् + तु । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
अस्तु । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।