Today we will look at the form प्रतिपेदिरे 3Ap-लिँट् from श्रीमद्भागवतम् 3.20.43
त आत्मसर्गं तं कायं पितरः प्रतिपेदिरे ।
साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते ।। ३-२०-४३ ।।
श्रीधर-स्वामि-टीका –
आत्मनः सर्गो यस्मात्तम् । यद्येन कार्येण संप्रदानत्वनिमित्तेन । कवयः कर्मकोविदाः । साध्येभ्यः पितृभ्यश्च स्वपितृरूपेभ्यः । वितन्वते श्राद्धादिना हव्यं कव्यं च ददति ।
Gita Press translation “The Pitṛs themselves took possession of that invisible body, the source of their existence. It is through the medium of this invisible body (of the Pitṛs) that those well-versed in the ritual offer oblations to the Sādhyas and the Pitṛs (in the form of their departed ancestors on the occasion of Śrāddha etc.)”
पेदिरे is derived from the धातुः √पद् (दिवादि-गणः, पदँ गतौ, धातु-पाठः #४. ६५)।
The ending अकार: of “पदँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √पद् takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √पद् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झ”।
(1) पद् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.
(2) पद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) पद् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झ” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप् (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.
(4) पद् + इरेच् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively.
As per 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल् शित् सर्वस्य, “इरेच्” comes as a substitute for “झ”।
(5) पद् + इरे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(6) पद् पद् + इरे । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
(7) प पद् + इरे । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
(8) पेदिरे । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
(i) the अकार: is preceded and followed by a single (non-conjunct) consonant
(ii) the अङ्गम् is followed by a लिँट् affix which is कित्
(iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.
Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence “इरेच्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.
“प्रति” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
प्रति + पेदिरे = प्रतिपेदिरे ।
Questions:
1. In the first five verses of Chapter Fifteen of the गीता where has √पद् (दिवादि-गणः, पदँ गतौ, धातु-पाठः #४. ६५) been used in a तिङन्तं पदम्?
2. Where has 7-1-5 आत्मनेपदेष्वनतः been used in the verse?
3. Why didn’t 7-1-3 झोऽन्तः apply in the form ददति used in the commentary? (विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्। धातु: is √दा (डुदाञ् दाने ३. १०)।)
4. The वृत्ति: of the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि says – लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि। On this the तत्त्वबोधिनी comments यद्यपि “गमहन” इति सूत्रे क्ङितीति वर्तते, तथापि प्रयोजनाऽभावान्ङितीत्येतन्नानुवर्तत इति भावः। Please explain.
5. Commenting on the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the काशिका says अतः इति किम्? दिदिवतुः। Please explain.
6. How would you say this in Sanskrit?
“Hearing the word ‘Rama’, Marica was terrified.” Paraphrase “was terrified” to “went to fear.” Use the अव्ययम् “श्रुत्वा” for “hearing (having heard)” and use √पद् (दिवादि-गणः, पदँ गतौ, धातु-पाठः #४. ६५) with the उपसर्ग: “प्र” for “to go to.” Use the अव्ययम् “इति” as an end-quote.
Easy questions:
1. Please do पदच्छेद: of त आत्मसर्गम् and mention the necessary rules.
2. Where has 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verse?
Questions:
1. In the first five verses of Chapter Fifteen of the गीता where has √पद् (दिवादि-गणः, पदँ गतौ, धातु-पाठः #४. ६५) been used in a तिङन्तं पदम्?
Answer: In the first five verses of Chapter Fifteen of the गीता, √पद् (दिवादि-गणः, पदँ गतौ, धातु-पाठः #४. ६५) has been used in a तिङन्तं पदम् in the form प्रपद्ये।
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः |
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी || 15-4||
The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
पद् + लँट् । By 3-2-123 वर्तमाने लट्।
= पद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= पद् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= पद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= पद् + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
= पद् + श्यन् + ए । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप् ।
= पद् + य + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= पद्ये । By 6-1-97 अतो गुणे।
Note: “प्र” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे।
प्र + पद्ये = प्रपद्ये ।
2. Where has 7-1-5 आत्मनेपदेष्वनतः been used in the verse?
Answer: 7-1-5 आत्मनेपदेष्वनतः has been used in the verse in the form वितन्वते derived from the धातुः √तन् (तनादि-गणः, तनुँ विस्तारे, धातु-पाठः # ८. १)।
The विवक्षा is विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
तन् + लँट् । By 3-2-123 वर्तमाने लट्।
= तन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= तन् + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= तन् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
= तन् + उ + झे । By 3-1-79 तनादिकृञ्भ्य उः। (Note: Since the सार्वधातुक-प्रत्यय: “झे” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Therefore 1-1-5 ग्क्ङिति च stops the गुणादेशः on “उ” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।)
= तन् + उ + अते । By 7-1-5 आत्मनेपदेष्वनतः, the झकारः of a आत्मनेपद-प्रत्ययः gets “अत्” as the replacement when following an अङ्गम् that does not end in अकारः।
= तन्वते । 6-1-77 इको यणचि ।
“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि+ तन्वते = वितन्वते।
3. Why didn’t 7-1-3 झोऽन्तः apply in the form ददति used in the commentary? (विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्। धातु: is √दा (डुदाञ् दाने ३. १०)।)
Answer: 7-1-3 झोऽन्तः didn’t apply in the form ददति used in the commentary because of the अपवाद-सूत्रम् 7-1-4 अदभ्यस्तात्।
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथमा-पुरुषः, बहुवचनम्।
दा + लँट् । By 3-2-123 वर्तमाने लट्।
= दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दा + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= दा + शप् + झि । By 3-1-68 कर्तरि शप्।
= दा + झि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
= दा + दा + झि । By 6-1-10 श्लौ।
= द + दा + झि । By 7-4-59 ह्रस्वः।
= द + दा + अत् इ। By 7-1-4 अदभ्यस्तात् – The झकारः of a प्रत्ययः that follows a reduplicated (ref. 6-1-5 उभे अभ्यस्तम्) root is substituted by ‘अत्’।
Note: Since “अत्” is an आदेश: (substitute) in place of the झकार: of the झि-प्रत्यय: which has the विभक्ति-सञ्ज्ञा by 1-4-104 विभक्तिश्च, “अत्” also gets the विभक्ति-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ। Hence 1-3-4 न विभक्तौ तुस्माः prevents the ending तकार: of “अत्” from getting the इत्-सञ्ज्ञा।
= ददति । By 6-4-112 श्नाभ्यस्तयोरातः – When followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is elided.
(Note: Since the सार्वधातुक-प्रत्यय: “अत् इ” is अपित्, by 1-2-4 सार्वधातुकम् अपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.)
4. The वृत्ति: of the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि says – लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि। On this the तत्त्वबोधिनी comments यद्यपि “गमहन” इति सूत्रे क्ङितीति वर्तते, तथापि प्रयोजनाऽभावान्ङितीत्येतन्नानुवर्तत इति भावः। Please explain.
Answer: यद्यपि “गमहन” इति सूत्रे क्ङितीति वर्तते, तथापि प्रयोजनाऽभावान्ङितीत्येतन्नानुवर्तत इति भावः (= यद्यपि “गमहन” इति सूत्रे क्ङिति इति वर्तते, तथापि प्रयोजनाभावात् ङिति इति एतद् न अनुवर्तते इति भावः।) Even though the अनुवृत्ति: of क्ङिति comes from the सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि in to 6-4-120, no purpose is served by including ङिति in the वृत्ति: of 6-4-120 because in no case will there be a लिट् affix which is ङित्। Hence वृत्ति: of 6-4-120 only mentions किति and not ङिति which has no application here. This is what is meant by प्रयोजनाभावात् (प्रयोजनस्य अभावात्) ङिति इति एतद् न अनुवर्तते इति भावः।
5. Commenting on the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the काशिका says अतः इति किम्? दिदिवतुः। Please explain.
Answer: “अतः इति किम्” means that why “अतः” (in place of a अकार:) is specified in the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि। The reason being to avoid the undesired application of 6-4-120 in forms like दिदिवतुः । In this example, all the conditions for applying 6-4-120 are satisfied except that the अङ्गम् (“दिदिव्”) doesn’t have a अकार: but a इकार:। Hence 6-4-120 does not apply.
दिदिवतुः is derived from the धातुः √दिव् (दिवादि-गणः, दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, धातु-पाठः #४. १)
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
दिव् + लिँट् । By 3-2-115 परोक्षे लिँट्।
= दिव् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दिव् + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= दिव् + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा। Note: As per 1-2-5 असंयोगाल्लिट् कित्, the प्रत्यय: “अतुस्” is कित् here. Hence 1-1-5 ग्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.
= दिव् दिव् + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
= दि दिव् + अतुस् । By 7-4-60 हलादिः शेषः।
= दिदिवुः। रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
6. How would you say this in Sanskrit?
“Hearing the word ‘Rama’, Marica was terrified.” Paraphrase “was terrified” to “went to fear.” Use the अव्ययम् “श्रुत्वा” for “hearing (having heard)” and use √पद् (दिवादि-गणः, पदँ गतौ, धातु-पाठः #४. ६५) with the उपसर्ग: “प्र” for “to go to.” Use the अव्ययम् “इति” as an end-quote.
Answer: रामः इति शब्दम् श्रुत्वा मारीचः भयम् प्रपेदे = राम इति शब्दं श्रुत्वा मारीचो भयं प्रपेदे ।
Easy questions:
1. Please do पदच्छेद: of त आत्मसर्गम् and mention the necessary rules.
Answer: The पदच्छेद: of त आत्मसर्गम् is ते + आत्मसर्गम्।
ते + आत्मसर्गम् ।
= त् अय् + आत्मसर्गम् । By 6-1-78 एचोऽयवायावः – When an अच् letter (vowel) follows, then in place of the एच् letters (“ए”, “ओ”, “ऐ”, “औ”) there is a respective substitution (see 1-1-50 स्थानेऽन्तरतमः) of “अय्”, “अव्”, “आय्” and “आव्”।
= त + आत्मसर्गम् । By 8-3-19 लोपः शाकल्यस्य – In the opinion of the teacher शाकल्यः, the यकारः or वकार: is dropped when it occurs at the end of a पदम् and is preceded by the अवर्णः (अकारः or आकारः) and is followed by a letter of the अश्-प्रत्याहारः। (Note: As a convention, the यकारः is always dropped while the वकार: is never dropped.) After this 6-1-101 अकः सवर्णे दीर्घः cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।
2. Where has 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verse?
Answer: 7-3-110 ऋतो ङिसर्वनामस्थानयोः has been used in form पितरः, पुंलिङ्ग-प्रातिपदिकम् “पितृ” प्रथमा-बहुवचनम्।
पितृ + जस् । By 4-1-2 स्वौजसमौट्छष्टा…। “जस्” gets the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
= पितृ + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting the इत्-सञ्ज्ञा।
= पितर् + अस् । By 7-3-110 ऋतो ङिसर्वनामस्थानयोः – The ending ऋकार: of a अङ्गम् gets a गुणः replacement, when followed by the affix “ङि” (सप्तमी-एकवचनम्) or an affix with the designation सर्वनामस्थानम्। As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if a अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
= पितरः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।