Home » Example for the day » हविः nAs

हविः nAs

Today we will look at the form हविः-nAs from श्रीमद्भागवतम् SB 9-18-11

अहो निरीक्ष्यतामस्या दास्याः कर्म ह्यसाम्प्रतम् ।
अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ।। ९-१८-११ ।।

Gita Press translation “Oh! just look at the indecorum of this servant-maid in that like a bitch snatching away the oblation in a sacrifice she has put on the clothing which was meant to be put on by us.”

The नपुंसकलिङ्ग-प्रातिपदिकम् ‘हविस्’ is formed from हु-धातुः with the उणादि-प्रत्ययः “इसिँ”। “हविस्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is द्वितीया-विभक्तिः एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘हविस्’

(1) हविस् + अम् ।

(2) हविस् । By 7-1-23 स्वमोर्नपुंसकात्‌, the affixes सुँ and अम् that follow a neuter अङ्गम् take the लुक् elision.

(3) हविः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Can you spot a word in the verse in which सम्प्रसारणम् has been done?

2. Where has the स्याट्-आगम: been used?

3. Where has the सूत्रम् 7-3-112 आण्नद्याः been used?

4. What will be the प्रथमा/द्वितीया-बहुवचनम् form of the प्रातिपदिकम् “हविस्”?

5. Where has the प्रातिपदिकम् “हविस्” been used in Chapter 4 of the गीता?

6. Which अधिकार-सूत्राणि exert their influence on the सूत्रम् 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ ?

7. Use some words from the verse to construct the following sentence in Sanskrit.
“Oh! Just look at the beautiful smile of this girl.” Use the neuter noun “हसित” for “smile.”

8. Please state the one synonym for the word “हवि:” (प्रातिपदिकम् “हविस्” neuter, “oblation”) as given in the अमरकोश:।
सांनाय्यं हविः ।।२-७-२७।।
(इति द्वे “हविष:” नामनी)

Easy questions:

1. Can you spot where the सूत्रम् 8-3-22 हलि सर्वेषाम् has been used?

2. Derive the form “कर्म” (प्रथमा-एकवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “कर्मन्”। (Use 8-2-7 नलोपः प्रातिपदिकान्तस्य)।


1 Comment

  1. 1. In the form शुनी, प्रातिपदिकम् “शुनी”, स्त्रीलिङ्गे प्रथमा-एकवचनम्।
    The feminine प्रातिपदिकम् “शुनी” is derived from adding the ङीष्-प्रत्ययः to श्वन् by 4-1-41 षिद्गौरादिभ्यश्च।
    श्वन् + ङीष् = श्वन् + ई (1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः, अङ्गम् gets भ-सञ्ज्ञा by 1-4-18 यचि भम्)
    = शु अ नी (6-4-133 श्वयुवमघोनामतद्धिते) = शुनी (6-1-108 सम्प्रसारणाच्च)

    Now the form शुनी, प्रथमा-एकवचनम् is derived as follows
    शुनी + सुँ (4-1-2 स्वौजसमौट्छष्टा…) = शुनी + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = शुनी (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्)

    2. In the form अस्याः, प्रातिपदिकम् “इदम्”, अत्र स्त्रीलिङ्गे षष्ठी-विभक्तिः एकवचनम्।
    इदम् + ङस् (4-1-2 स्वौजसमौट्छष्टा…) = इद + ङस् (7-2-102 त्यदादीनामः, 6-1-97 अतो गुणे) = इदा + ङस् (4-1-4 अजाद्यतष्टाप्‌, 6-1-101 अकः सवर्णे दीर्घः) = इदा + अस् (1-3-8 लशक्वतद्धिते, 1-3-4 न विभक्तौ तुस्माः ) = इद + स्याट् अस् (7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च, 1-1-46 आद्यन्तौ टकितौ) = इद + स्या अस् (1-3-3 हलन्त्यम्) = इद + स्यास् (6-1-101 अकः सवर्णे दीर्घः) = अस्यास् (7-2-113 हलि लोपः) = अस्याः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    3. In दास्याः, प्रातिपदिकम् “दासी”, षष्ठी-विभक्तिः, एकवचनम्।
    दासी + ङस् (4-1-2 स्वौजसमौट्छष्टा…) = दासी + आट् ङस् (7-3-112 आण्नद्याः ) = दासी + आ अस् (1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-4 न विभक्तौ तुस्माः ) = दासी + आस् (6-1-90 आटश्च) = दास्यास् (6-1-77 इको यणचि) = दास्याः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    4. हविस् + जस्/शस् (4-1-2 स्वौजसमौट्छष्टा…) = हविस् + शि (7-1-20 जश्शसोः शिः, शि gets सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्)
    = हवि नुँम् स् + शि (7-1-72 नपुंसकस्य झलचः) = हविन्स् + इ (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = हवीन्सि (6-4-10 सान्तमहतः संयोगस्य) = हवींसि ( 8-3-24 नश्चापदान्तस्य झलि) = हवींषि (8-3-58 नुम्विसर्जनीयशर्व्यवायेऽपि, 8-3-59 आदेशप्रत्यययोः)

    5. ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्‌ | (प्रथमा-एकवचनम्)
    ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना || 4-24||

    6. 3-1-1 प्रत्ययः ।
    3-1-2 परश्च।
    4-1-1 ङ्याप्प्रातिपदिकात्‌।

    7. अहो अस्याः बालिकायाः सुन्दरम् हसितम् निरीक्ष्यताम् = अहो अस्या बालिकायाः सुन्दरं हसितं निरीक्ष्यताम्।

    8. The synonym for हविः is
    सांनाय्यम् (प्रातिपदिकम् “सांनाय्य”, neuter)

    Easy Questions:

    1. In the सन्धि-कार्यम् between अस्याः, दास्याः giving अस्या दास्याः।
    अस्यास् + दास्याः = अस्यारुँ + दास्याः (8-2-66 ससजुषो रुः) = अस्याय् + दास्याः (8-3-17 भोभगोअघोअपूर्वस्य योऽशि) = अस्या दास्याः (8-3-22 हलि सर्वेषाम्)

    2. कर्मन् + सुँ (4-1-2 स्वौजसमौट्छष्टा…) = कर्मन् (7-1-23 स्वमोर्नपुंसकात्‌। Now “कर्मन्” gets पद-सञ्ज्ञा by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, 1-4-14 सुप्तिङन्तं पदम्) = कर्म (8-2-7 नलोपः प्रातिपदिकान्तस्य)

Leave a comment

Your email address will not be published.

Recent Posts

Topics