Today we will look at the form खनित्रैः nIp from श्रीमद्भागवतम् 7.2.15.
केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान् । आजीव्यांश्चिच्छिदुर्वृक्षान्केचित्परशुपाणयः ।। ७-२-१५ ।।
प्रादहन्शरणान्यन्ये प्रजानां ज्वलितोल्मुकैः । एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहुः । दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ।। ७-२-१६ ।।
श्रीधर-स्वामि-टीका –
खनित्रैः खननसाधनैः । आजीव्यानुपजीव्यान् जम्ब्वाम्रकपित्थादीन् शरणानि गृहान् ।। १५ ।। विप्रकृते उपद्रुते । यज्ञभागानामभावाद्दिवं परित्यज्यालक्षिताः सन्तो भुवि चेरुः ।। १६ ।।
Gita Press translation – Some (of them) demolished with spades bridges, defensive walls and city-gates; while others, with axes in their hands, cut down (fruit-bearing) trees which served as a means of livelihood (to the people). And (still) others burnt down the dwellings of the people with flaming brands (15). When the people were thus oppressed again and again by the followers of Hiraṇyakaśipu (the lord of the Daityas), the gods deserted heaven and wandered over the earth unperceived (by the demons) (16).
खनत्यनेन = खनित्रम् ।
The प्रातिपदिकम् ‘खनित्र’ is derived from the verbal root √खन् (खनुँ अवदारणे १. १०२०). The ending उकारः of ‘खनुँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः।
(1) खन् + इत्र । By 3-2-184 अर्तिलूधूसूखनसहचर इत्रः – To denote the instrument of the action, the affix ‘इत्र’ may be used following any one of the verbal roots listed below –
(i) √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७)
(ii) √लू (लूञ् छेदने ९.१६)
(iii) √धू (धू विधूनने ६. १३३)
(iv) √सू (षू प्रेरणे ६. १४४)
(v) √खन् (खनुँ अवदारणे १. १०२०)
(vi) √सह् (षहँ मर्षणे १. ९८८)
(vii) √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०)
= खनित्र ।
The विवक्षा is नपुंसकलिङ्गे, तृतीया-बहुवचनम् ।
(2) खनित्र + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
(3) खनित्र + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in a अकार:, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term ‘भिस्’ is replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “ऐस्” from getting इत्-सञ्ज्ञा।
(4) खनित्रैस् । By 6-1-88 वृद्धिरेचि।
(5) खनित्रैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
Questions:
1. Commenting on the सूत्रम् 3-2-184 अर्तिलूधूसूखनसहचर इत्रः (used in step 1) the तत्त्वबोधिनी says – धू विधूनने इति कुटादिरेव गृह्यते, निरनुबन्धकत्वात्। अत एव ‘गाङ्कुटा-‘ इति ङित्त्वाद्गुणनिषेधे उवङ्।
2. Can you spot the affix ‘ड’ in the verses?
3. From which verbal root is सन्तः (प्रातिपदिकम् ‘सत्’, पुंलिङ्गे प्रथमा-बहुवचनम्) derived? (सन्तः has been used in the commentary.)
4. Which सूत्रम् is used for the णि-लोप: in the प्रातिपदिकम् ‘लक्षित’ (used as part of the compound अलक्षिता: in the verses)?
5. Which कृत् affix is used to form the प्रातिपदिकम् ‘गृह’ (used in the commentary)?
6. How would you say this in Sanskrit?
“By his impeccable (faultless) conduct Śrī Rāma pleased his father, his mothers as well as all the people of Ayodhyā.” Use a प्रातिपदिकम् from the verses for ‘people’. Use the adjective प्रातिपदिकम् ‘निरवद्य’ for ‘impeccable (faultless.)’ Use the सर्वनाम-प्रातिपदिकम् ‘स्व’ for ‘his (own.)’ Use a causative form of √तुष् (तुषँ प्रीतौ ४. ८१) for ‘to please.’ Use the सूत्रम् 3-2-184 अर्तिलूधूसूखनसहचर इत्रः to form a प्रातिपदिकम् for ‘conduct/character’ (चरत्यनेन)।
Easy questions:
1. Can you spot the augment ‘अट्’ in the verses?
2. From which प्रातिपदिकम् is भुवि (सप्तमी-एकवचनम्) formed?
1. Commenting on the सूत्रम् 3-2-184 अर्तिलूधूसूखनसहचर इत्रः (used in step 1) the तत्त्वबोधिनी says – धू विधूनने इति कुटादिरेव गृह्यते, निरनुबन्धकत्वात्। अत एव ‘गाङ्कुटा-‘ इति ङित्त्वाद्गुणनिषेधे उवङ्।
Answer: The verbal root ‘धू’ mentioned in 3-2-184 अर्तिलूधूसूखनसहचर इत्रः refers only to √धू (धू विधूनने ६. १३३) belonging to the कुटादि: section which is a subset of the तुदादिगणः। We know this from the fact that पाणिनि: has mentioned the verbal root ‘धू’ without any अनुबन्ध: (इत् letter) in the सूत्रम् 3-2-184. Out of the four verbal roots of the form ‘धू’ listed in the धातु-पाठ:, only √धू (धू विधूनने ६. १३३) is without any अनुबन्ध:। The other three धूञ् कम्पने १०.३७२, धूञ् कम्पने इत्येके ५.१० and धूञ् कम्पने ९. २० have the अनुबन्ध: ‘ञ्’ and hence they are not affected by 3-2-184.
As per 1-2-1 गाङ्कुटादिभ्योऽञ्णिन् ङित् – The affixes which are अञ्णित् (do not have the letter ‘ञ्’ or ‘ण्’ as a इत्) are considered ङित् (as if they have the letter ‘ङ्’ as a इत्) when they follow either the substitute ‘गाङ्’ (which comes in place of √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१)) or any verbal root in the section from √कुट् (कुटँ कौटिल्ये ६. ९३) through √कु (कुङ् शब्दे ६. १३६).
धू + इत्र । By 3-2-184 अर्तिलूधूसूखनसहचर इत्रः। Note: Since the affix ‘इत्र’ is neither a ‘ञित्’ nor a ‘णित्’, it behaves ङिद्वत् here by 1-2-1 गाङ्कुटादिभ्योऽञ्णिन् ङित्। This allows 1-1-5 क्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः।
= ध् उवँङ् + इत्र । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ।
= ध् उव् + इत्र । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= धुवित्र । ‘धुवित्र’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
2. Can you spot the affix ‘ड’ in the verses?
Answer: The affix ‘ड’ is used in the form प्रजानाम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘प्रजा’, षष्ठी-बहुवचनम्)।
Please see the following post for the derivation of the प्रातिपदिकम् ‘प्रजा’ – http://avg-sanskrit.org/2012/11/12/प्रजाः-fap/
3. From which verbal root is सन्तः (प्रातिपदिकम् ‘सत्’, पुंलिङ्गे प्रथमा-बहुवचनम्) derived? (सन्तः has been used in the commentary.)
Answer: The प्रातिपदिकम् ‘सत्’ is derived form the verbal root √अस् (असँ भुवि २. ६०).
अस् + लँट् । By 3-2-123 वर्तमाने लट्।
= अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= अस् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= अस् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
= अस् + शप् + अत् । By 3-1-68 कर्तरि शप्।
= अस् + अत् । By 2-4-72 अदिप्रभृतिभ्यः शपः। Note: The सार्वधातुक-प्रत्यय: ‘अत्’ is अपित् and hence behaves ङिद्वत् by 1-2-4 सार्वधातुकमपित्। This allows 6-4-111 श्नसोरल्लोपः to apply in the next step.
= स् + अत् । By 6-4-111 श्नसोरल्लोपः।
= सत् । ‘सत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
The विवक्षा is पुंलिङ्गे, प्रथमा-बहुवचनम्।
सत् + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। Note: The affix ‘जस्’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
= सत् + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘जस्’ from getting इत्-सञ्ज्ञा।
= स नुँम् त् + अस् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः। Note: The प्रातिपदिकम् ‘सत्’ ends in the affix ‘शतृँ’ which has the letter ‘ऋ’ as a इत्। This allows 7-1-70 to apply here.
= स न् त् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= संतस् । By 8-3-24 नश्चापदान्तस्य झलि।
= संतः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
= सन्तः । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।
4. Which सूत्रम् is used for the णि-लोप: in the प्रातिपदिकम् ‘लक्षित’ (used as part of the compound अलक्षिता: in the verses)?
Answer: The सूत्रम् 6-4-52 निष्ठायां सेटि is used for the णि-लोप: in the प्रातिपदिकम् ‘लक्षित’ ।
The प्रातिपदिकम् ‘लक्षित’ is derived from the verbal root √लक्ष् (लक्षँ आलोचने १०. २१९, लक्षँ दर्शनाङ्कनयोः १०. ६)
लक्ष् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
= लक्ष् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= लक्षि । ‘लक्षि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
लक्षि + क्त । By 3-2-102 निष्ठा।
= लक्षि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
= लक्षि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
= लक्षि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= लक्ष् + इत । By 6-4-52 निष्ठायां सेटि – The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।
‘लक्षित’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
5. Which कृत् affix is used to form the प्रातिपदिकम् ‘गृह’ (used in the commentary)?
Answer: The कृत् affix ‘क’ prescribed by 3-1-144 गेहे कः is used to form the प्रातिपदिकम् ‘गृह’ derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१).
Please see the following post for the derivation of the प्रातिपदिकम् ‘गृह’ – http://avg-sanskrit.org/2012/10/04/गृहेषु-nlp/
6. How would you say this in Sanskrit?
“By his impeccable (faultless) conduct Śrī Rāma pleased his father, his mothers as well as all the people of Ayodhyā.” Use a प्रातिपदिकम् from the verses for ‘people’. Use the adjective प्रातिपदिकम् ‘निरवद्य’ for ‘impeccable (faultless.)’ Use the सर्वनाम-प्रातिपदिकम् ‘स्व’ for ‘his (own.)’ Use a causative form of √तुष् (तुषँ प्रीतौ ४. ८१) for ‘to please.’ Use the सूत्रम् 3-2-184 अर्तिलूधूसूखनसहचर इत्रः to form a प्रातिपदिकम् for ‘conduct/character’ (चरत्यनेन)।
Answer: स्वेन निरवद्येन चरित्रेन श्रीरामः स्वम् पितरम् स्वाः मातॄः अयोध्यायाः सर्वाः प्रजाः च तोषयामास = स्वेन निरवद्येन चरित्रेन श्रीरामः स्वं पितरं स्वा मातॄरयोध्यायाः सर्वाः प्रजाश्च तोषयामास।
Easy questions:
1. Can you spot the augment ‘अट्’ in the verses?
Answer: The augment ‘अट्’ is seen in the form प्रादहन् derived from the verbal root √दह् (दहँ भस्मीकरणे धातु-पाठः #१. ११४६) along with the उपसर्गः ‘प्र’।
The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
दह् + लँङ् । By 3-2-111 अनद्यतने लङ्।
= दह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दह् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= दह् + झ् । By 3-4-100 इतश्च।
= दह् + शप् + झ् । By 3-1-68 कर्तरि शप्।
= दह् + अ + झ् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दह + अन्त् । By 7-1-3 झोऽन्तः।
= दहन्त् । By 6-1-97 अतो गुणे।
= अट् दहन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the augment ‘अट्’ which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the augment ‘अट्’ at the beginning of the अङ्गम्।
= अदहन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= अदहन् । By 8-2-23 संयोगान्तस्य लोपः।
‘प्र’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
प्र + अदहन् = प्रादहन् । By 6-1-101 अकः सवर्णे दीर्घः।
2. From which प्रातिपदिकम् is भुवि (सप्तमी-एकवचनम्) formed?
Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् ‘भू’ is used in the form भुवि।
भू + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= भू + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= भ् उवँङ् + इ । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – If an affix beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the affix ‘श्नु’ or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word ‘भ्रू’।
Note: The ending letter ‘ऊ’ in ‘भू’ comes from the verbal root ‘भू सत्तायाम्’। This allows 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ to apply here. As per 1-1-53 ङिच्च only the ending letter ‘ऊ’ of ‘भू’ is replaced by ‘उवँङ्’।
= भुवि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् ,1-3-9 तस्य लोपः।