Today we will look at the form पूष्णः from श्रीमद्भागवतम् SB 4-6-51.
जीवताद्यजमानोऽयं प्रपद्येताक्षिणी भगः ।
भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ।। ४-६-५१।।
Gita Press translation “Let the sacrificer (Dakṣa) come to life (again); let the god Bhaga get back his eyes; let the sage Bhṛgu’s mustaches and beard sprout again and let the god Pūṣā’s teeth reappear as before.”
‘पूषन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is षष्ठी-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘पूषन्’ ।
(1) पूषन् + ङस् ।
(2) पूष् अन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्।
(3) पूष्नस् । By 6-4-134 अल्लोपोऽनः, when an अङ्गम् that has the भ-सञ्ज्ञा ends in अन् then the अकारः of the अन् is elided.
(4) पूष्नः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
(5) पूष्णः । The letter न् is replaced by ण् by 8-4-1 रषाभ्यां नो णः समानपदे ।
Questions:
1. The अमर-कोश: gives thirty-six synonyms for the word “सूर्य:” (प्रातिपदिकम् “सूर्य” masculine – meaning “Sun”)! One of them is पूषा (प्रातिपदिकम् “पूषन्” masculine). Please list the other thirty-five. (Use Apte dictionary for help.)
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः।
भास्कराहस्करब्रध्नप्रभाकरविभाकराः ।।१-३-२८।।
भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः।
विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ।।१-३-२९।।
द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः।
विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ।।१-३-३०।।
भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।।१-३-३१।।
(इति सप्तत्रिंशत् “सूर्यस्य” नामानि)
2. Where is the प्रातिपदिकम् “सूर्य” used in the गीता ?
3. Where is the सूत्रम् 7-1-73 इकोऽचि विभक्तौ used in this verse?
4. We have studied one सूत्रम् where पाणिनि: specifically mentions the प्रातिपदिकम् “पूषन्” . Which one is that?
5. Which सर्वनाम-शब्द: has been used in this verse?
6. How would you say this in Sanskrit?
“Let the creepers grow in the garden.” Use the verb रोहन्तु from the verse and the प्रातिपदिकम् “लता” for “creeper.”
7. Where has the शि-आदेश: been used in this verse?
8. We have studied one सूत्रम् which applies when the अङ्गम् has the भ-सञ्ज्ञा , but the सूत्रम् is not in the “भस्य” अधिकार:। Which one is that?
Easy questions:
1. Consider the सन्धि-कार्यम् between दन्ता: and च। Steps are as follows:
दन्तास् + च
= दन्तारुँ + च by 8-2-66 ससजुषो रुः।
= दन्तार् + च by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
= दन्ता: + च by 8-3-15 खरवसानयोर्विसर्जनीयः।
= दन्तास् + च by 8-3-34 विसर्जनीयस्य सः।
= दन्ताश् + च by ?
Which सूत्रम् was used in the last step to replace the सकार: with a शकार: ?
2. Can you spot a place in the verse where the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has been used?
1.
The thirty five synonyms of सूर्यः/पूषा (all masculine) are:
1. सूरः (प्रातिपदिकम् “सूर”)
2. अर्यमा (प्रातिपदिकम् “अर्यमन्”)
3. आदित्यः (प्रातिपदिकम् “आदित्य”)
4. द्वादशात्मा (प्रातिपदिकम् “द्वादशात्मन्”)
5. दिवाकरः (प्रातिपदिकम् “दिवाकर”)
6. भास्करः (प्रातिपदिकम् “भास्कर”)
7. अहस्करः (प्रातिपदिकम् “अहस्कर”)
8. ब्रध्नः (प्रातिपदिकम् “ब्रध्न”)
9. प्रभाकरः (प्रातिपदिकम् “प्रभाकर”)
10. विभाकरः (प्रातिपदिकम् “विभाकर”)
11. भास्वान् (प्रातिपदिकम् “भास्वत्”)
12. विवस्वान् (प्रातिपदिकम् “विवस्वत्”)
13. सप्ताश्वः (प्रातिपदिकम् “सप्ताश्व”)
14. हरिदश्वः (प्रातिपदिकम् “हरिदश्व”)
15. उष्णरश्मि: (प्रातिपदिकम् “उष्णरश्मि”)
16. विकर्तनः (प्रातिपदिकम् “विकर्तन”)
17. अर्कः (प्रातिपदिकम् “अर्क”)
18. मार्तण्डः (प्रातिपदिकम् “मार्तण्ड”)
19. मिहिरः (प्रातिपदिकम् “मिहिर”)
20. अरुणः (प्रातिपदिकम् “अरुण”)
21. द्युमणि: (प्रातिपदिकम् “द्युमणि”)
22. तरणिः (प्रातिपदिकम् “तरणि”)
23. मित्रः (प्रातिपदिकम् “मित्र”)*
24. चित्रभानुः (प्रातिपदिकम् “चित्रभानु”)
25. विरोचनः (प्रातिपदिकम् “विरोचन”)
26. विभावसुः (प्रातिपदिकम् “विभावसु”)
27. ग्रहपतिः (प्रातिपदिकम् “ग्रहपति”)
28. त्विषांपतिः (प्रातिपदिकम् “त्विषांपति”)
29. अहर्पतिः (प्रातिपदिकम् “अहर्पति”)
30. भानुः (प्रातिपदिकम् “भानु”)
31. हंसः (प्रातिपदिकम् “हंस”)
32. सहस्रांशुः (प्रातिपदिकम् “सहस्रांशु”)
33. तपनः (प्रातिपदिकम् “तपन”)
34. सविता (प्रातिपदिकम् “सवितृ”)
35. रविः (प्रातिपदिकम् “रवि”)
*Note: When the प्रातिपदिकम् “मित्र” is used in the meaning of “Sun” it is masculine. It is neuter in the meaning “friend.”
2.
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः |
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु || 7-8||
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः || 11-12||
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् |
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् || 11-19||
न तद्भासयते सूर्यो न शशाङ्को न पावकः |
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम || 15-6||
3. The सूत्रम् 7-1-73 इकोऽचि विभक्तौ is used in अक्षिणी, नपुंसकलिङ्ग-प्रातिपदिकम् “अक्षि” अत्र द्वितीया-द्विवचनम्।
अक्षि + औट् (4-1-2 स्वौजसमौट्…) = अक्षि + शी (7-1-19 नपुंसकाच्च) = अक्षि + ई (1-3-8 लशक्वतद्धिते,1-3-9 तस्य लोपः) = अक्षि नुँम् + ई (7-1-73 इकोऽचि विभक्तौ, 1-1-47 मिदचोऽन्त्यात्परः) = अक्षिनी (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः) = अक्षिणी (8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)
4. पाणिनि: specifically mentions the प्रातिपदिकम् “पूषन्” in 6-4-12 इन्हन्पूषार्यम्णां शौ ।
5. अयम्, प्रातिपदिकम् “इदम्”, अत्र प्रथमा-एकवचनम्, पुंलिङ्गे।
इदम् + सुँ (4-1-2 स्वौजसमौट्…) = इदम् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = इदम् + स् (7-2-108 इदमो मः stops 7-2-102 त्यदादीनामः) = अयम् + स् (7-2-111 इदोऽय् पुंसि) = अयम् (6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्)
6. लताः उद्याने रोहन्तु = लता उद्याने रोहन्तु।
7. श्मश्रूणि, नपुंसकलिङ्ग-प्रातिपदिकम् “श्मश्रु” अत्र प्रथमा-बहुवचनम्।
श्मश्रु + जस् = श्मश्रु + शि (7-1-20 जश्शसोः शिः) = श्मश्रु + इ (1-3-8 लशक्वतद्धिते,1-3-9 तस्य लोपः) = श्मश्रुनुँम् + इ (7-1-72 नपुंसकस्य झलचः) = श्मश्रुन् + इ (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः) = श्मश्रूनि (6-4-8 सर्वनामस्थाने चासम्बुद्धौ) = श्मश्रूणि (8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)
8. A सूत्रम् which applies when the अङ्गम् has the भ-सञ्ज्ञा , but is not in the “भस्य” अधिकार: is 7-1-88 भस्य टेर्लोपः।
Easy questions:
1. 8-4-40 स्तोः श्चुना श्चुः was used in the last step to replace the सकार: with a शकार:।
2. The सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has been used in प्रपद्येताक्षिणी – the पदच्छेदः is प्रपद्येत + अक्षिणी।