Today we will look at the form गृहेषु nLp from श्रीमद्भागवतम् 10.60.44
तं त्वानुरूपमभजं जगतामधीशमात्मानमत्र च परत्र च कामपूरम् । स्यान्मे तवाङ्घ्रिररणं सृतिभिर्भ्रमन्त्या यो वै भजन्तमुपयात्यनृतापवर्गः ।। १०-६०-४३ ।।
तस्याः स्युरच्युत नृपा भवतोपदिष्टाः स्त्रीणां गृहेषु खरगोश्वविडालभृत्याः । यत्कर्णमूलमरिकर्षण नोपयायाद् युष्मत्कथा मृडविरिञ्चसभासु गीता ।। १०-६०-४४ ।।
श्रीधर-स्वामि-टीका –
अतस्त्वामेवाहमभजमित्याह – तं त्वेति । किंच प्रार्थयते – स्यादिति । अरणं शरणम् । सृतिभिर्देवतिर्यगादिभिर्जन्मभिः । पाठान्तरे त्वर्थवादबहुलकर्मश्रवणैरित्यर्थः । कथंभूतस्य तव । यस्त्वमनृतस्य संसारस्यापवर्गो नाशो यस्मात्स भजन्तमुपयात्यात्मसात्करोति तस्य तवाङ्घ्रिरिति । भीतस्य हि शरणमेवानुरूपं भजनयोग्यमतस्त्वामहमभजमित्यर्थः ।। ४३ ।। ये चोक्ता राज्ञां बहवो गुणा ‘राजपुत्रीप्सिता भूपैर्लोकपालविभूतिभिः’ इत्यादिना तत्र सेर्ष्यं सशापं साङ्गुलिभङगं चाह द्वाभ्याम् – तस्याः स्युरिति । खरा इव केवलं भारवाहा गावो बलिवर्दा इव नित्यं व्यापारक्लिष्टाः, श्वान इवावमताः, बिडाला इव कृपणा हिंस्राश्च, भृत्या इव किंकरा नृपास्तस्या दुर्भाग्याः पतयः स्युः । यस्याः कर्णपथं त्वत्कथा न प्राप्नुयादिति ।। ४४ ।।
Gita Press translation – I have sought as my befitting partner You, who are the suzerain lord of the universe, (nay,) my own Self and the granter of (all) desired boons both here as well as hereafter. May Your feet, which seek him who worships You and release him from the deceptive cycle of births and deaths, prove to be an asylum to me, who have been wandering through (repeated) births (43). O infallible One, O Destroyer of foes, let the kings (Śiśupāla and others) suggested by You be the choice of that woman into whose ears has not entered a lay pertaining to You and sung in the courts of Śiva and Brahmā. Within their homes those kings behave towards the ladies like a donkey, an ox, a dog, a cat and a slave (44).
गृह्णाति (धान्यादिकम्) इति गृहम्।
“गृह” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१).
The प्रातिपदिकम् “गृह” is derived as follows:
(1) ग्रह् + क । By 3-1-144 गेहे कः – The affix ‘क’ is used following the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) when the agent (of the action) denotes a house.
(2) ग्रह् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: The affix ‘क’ is a कित् (has the letter ‘क्’ as a इत्)। This allows 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च to apply in the next step.
(3) ग् ऋ अ ह् + अ । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45 इग्यणः सम्प्रसारणम्) when followed by an affix which is a कित् or a ङित्।
(4) गृह । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।
“गृह” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। It is a नपुंसकलिङ्ग-प्रातिपदिकम्।
The विवक्षा is सप्तमी-बहुवचनम्।
(5) गृह + सुप् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
(7) गृह + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
(8) गृहे + सु । By 7-3-103 बहुवचने झल्येत् – The ending “अ” of a अङ्गम् changes to “ए” when followed by a plural सुँप् affix beginning with a झल् letter.
(9) गृहेषु । By 8-3-59 आदेशप्रत्यययोः ।
Questions:
1. In the गीता where has the प्रातिपदिकम् “गृह” been used (as part of a compound)?
2. Commenting on the सूत्रम् 3-1-144 गेहे कः (used in step 1), the तत्त्वबोधिनी says – गेह इति प्रत्ययार्थस्य कर्तुर्विशेषणं, नोपपदम्। ‘४-४-९० गृहपतिना संयुक्ते ञ्यः’ इति निर्देशात्। Please explain.
3. Commenting further on the सूत्रम् 3-1-144, the तत्त्वबोधिनी says – एतत्सूत्रं तु शक्यमकर्तुम्। ‘गृहूँ ग्रहणे’ इति भ्वादेरिगुपधलक्षणे कप्रत्यये कृते गृहशब्दस्य सिद्धेः। Please explain.
4. Which सूत्रम् is used for the अकार-लोप: in the form स्युः?
5. Can you spot an augment यासुट् in the verses? Can you spot one in the commentary?
6. How would you say this in Sanskrit?
“My home is on the left side of the temple.” Use the masculine/neuter प्रातिपदिकम् “पार्श्व” for “side.”
Easy Questions:
1. The word श्वानः (used in the commentary) is derived from the प्रातिपदिकम् “श्वन्”। Can you recall a सूत्रम् in which पाणिनि: specifically mentions this प्रातिपदिकम्?
2. Commenting on the सूत्रम् 7-3-103 बहुवचने झल्येत् (used in step 8), the सिद्धान्तकौमुदी says – बहुवचने किम्? राम:। रामस्य। Please explain.
1. In the गीता where has the प्रातिपदिकम् “गृह” been used (as part of a compound)?
Answer: The प्रातिपदिकम् “गृह” been used (as part of a compound) in the word पुत्रदारगृहादिषु in the following verse:
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ।। 13-10 ।।
2. Commenting on the सूत्रम् 3-1-144 गेहे कः (used in step 1), the तत्त्वबोधिनी says – गेह इति प्रत्ययार्थस्य कर्तुर्विशेषणं, नोपपदम्। ‘४-४-९० गृहपतिना संयुक्ते ञ्यः’ इति निर्देशात्। Please explain.
Answer: The सूत्रम् 3-1-144 गेहे कः falls under the अधिकारः of 3-1-92 तत्रोपपदं सप्तमीस्थम् and the word गेहे, being in सप्तमी विभक्तिः, could mislead one into thinking that it gains the उपपदसञ्ज्ञा। For e.g. the सूत्रम् may be understood as “apply प्रत्ययः ‘क’ to the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) when गेहशब्दः is the उपपदम्” but this would result in an undesirable form. To remove this confusion, तत्त्वबोधिनी says that that the word गेहः only qualifies the कर्ता of of the verbal root √ग्रह् and is not a उपपदम् । In order to substantiate this interpretation of the सूत्रम् 3-1-144, the तत्त्वबोधिनी quotes an instance wherein पाणिनि: himself has used the प्रातिपदिकम् ‘गृह’ in the सूत्रम् 4-4-90 गृहपतिना संयुक्ते ञ्यः। This proves that the form ‘गृह’ is indeed formed by 3-1-144 where ‘गेह’ is not the उपपदम् but only an adjective of the agent.
3. Commenting further on the सूत्रम् 3-1-144, the तत्त्वबोधिनी says – एतत्सूत्रं तु शक्यमकर्तुम्। ‘गृहूँ ग्रहणे’ इति भ्वादेरिगुपधलक्षणे कप्रत्यये कृते गृहशब्दस्य सिद्धेः। Please explain.
Answer: The तत्त्वबोधिनी makes the point that the सूत्रम् 3-1-144 गेहे कः is not absolutely necessary. We can manage without it. How? The form ‘गृह’ could be derived from the verbal root √गृह् (गृहूँ ग्रहणे) by applying 3-1-135 इगुपधज्ञाप्रीकिरः कः । Thus there is no real need for 3-1-144.
4. Which सूत्रम् is used for the अकार-लोप: in the form स्युः?
Answer: The सूत्रम् 6-4-111 श्नसोरल्लोपःis used for the अकार-लोप: in the form स्युः derived from √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०).
The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= अस् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= अस् + शप् + झि । By 3-1-68 कर्तरि शप्।
= अस् + झि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
= अस् + जुस् । By 3-4-108 झेर्जुस्।
= अस् + यासुट् जुस् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
= अस् + यास् उस् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। The जकारः of जुस् takes लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जुस् from getting the इत्-सञ्ज्ञा।
= अस् + या उस् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= स् + या उस् । By 6-4-111 श्नसोरल्लोपः – The अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्। Note: Since the सार्वधातुक-प्रत्यय: “झि” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Another reason for the प्रत्यय: being a ङित् is that the augment यासुट् (which has joined the प्रत्यय:) is also a ङित् as per 3-4-103. This allows 6-4-111 to apply.
= स् + युस् । By 6-1-96 उस्यपदान्तात्।
= स्युः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
5. Can you spot an augment यासुट् in the verses? Can you spot one in the commentary?
Answer: In addition to being used in the form स्युः derived above, the augment यासुट् is used in the verses in the form स्यात् derived from √अस् (असँ भुवि २. ६०) and in the form उपयायात् derived from √या (या प्रापणे २. ४४).
स्यात् – The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= अस् + त् । By 3-4-100 इतश्च।
= अस् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च – The परस्मैपद-प्रत्यया: of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्।
Note: As per 1-1-46 आद्यन्तौ टकितौ, the augment “यासुट्” attaches itself to the beginning of the प्रत्ययः।
= अस् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= अस् + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
= अस् + यास् त् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
= अस् + या त् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= स्यात् । By 6-4-111 श्नसोरल्लोपः – The अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: The प्रत्यय: “यात्” is a ङित् due to यासुट् being a ङित् by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च। This allows 6-4-111 to apply.
उपयायात् – The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
या + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= या + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= या + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= या + त् । By 3-4-100 इतश्च।
= या + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च – The परस्मैपद-प्रत्यया: of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्।
Note: As per 1-1-46 आद्यन्तौ टकितौ, the augment “यासुट्” attaches itself to the beginning of the प्रत्ययः।
= या + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= या + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
= या + यास् त् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
= यायात् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
“उप” is the उपसर्गः (ref 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
उप + यायात् = उपयायात् ।
The augment यासुट् is used in the commentary in the form प्राप्नुयात् derived from √आप् (स्वादि-गणः, आपॢँ व्याप्तौ, धातु-पाठः # ५. १६).
The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
आप् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= आप् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= आप् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= आप् + त् । By 3-4-100 इतश्च।
= आप् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च – The परस्मैपद-प्रत्यया: of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्।
Note: As per 1-1-46 आद्यन्तौ टकितौ, the augment “यासुट्” attaches itself to the beginning of the प्रत्ययः।
= आप् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= आप् + यात् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= आप् + श्नु + यात् । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
= आप्नुयात् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: The प्रत्यय: “यात्” is a ङित् due to यासुट् being a ङित् by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च। This allows 1-1-5 क्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
“प्र” is the उपसर्गः (ref 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
प्र + आप्नुयात् = प्राप्नुयात् । By 6-1-101 अकः सवर्णे दीर्घः।
6. How would you say this in Sanskrit?
“My home is on the left side of the temple.” Use the masculine/neuter प्रातिपदिकम् “पार्श्व” for “side.”
Answer: मम गृहम् मन्दिरस्य वामे पार्श्वे अस्ति = मम गृहं मन्दिरस्य वामे पार्श्वेऽस्ति।
Easy Questions:
1. The word श्वानः (used in the commentary) is derived from the प्रातिपदिकम् “श्वन्”। Can you recall a सूत्रम् in which पाणिनि: specifically mentions this प्रातिपदिकम्?
Answer: पाणिनि: specifically mentions the प्रातिपदिकम् “श्वन्” in the सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते – The “अन्” ending “श्वन्”, “युवन्” and “मघवन्”, which have the भ-सञ्ज्ञा, take सम्प्रसारणम् when followed by an affix which is not a तद्धितः।
2. Commenting on the सूत्रम् 7-3-103 बहुवचने झल्येत् (used in step 8), the सिद्धान्तकौमुदी says – बहुवचने किम्? राम:। रामस्य। Please explain.
Answer: The विवक्षा in रामः is प्रथमा-एकवचनम् and रामस्य is षष्ठी-एकवचनम्।
As per the सूत्रम् 7-3-103 बहुवचने झल्येत् – The ending “अ” of a अङ्गम् changes to “ए” when followed by a plural सुँप् affix beginning with a झल् letter. In the form रामः, the अङ्गम् “राम” is followed by the affix “स्” (“सुँ”) which begins with a झल् letter. In the form रामस्य, theअङ्गम् “राम” is followed by the affix “स्य” which begins with a झल् letter too. But in both these cases, the विवक्षा is एकवचनम् and not बहुवचनम्। In order to prevent its application in forms such as राम: and रामस्य, पाणिनिः has specifically mentioned “बहुवचने” in the सूत्रम् 7-3-103.
The विवक्षा in राम: is पुंलिङ्गे, प्रथमा-एकवचनम्।
राम+ सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= राम + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः। Here the अङ्गम् “राम”is followed by the प्रत्ययः “स्” which begins with a झल् letter (सकारः) but as it is एकवचनम्, 7-3-103 does not apply.
= राम: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
The विवक्षा of रामस्य is षष्ठी-एकवचनम्।
राम + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= राम + स्य । By 7-1-12 टाङसिङसामिनात्स्याः, 1-1-55 अनेकाल्शित्सर्वस्य। Here the अङ्गम् “राम”is followed by the प्रत्ययः “स्य” which begins with a झल् letter (सकारः) but as it is एकवचनम्, 7-3-103 does not apply.
= रामस्य ।