Today we will look at the form लेभे 3As-लिँट् from श्रीमद्भागवतम् 3.2.23
अहो बकी यं स्तनकालकूटं जिघांसयापाययदप्यसाध्वी ।
लेभे गतिं धात्र्युचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम ।। ३-२-२३ ।।
श्रीधर-स्वामि-टीका –
एवमनुवृत्तिः कृपयैवेति सूचयन्नपकारिष्वपि तस्य कृपालुतां दर्शयन्नाह । अहो आश्चर्यं कृपालुतायाः । हन्तुमिच्छ्यापि स्तनयोः संभृतं कालकूटं विषं यमपाययत् । बकी पूतना असाध्वी दुष्टापि धात्र्या यशोदाया उचितां गतिं लेभे । भक्तवेषमात्रेण यः सद्गतिं दत्तवानित्यर्थः । ततोऽन्यं कं वा भजेम ।।
Gita Press translation “Oh, even that impious woman, Pūtanā (the sister of demon Baka) – who suckled Him (as a Babe) at her breast, which was daubed with a most deadly poison, with intent to kill Him – got from Him (in return) the destiny appropriate to a foster-mother! Is there anyone so merciful, whom we should resort to for protection, other than Him?”
लेभे is derived from the धातुः √लभ् (भ्वादि-गणः, डुलभँष् प्राप्तौ, धातु-पाठः #१. ११३०)
The “डु” at the beginning of this धातुः gets the इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः, the अकार: following the भकार: gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and the षकारः at the end gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। All three take लोप: by 1-3-9 तस्य लोपः।
The इत् vowel (अकार:) of “डुलभँष्” has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √लभ् takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √लभ् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is “त”।
(1) लभ् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.
(2) लभ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) लभ् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “त” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप् (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.
(4) लभ् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively.
As per 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल् शित् सर्वस्य, “एश्” comes as a substitute for “त”।
(5) लभ् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(6) लभ् लभ् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
(7) ल लभ् + ए । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
(8) लेभे । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
(i) the अकार: is preceded and followed by a single (non-conjunct) consonant
(ii) the अङ्गम् is followed by a लिँट् affix which is कित्
(iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.
Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence “एश्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.
Questions:
1. Where has √लभ् (भ्वादि-गणः, डुलभँष् प्राप्तौ, धातु-पाठः #१. ११३०) been used in a तिङन्तं पदम् in Chapter Eleven of the गीता?
2. Where has 7-3-37 शाच्छासाह्वाव्यावेपां युक् been used in the verse?
3. Where has विधि-लिँङ् been used in the verse?
4. Can you spot a “यासुट्”-आगम: in the commentary?
5. How would you say this in Sanskrit?
“On hearing Sri Krishna’s advice, Arjuna was at ease.” Paraphrase “was as ease” to “obtained ease.” Use the अव्ययम् “श्रुत्वा” for “on hearing (having heard)” and use the neuter प्रातिपदिकम् “स्वास्थ्य” for “ease.”
6. How would you say this in Sanskrit?
“On seeing Sita again, Sri Rama obtained immense joy.” Use the adjective प्रातिपदिकम् “अपार” for “immense (unbounded)” and the अव्ययम् “दृष्ट्वा” for “on seeing (having seen.)”
Easy questions:
1. Can you spot a “आट्”-आगम: in the commentary?
2. In how many places has 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the commentary?
Questions:
1. Where has √लभ् (भ्वादि-गणः, डुलभँष् प्राप्तौ, धातु-पाठः #१. ११३०) been used in a तिङन्तं पदम् in Chapter Eleven of the गीता?
Answer: √लभ् (भ्वादि-गणः, डुलभँष् प्राप्तौ, धातु-पाठः #१. ११३०) has been used in a तिङन्तं पदम् in Chapter Eleven of the गीता in two forms लभे and लभस्व ।
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि |
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास || 11-25||
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् |
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् || 11-33||
लभे – The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
लभ् + लँट् । By 3-2-123 वर्तमाने लट्।
= लभ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= लभ् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= लभ् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= लभ् + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
= लभ् + शप् + ए । By 3-1-68 कर्तरि शप्।
= लभ् + अ + ए । By अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= लभे । By 6-1-97 अतो गुणे ।
लभस्व – The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
लभ् + लोँट् । By 3-3-162 लोट् च।
= लभ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= लभ् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= लभ् + से । By 3-4-80 थासस्से, 1-1-55 अनेकाल्शित्सर्वस्य।
= लभ् + स्व । By 3-4-91 सवाभ्यां वामौ।
= लभ् + शप् + स्व । By 3-1-68 कर्तरि शप्।
= लभ् + अ + स्व । By अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= लभस्व ।
2. Where has 7-3-37 शाच्छासाह्वाव्यावेपां युक् been used in the verse?
Answer: 7-3-37 शाच्छासाह्वाव्यावेपां युक् has been used in the verse in the from अपाययत् a causative form derived from the धातुः √पा (पा पाने १. १०७४)
The विवक्षा is लँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
पा + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= पा + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= पा युक् + इ । By 7-3-37 शाच्छासाह्वाव्यावेपां युक्, the verbal roots √शो (शो तनूकरणे ४. ४०), √छो (छो छेदने ४. ४१), √सो (षो अन्तकर्मणि ४. ४२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √व्ये (व्येञ् संवरणे १. ११६२), √वे (वेञ् तन्तुसन्ताने १. ११६१) and √पा (पा पाने १. १०७४) take the “युक्”-आगम: when the “णि”-प्रत्यय: follows. As per 1-1-46 आद्यन्तौ टकितौ, the “युक्”-आगमः attaches itself to the end of the अङगम् “पा”।
= पा य् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकारः in “युक्” is उच्चारणार्थः (pronunciation only).
= पायि ।
“पायि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
पायि + लँङ् । By 3-2-111 अनद्यतने लङ्।
= पायि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= पायि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
Note: The सूत्रम् 1-3-89 न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः stops 1-3-87 निगरणचलनार्थेभ्यः। (We have not studied 1-3-89 in the class.)
= पायि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= पायि + त् । By 3-4-100 इतश्च।
= पायि + शप् + त् । By 3-1-68 कर्तरि शप्।
= पाये + शप् + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= पाये + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
= पाययत् । By 6-1-78 एचोऽयवायावः।
= अट् पाययत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
= अपाययत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
3. Where has विधि-लिँङ् been used in the verse?
Answer: विधि-लिँङ् has been used in the verse in the form व्रजेम derived from the धातुः √व्रज् (व्रजँ गतौ १. २८६) The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
व्रज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= व्रज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= व्रज् + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= व्रज् + म । By 3-4-99 नित्यं डितः, 1-1-52 अलोऽन्त्यस्य।
= व्रज् + यासुट् म । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च। As per 1-1-46 आद्यन्तौ टकितौ, the यासुट्-आगमः attaches at the beginning of the प्रत्यय:।
= व्रज् + यास् म । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= व्रज् + शप् + यास् म । By 3-1-68 कर्तरि शप्।
= व्रज् + अ + यास् म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= व्रज इय् म । By 7-2-80 अतो येयः।
= व्रज इम । By 6-1-66 लोपो व्योर्वलि।
= व्रजेम । By 6-1-87 आद्गुणः।
4. Can you spot a “यासुट्”-आगम: in the commentary?
Answer: A “यासुट्”-आगम: in the commentary is seen in the from भजेम derived from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३ ). The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
भज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
= भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भज् + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= भज् + म । By 3-4-99 नित्यं डितः, 1-1-52 अलोऽन्त्यस्य।
= भज् + यासुट् म । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च – The परस्मैपद-प्रत्यया: of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। As per 1-1-46 आद्यन्तौ टकितौ, the यासुट्-आगमः attaches at the beginning of the प्रत्यय:।
= भज् + यास् म । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= भज् + शप् + यास् म । By 3-1-68 कर्तरि शप्।
= भज् + अ + यास् म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= भज इय् म । By 7-2-80 अतो येयः।
= भज इम । By 6-1-66 लोपो व्योर्वलि।
= भजेम । By 6-1-87 आद्गुणः।
5. How would you say this in Sanskrit?
“On hearing Sri Krishna’s advice, Arjuna was at ease.” Paraphrase “was as ease” to “obtained ease.” Use the अव्ययम् “श्रुत्वा” for “on hearing (having heard)” and use the neuter प्रातिपदिकम् “स्वास्थ्य” for “ease.”
Answer: श्रीकृष्णस्य उपदेशम् श्रुत्वा अर्जुनः स्वास्थ्यम् लेभे = श्रीकृष्णस्योपदेशं श्रुत्वार्जुनः स्वास्थ्यं लेभे।
6. How would you say this in Sanskrit?
“On seeing Sita again, Sri Rama obtained immense joy.” Use the adjective प्रातिपदिकम् “अपार” for “immense (unbounded)” and the अव्ययम् “दृष्ट्वा” for “on seeing (having seen.)”
Answer: सीताम् पुनः/भूय: दृष्ट्वा श्रीरामः अपारम् हर्षम्/सुखम् लेभे = सीतां पुनर्दृष्ट्वा/भूयो दृष्ट्वा श्रीरामोऽपारं हर्षं/सुखं लेभे।
Easy questions:
1. Can you spot a “आट्”-आगम: in the commentary?
Answer: A “आट्”-आगम: in the commentary is seen in the form धात्र्याः, प्रातिपदिकम् “धात्री”, षष्ठी-विभक्तिः, एकवचनम्।
धात्री + ङस् । By 4-1-2 स्वौजसमौट्छष्टा……। “धात्री” has नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
= धात्री + आट् ङस् । By 7-3-112 आण्नद्याः, the ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment. As per 1-1-46 आद्यन्तौ टकितौ, the augment आट् joins at the beginning of the प्रत्यय:।
= धात्री + आ अस् । टकार-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः and ङकार-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
= धात्री + आस् । By 6-1-90 आटश्च, वृद्धिः letter is a single replacement when आट् is followed by a vowel.
= धात्र्यास् । By 6-1-77 इको यणचि।
= धात्र्याः । Applying रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
2. In how many places has 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the commentary?
Answer: 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् has been used in the सन्धि-कार्यम् between सूचयन् + अपकारिषु = सूचयन्नपकारिषु and दर्शयन् + आह = दर्शयन्नाह।
सूचयन् + अपकारिषु । As per 1-4-14 सुप्तिङन्तं पदम्, “सूचयन्” has the पद-सञ्ज्ञा।
= सूचयन् + नुँट् अपकारिषु । By 8-3-32 ङमो ह्रस्वादचि ङमुण् नित्यम् – When there is a ङम् letter (in this case नकार:) at the end of a पदम् and this ङम् letter is preceded by a short vowel (in this case अकार:), then the following vowel (long or short – in this case the अकार: at the beginning of अपकारिषु) always gets the augment ङमुँट् (in this case नुँट्)। As per 1-1-46 आद्यन्तौ टकितौ, the augment नुँट् joins at the beginning of the अकार:।
= सूचयन् + न् अपकारिषु । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= सूचयन्नपकारिषु ।
Similarly, दर्शयन् + आह = दर्शयन्नाह।