Today we will look at the form वायुना mIs from श्रीमद्भागवतम् 3.30.16.
वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः । कासश्वासकृतायासः कण्ठे घुरघुरायते ।। ३-३०-१६ ।।
शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः । वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः ।। ३-३०-१७ ।।
श्रीधर-स्वामि-टीका –
उत्तारो बहिर्निर्गतनेत्रः । कफेन संरुद्धाः नाड्यो मार्गभूता यस्य । कासश्वासाभ्यां कृत आयासो यस्य । घुरघुर इति शब्दं करोति ।। १६ ।। परिवीतः परिवेष्टितः । वाच्यमानो बन्धो तातेत्याहूयमानः ।। १७ ।।
Gita Press translation – (At the approach of death) his eye-balls are shot out by (the action of) the life-breath trying to find an exit; his wind-pipe gets choked with phlegm, coughing and breathing cause him exertion and death-rattle is heard from his throat (16). Lying (in his bed) surrounded by his sorrowing relations and caught in the noose of Death, he cannot utter a word even when addressed (17).
वातीति वायु: । Note: As per the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. In the present example the affix उण् is used कर्तरि (to denote the agent of the action.)
The प्रातिपदिकम् ‘वायु’ is derived from the verbal root √वा (वा गतिगन्धनयोः २. ४५).
(1) वा + उण् । By उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् – The affix उण् may be used following any one of the verbal roots listed below –
(i) √कृ (डुकृञ् करणे ८. १०)
(ii) √वा (वा गतिगन्धनयोः २. ४५)
(iii) √पा (पा पाने १. १०७४, पा रक्षणे २. ५१)
(iv) √जि (जि अभिभवे १. १०९६)
(v) √मि (डुमिञ् प्रक्षेपणे ५. ४)
(vi) √स्वद् (ष्वदँ आस्वादने १. १८)
(vii) √साध् (साधँ संसिद्धौ ५. १९)
(vii) √अश् (अशूँ व्याप्तौ सङ्घाते च ५. २०)
(2) वा + उ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
(3) वा युक् + उ । By 7-3-33 आतो युक् चिण्कृतोः – A अङ्गम् ending in a आकार: takes the augment युक् when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)। 1-1-46 आद्यन्तौ टकितौ places the “युक्”-आगमः at the end of the अङ्गम्।
(4) वा य् + उ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “युक्” is उच्चारणार्थ: (for pronunciation only.)
= वायु ।
‘वायु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।
‘वायु’ is a पुंलिङ्ग-प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम् ।
(5) वायु + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। “वायु” gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
(6) वायु + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
(7) वायुना । By 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. “आङ्” is an ancient name for the (instrumental singular) affix “टा”।
Questions:
1. Where has the प्रातिपदिकम् ‘वायु’ been used in Chapter Eleven of the गीता?
2. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?
3. Why is उत्क्रमता a आर्ष-प्रयोग:?
4. Which सूत्रम् prescribes the गुणादेश: in the form शयानः?
5. From which verbal root is आहूयमान: (used in the commentary) derived?
6. How would you say this in Sanskrit?
“Wind is called the friend of fire.”
Easy questions:
1. Which सूत्रम् prescribes the elision of the affix शप् in ब्रूते?
2. Can you spot the affix ‘उ’ in the commentary?
1. Where has the प्रातिपदिकम् ‘वायु’ been used in Chapter Eleven of the गीता?
Answer: The प्रातिपदिकम् ‘वायु’ has been used in the following verse:
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च |
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते || 11-39||
The विवक्षा in वायु: is प्रथमा-एकवचनम्।
2. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?
Answer: The सूत्रम् 6-4-51 णेरनिटि has been used in the form वाच्यमानः (प्रातिपदिकम् ‘वाच्यमान’, पुंलिङ्गे प्रथमा-एकवचनम्)।
The प्रातिपदिकम् ‘वाच्यमान’ is a passive form (कर्मणि प्रयोग:) derived from the causative form of the verbal root √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८).
वच् + णिच् । By 3-1-26 हेतुमति च।
= वच् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= वाच् + इ । By 7-2-116 अत उपधायाः।
‘वाचि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
वाचि + लँट् । By 3-2-123 वर्तमाने लट्।
= वाचि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वाचि + शानच् । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-13 भावकर्मणोः।
= वाचि + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
= वाचि + यक् + आन । By 3-1-67 सार्वधातुके यक्।
= वाचि + य + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= वाच् + य + आन । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by a आर्धधातुकम् affix which does not have the augment ‘इट्’।
= वाच्य मुँक् + आन । By 7-2-82 आने मुक्, 1-1-46 आद्यन्तौ टकितौ।
= वाच्य म् + आन = वाच्यमान । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
‘वाच्यमान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
3. Why is उत्क्रमता a आर्ष-प्रयोग:?
Answer: The grammatically correct form is उत्क्रामता (प्रातिपदिकम् ‘उत्क्रामत्’, तृतीया-एकवचनम्)।
The प्रातिपदिकम् ‘उत्क्रामत्’ is derived from the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) preceded by the उपसर्गः ‘उद्’।
उद् क्रम् + लँट् । By 3-2-123 वर्तमाने लट्।
= उद् क्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= उद् क्रम् + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= उद् क्रम् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
= उद् क्रम् + शप् + अत् । By 3-1-68 कर्तरि शप्।
= उद् क्रम् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= उद् क्राम् + अ + अत् । By 7-3-76 क्रमः परस्मैपदेषु – The vowel (the letter ‘अ’) of the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) is elongated when followed by a शित् affix, which itself is followed by a परस्मैपदम् affix.
Note: In the form उत्क्रमता, 7-3-76 has not been honored.
= उद् क्रामत् । By 6-1-97 अतो गुणे।
= उत्क्रामत् । By 8-4-55 खरि च।
‘उत्क्रामत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
4. Which सूत्रम् prescribes the गुणादेश: in the form शयानः?
Answer: गुणादेश: in the form शयानः (प्रातिपदिकम् ‘शयान’, पुंलिङ्गे प्रथमा-एकवचनम्) is prescribed by 7-4-21 शीङः सार्वधातुके गुणः – the verbal root √शी (शीङ् स्वप्ने २. २६) takes the गुण: substitution when a सार्वधातुकम् affix follows.
Please see the following post for the derivation of the प्रातिपदिकम् ‘शयान’ – http://avg-sanskrit.org/2012/12/25/शयानान्-map/
5. From which verbal root is आहूयमान: (used in the commentary) derived?
Answer: आहूयमानः (प्रातिपदिकम् ‘आहूयमान’, पुंलिङ्गे प्रथमा-एकवचनम्) is a passive form (कर्मणि प्रयोग:) derived from the verbal root √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३) preceded by the उपसर्ग: ‘आङ्’।
The प्रातिपदिकम् ‘आहूयमान’ is derived as follows:
आङ् ह्वे + लँट् । By 3-2-123 वर्तमाने लट्।
= आ ह्वे + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= आ ह्वे + शानच् । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-13 भावकर्मणोः।
= आ ह्वे + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
= आ ह्वे + यक् + आन । By 3-1-67 सार्वधातुके यक्।
= आ ह्वे + य + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= आ ह् उ ए + य + आन । By 6-1-15 वचिस्वपियजादीनां किति।
= आ ह् उ + य + आन । By 6-1-108 सम्प्रसारणाच्च।
= आ हू + य + आन । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः।
= आ हूय मुँक् + आन । By 7-2-82 आने मुक्, 1-1-46 आद्यन्तौ टकितौ।
= आ हूय म् + आन = आहूयमान । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
‘आहूयमान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
6. How would you say this in Sanskrit?
“Wind is called the friend of fire.”
Answer: वायुः अग्नेः मित्रम् उच्यते = वायुरग्नेर्मित्रमुच्यते।
Easy questions:
1. Which सूत्रम् prescribes the elision of the affix शप् in ब्रूते?
Answer: The सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः prescribes the लुक् elision of the affix ‘शप्’ in the form ब्रूते derived from the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
ब्रू + लँट् । By 3-2-123 वर्तमाने लट्।
= ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= ब्रू + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
= ब्रू + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
= ब्रू + शप् + ते । By 3-1-68 कर्तरि शप्।
= ब्रू + ते । By 2-4-72 अदिप्रभृतिभ्यः शपः – The affix ‘शप्’ takes the ‘लुक्’ elision when following a verbal root belonging to the अदादि-गणः।
= ब्रूते । Note: Since the सार्वधातुकम् affix ‘ते’ is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows 1-1-5 क्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
2. Can you spot the affix ‘उ’ in the commentary?
Answer: The affix ‘उ’ is seen in the form करोति derived from √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०).
Please see answer to question 5 in the following comment for derivation of the form करोति – http://avg-sanskrit.org/2012/04/24/अस्राक्षीत्-3as-लुँङ्/#comment-3666