Home » Example for the day » मेनिरे 3Ap-लिँट्

मेनिरे 3Ap-लिँट्

Today we will look at the form मेनिरे 3Ap-लिँट् from श्रीमद्भागवतम् 7.8.16

तदैव तस्मिन्निनदोऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत् ।
यं वै स्वधिष्ण्योपगतं त्वजादयः श्रुत्वा स्वधामाप्ययमङ्ग मेनिरे ।। ७-८-१६ ।।

श्रीधर-स्वामि-टीका
No commentary on this verse.

Gita Press translation “That very moment there rose in that pillar a most terrific crash, as a result of which the shell of the cosmic egg cracked (as it were) and on hearing which, as it reached the spheres of Brahmā (the creator) and others, they for their part actually suspected the dissolution of their very abodes, O dear Yudhiṣṭhira!”

मेनिरे is derived from the धातुः √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः # ४. ७३) or √मन् (तनादि-गणः, मनुँ अवबोधने, धातु-पाठः # ८. ९)

The ending vowel (अकार: of “मनँ” and उकार: of “मनुँ”) gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This vowel has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √मन् takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √मन् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झ”।

(1) मन् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मन् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झ” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) मन् + इरेच् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively.
As per 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल् शित् सर्वस्य, “इरेच्” comes as a substitute for “झ”।

(5) मन् + इरे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) मन् मन् + इरे । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) म मन् + इरे । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) मेनिरे । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
(i) the अकार: is preceded and followed by a single (non-conjunct) consonant
(ii) the अङ्गम् is followed by a लिँट् affix which is कित्
(iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.

Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence “इरेच्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.

Questions:

1. Of the two verbal roots √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः # ४. ७३) and √मन् (तनादि-गणः, मनुँ अवबोधने, धातु-पाठः # ८. ९) which one has been used in the गीता in a तिङन्तं पदम्?

2. Commenting on the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि (used in step 8 of the example), the तत्त्वबोधिनी says – असंयोगादिति किम्? ममन्थे। अत्र नलोपो न। Please explain.

3. Which सूत्रम् is used for the “वुँक्”-आगम: in the form बभूव?

4. Where has 3-4-100 इतश्च been used in the verse?

5. Which अव्ययम् in the verse has been translated to “O dear Yudhiṣṭhira!”?

6. How would you say this in Sanskrit?
“Embraced by Sri Rama, Sri Hanuman considered himself very blessed/fortunate.” Use the adjective प्रातिपदिकम् “आलिङ्गित” for “embraced”, use the masculine प्रातिपदिकम् “आत्मन्” for “himself” and the adjective प्रातिपदिकम् “सुभग” for “very blessed/fortunate.”

Easy questions:

1. Where has 6-1-109 एङः पदान्तादति been used in the verse?

2. Which सूत्रम् is used for the “स्मिन्”-आदेश: in the form तस्मिन् (सर्वनाम-प्रातिपदिकम् “तद्”, पुंलिङ्गे सप्तमी-एकवचनम्)?


1 Comment

  1. Questions:
    1. Of the two verbal roots √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः # ४. ७३) and √मन् (तनादि-गणः, मनुँ अवबोधने, धातु-पाठः # ८. ९) which one has been used in the गीता in a तिङन्तं पदम्?
    Answer: Of the two verbal roots √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः # ४. ७३) and √मन् (तनादि-गणः, मनुँ अवबोधने, धातु-पाठः # ८. ९) only √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः # ४. ७३) has been used in the गीता in a तिङन्तं पदम्। Examples are as follows:

    य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् |
    उभौ तौ न विजानीतो नायं हन्ति न हन्यते || 2-19||
    प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः |
    अहङ्कारविमूढात्मा कर्ताहमिति मन्यते || 3-27||
    यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः |
    यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते || 6-22||
    अधर्मं धर्ममिति या मन्यते तमसावृता |
    सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी || 18-32||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    मन् + लँट् । By 3-2-123 वर्तमाने लट्।
    = मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = मन् + ते । By 3-4-79 टित आत्मनेपदानां टेरे ।
    = मन् + श्यन् + ते । By 3-1-69 दिवादिभ्यः श्यन्।
    = मन्यते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् |
    तथापि त्वं महाबाहो नैवं शोचितुमर्हसि || 2-26||
    मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |
    योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् || 11-4||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    मन् + लँट् । By 3-2-123 वर्तमाने लट्।
    = मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मन् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = मन् + से । By 3-4-80 थासस्से।
    = मन् + श्यन् + से । By 3-1-69 दिवादिभ्यः श्यन्।
    = मन्यसे । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् |
    पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् || 5-8||
    The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    मन् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    = मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = मन् + सीयुट् त । By 3-4-102 लिङस्सीयुट्।
    = मन् + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    = मन् + ईय् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = मन् + ईत । By 6-1-66 लोपो व्योर्वलि।
    = मन् + श्यन् + ईत । By 3-1-69 दिवादिभ्यः श्यन्।
    = मन् + य + ईत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = मन्येत । गुणादेशः by 6-1-87 आद्गुणः।

    चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् |
    तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् || 6-34||
    सर्वमेतदृतं मन्ये यन्मां वदसि केशव |
    न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः || 10-14||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    मन् + लँट् । By 3-2-123 वर्तमाने लट्।
    = मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मन् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = मन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मन् + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
    = मन् + श्यन् + ए । By 3-1-69 दिवादिभ्यः श्यन् – The श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ ।
    = मन् + य + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मन्ये । By 6-1-97 अतो गुणे।

    2. Commenting on the सूत्रम् 6-4-120 (used in step 8 of the example), the तत्त्वबोधिनी says – असंयोगादिति किम्? ममन्थे। Please explain.
    Answer: असंयोगादिति किम्? ममन्थे। means why the condition असंयोगात् is specified by पाणिनि: in the सूत्रम् 1-2-5 असंयोगाल्लिट् कित्। The reason being to avoid the undesired application of 1-2-5 in forms like ममन्थे। ममन्थे is derived from the धातुः √मन्थ् (क्र्यादि-गणः, मन्थँ विलोडने, धातु-पाठः #९. ४७)।

    As shown in the derivation below, there is संयोग: (“न्थ्”) at the end of the अङ्गम् “मन्थ्”। So even though the लिँट् affix “त” is अपित् (does not have पकार: as a इत्), it does NOT become कित् by 1-2-5 असंयोगाल्लिट् कित्।
    अत्र नलोपो न। means that since the लिँट् affix “ए” is not a कित्, the penultimate नकारः in “मन्थ्” does NOT takes लोपः by 6-4-24 अनिदितां हल उपधायाः क्ङिति। If पाणिनि: had not specified असंयोगात् in 1-2-5 असंयोगाल्लिट् कित्, then 6-4-24 would have applied here resulting in an undesired form.

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    मन्थ् + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = मन्थ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मन्थ् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = मन्थ् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = मन्थ् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मन्थ् मन्थ् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = ममन्थे । By 7-4-60 हलादिः शेषः। As explained above, 6-4-24 does not apply.

    3. Which सूत्रम् is for the “वुँक्”-आगम: in the form बभूव?
    Answer: 6-4-88 भुवो वुग्लुङ्लिटोः is used for the “वुँक्”-आगम: in the form बभूव। बभूव is derived from the verbal root √भू (भू सत्तायाम् १. १). The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भू + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, 1-3-10 यथासंख्यमनुदेशः समानाम्।
    = भू + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भू वुक् + अ । By 6-4-88 भुवो वुग्लुङ्लिटोः, “भू” gets the augment “वुक्” when a vowel-beginning affix of लुँङ् or लिँट् follows.
    = भू व् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: The उकार: in “वुक्” is उच्चारणार्थ: (for pronunciation only.)
    = भूव् भूव् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = भू भूव् + अ । By 7-4-60 हलादिः शेषः।
    = भु भूव् + अ । By 7-4-59 ह्रस्वः।
    = भ भूव् + अ । By 7-4-73 भवतेरः।
    = बभूव । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    4. Where has 3-4-100 इतश्च been used in the verse?
    Answer: 3-4-100 इतश्च has been used in the verse in the form अस्फुटत् derived from the धातुः √स्फुट् (स्फुटँ विकसने ६. १००)। The विवक्षा is The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    स्फुट् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = स्फुट् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्फुट् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = स्फुट् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्फुट् + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.
    = स्फुट् + श + त् । 3-1-77 तुदादिभ्यः शः। Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च।
    = स्फुट् + अ + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् स्फुटत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अस्फुटत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    5. Which अव्ययम् in the verse has been translated to “O dear Yudhiṣṭhira!”?
    Answer: The अव्ययम् “अङ्ग” in the verse has been translated to “O dear Yudhiṣṭhira!” “अङ्ग” belongs to the चादि-गण: – referenced in 1-4-57 चादयोऽसत्त्वे। It is a निपातः since it is listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः । By 1-1-37 स्वरादिनिपातमव्ययम् it gets the अव्यय-सञ्ज्ञा।

    6. How would you say this in Sanskrit?
    “Embraced by Sri Rama, Sri Hanuman considered himself very blessed/fortunate.” Use the adjective प्रातिपदिकम् “आलिङ्गित” for “embraced”, use the masculine प्रातिपदिकम् “आत्मन्” for “himself” and the adjective प्रातिपदिकम् “सुभग” for “very blessed/fortunate.”
    Answer: श्रीरामेण आलिङ्गितः श्रीहनुमान् आत्मानम् सुभगम् मेने = श्रीरामेणालिङ्गितः श्रीहनुमानात्मानं सुभगं मेने ।

    Easy questions:

    1. Where has 6-1-109 एङः पदान्तादति been used in the verse?
    Answer: 6-1-109 एङः पदान्तादति has been used in the verse in the सन्धि-कार्यम् between निनद: + अतिभीषणः = निनदोऽतिभीषणः।
    निनदस् + अतिभीषणः ।
    = निनद रुँ + अतिभीषणः । By 8-2-66 ससजुषो रुः।
    = निनद उ + अतिभीषणः | By 6-1-113 अतो रोरप्लुतादप्लुते।
    = निनदो + अतिभीषणः | By 6-1-87 आद्गुणः।
    = निनदोऽतिभीषणः | By 6-1-109 एङः पदान्तादति – When there is an एङ् (“ए”, “ओ”) letter at the end of a पदम् followed by a अकार:, then in place of these two, there is a single substitute of the prior (एङ्) letter. (The loss of the अकार: is indicated by the symbol (ऽ) called अवग्रहः)।

    2. Which सूत्रम् is used for the “स्मिन्”-आदेश: in the form तस्मिन् (सर्वनाम-प्रातिपदिकम् “तद्”, पुंलिङ्गे सप्तमी-एकवचनम्)?
    Answer: 7-1-15 ङसिङ्योः स्मात्स्मिनौ is used for the “स्मिन्”-आदेश: in the form तस्मिन् (सर्वनाम-प्रातिपदिकम् “तद्”, पुंलिङ्गे सप्तमी-एकवचनम्)।
    तद् + ङि । By 4-1-2 स्वौजसमौट्छष्टा.. ।
    = त अ + ङि । By 7-2-102 त्यदादीनामः, the ending letter (see 1-1-52) of the pronouns, starting with “त्यद्” and ending with “द्वि”, is replaced by “अ” when followed by a विभक्ति: affix.
    = त + ङि । By 6-1-97 अतो गुणे।
    = त + स्मिन् । By 7-1-15 ङसिङ्योः स्मात्स्मिनौ – Following a pronoun ending in “अ”, the affixes “ङसिँ” (पञ्चमी-एकवचनम्) and “ङि” (सप्तमी-एकवचनम्) are replaced respectively by “स्मात्” and “स्मिन्”
    = तस्मिन् ।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics