Today we will look at the form गायकाः mNp from श्रीमद्भागवतम् 10.83.30
उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्विड्गण्डस्थलं शिशिरहासकटाक्षमोक्षैः । राज्ञो निरीक्ष्य परितः शनकैर्मुरारेरंसेऽनुरक्तहृदया निदधे स्वमालाम् ॥ १०-८३-२९ ॥
तावन्मृदङ्गपटहाः शङ्खभेर्यानकादयः । निनेदुर्नटनर्तक्यो ननृतुर्गायका जगुः ॥ १०-८३-३० ॥
श्रीधर-स्वामि-टीका –
उरवः कुन्तला यस्मिन्, कुण्डलयोस्त्विषो ययोस्ते गण्डस्थले यस्मिंस्तच्च तच्च । शिशिरः संतापहरो हासो येषु तैः कटाक्षमोक्षैरपाङ्गमोक्षणविलासैः । अनुरक्तं हृदयं यस्याः साऽहम् ॥ २९ ॥ ३० ॥
Gita Press translation – Thick tresses of hair overhung my face and brilliant ear-rings added luster to my cheeks. Lifting up my face I glanced at the kings on all sides with enlivening smiles and sidelong looks and with a heart over-flowing with love gently placed the necklace round the neck of my Lord (29). The moment I placed the necklace round His neck, clay tomtoms, tabors, conchs, drums and kettledrums were sounded; male and female dancers began to dance, and songsters began to sing (in various tunes) (30).
“गायक” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √गै (गै शब्दे १. १०६५)
(1) गा + ण्वुल् । By 3-1-133 ण्वुल्तृचौ – The affixes “ण्वुल्” and “तृच्” may be used after a verbal root. By 6-1-45 आदेच उपदेशेऽशिति – The ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.
Note: As per 3-4-67 कर्तरि कृत्, the affixes “ण्वुल्” and “तृच्” are used in the sense of the agent of the action.
(2) गा + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
Note: “वु” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
(3) गा + अक । By 7-1-1 युवोरनाकौ – The affixes “यु” and “वु” are substituted respectively by “अन” and “अक”।
(4) गा युक् + अक । By 7-3-33 आतो युक् चिण्कृतोः – A अङ्गम् ending in a आकार: takes the augment युक् when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)।
As per 1-1-46 आद्यन्तौ टकितौ, the “युक्”-आगम: joins at the end of the अङ्गम् “गा”।
(5) गायक । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “युक्” is उच्चारणार्थ: (for pronunciation only.)
“गायक” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
The विवक्षा is पुंलिङ्गे प्रथमा-बहुवचनम्।
(1) गायक + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
(2) गायक + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting इत्-सञ्ज्ञा।
(3) गायकास् । 6-1-102 प्रथमयो: पूर्वसवर्ण: – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)
(4) गायकाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
Questions:
1. Where has the affix “ण्वुल्” been used for the first time in the गीता?
2. Commenting on the सूत्रम् 3-1-133 ण्वुल्तृचौ the तत्त्वबोधिनी says णकारो वृद्ध्यर्थः। Please explain.
3. Commenting on the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः the तत्त्वबोधिनी says ञ्णितीति किम्? पानीयम्। Please explain.
4. Which सूत्रम् is used for the आकार-लोपः in the form निदधे? Where else has this सूत्रम् been used in the verses?
5. Can you spot a अभ्यास-लोपः in the verses?
6. How would you say this in Sanskrit?
“Who is the best singer among all of you?”
Easy Questions:
1. Which सूत्रम् is used for the गुणादेशः in the form उरवः?
2. Where has the सूत्रम् 7-3-104 ओसि च been used in the commentary?
1. Where has the affix “ण्वुल्” been used for the first time in the गीता?
Answer: The affix “ण्वुल्” has been used for the first time in the गीता in the form नायकाः derived from √नी (णीञ् प्रापणे १. १०४९)
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते || 1-7||
The beginning णकारः of “णीञ्” takes नकार-आदेशः by 6-1-65 णो नः। The ending ञकारः gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः।
नी + ण्वुल् । By 3-1-133 ण्वुल्तृचौ।
Note: As per 3-4-67 कर्तरि कृत्, the affixes “ण्वुल्” and “तृच्” are used in the sense of the agent of the action.
= नी + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। Note: “वु” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= नी + अक । By 7-1-1 युवोरनाकौ।
= नै + अक । By 7-2-115 अचो ञ्णिति।
= नाय् + अक = नायक । By 6-1-78 एचोऽयवायावः।
“नायक” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
The विवक्षा is पुंलिङ्गे प्रथमा-बहुवचनम्।
नायक + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= नायक + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting इत्-सञ्ज्ञा।
= नायकास् । By 6-1-102 प्रथमयो: पूर्वसवर्ण:।
= नायकाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Commenting on the सूत्रम् 3-1-133 ण्वुल्तृचौ the तत्त्वबोधिनी says णकारो वृद्ध्यर्थः। Please explain.
Answer: The purpose of using णकारः as a इत् in the affix ‘ण्वुल्’ is to allow the वृद्धिः operation by 7-2-115 अचो ञ्णिति/7-2-116 अत उपधायाः। Note: This is not the only प्रयोजनम् (purpose) of having णकार: as a इत् in ‘ण्वुल्’। णकार: as a इत् also allows 7-3-33 आतो युक् चिण्कृतोः to apply in forms like दायक:, गायक: etc.
3. Commenting on the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः the तत्त्वबोधिनी says ञ्णितीति किम्? पानीयम्। Please explain.
Answer: “पानीय” is a कृदन्त-प्रातिपदिकम् derived from √पा (पा पाने १. १०७४, पा रक्षणे २. ५१).
पा + अनीयर् । By 3-1-96 तव्यत्तव्यानीयरः। Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here भावे/कर्मणि – to denote the action (भावः) or the object (कर्म) – depending on the context.
= पा + अनीय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: “अनीय” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= पानीय । By 6-1-101 अकः सवर्णे दीर्घः।
Note: As per 7-3-33 आतो युक् चिण्कृतोः – A अङ्गम् ending in a आकार: takes the augment युक् when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)। Here the अङ्गम् “पा” ends in a आकारः but is followed by a कृत् affix ‘अनीयर्’ which is neither a ञित् nor a णित्। Therefore 7-3-33 does not apply here.
“पानीय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
4. Which सूत्रम् is used for the आकार-लोपः in the form निदधे? Where else has this सूत्रम् been used in the verses?
The सूत्रम् 6-4-64 आतो लोप इटि च is used for the आकार-लोपः in the form निदधे – derived from √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).
The विवक्षा is लिँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
धा + लिँट् । By 3-2-115 परोक्षे लिँट्।
= धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= धा + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
= धा + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= धा + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
= धा धा + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
= ध धा + ए । By 7-4-59 ह्रस्वः।
= ध ध् + ए = धधे । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or (ii) a ककार: or ङकार: as an इत्।
Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “ए”-प्रत्यय: is कित् here. This allows 6-4-64 to apply.
= दधे । By 8-4-54 अभ्यासे चर्च।
“नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
नि + दधे = निदधे ।
The सूत्रम् 6-4-64 आतो लोप इटि च is also used for the आकार-लोपः in the form जगुः derived from √गै (गै शब्दे १. १०६५).
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
गा + लिँट् । By 3-2-115 परोक्षे लिँट्। By 6-1-45 आदेच उपदेशेऽशिति – The ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.
= गा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गा + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= गा + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
= गा गा + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
= जा गा + उस् । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
= ज गा + उस् । By 7-4-59 ह्रस्वः।
= ज ग् उस् । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or (ii) a ककार: or ङकार: as an इत्।
Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “उस्”-प्रत्यय: is a कित् here. This allows 6-4-64 to apply.
= जगुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
5. Can you spot a अभ्यास-लोपः in the verses?
Answer: A अभ्यास-लोपः is seen in the form निनेदुः derived from √नद् (णदँ अव्यक्ते शब्दे १. ५६). The initial णकार: of “णदँ” is replaced by a नकार: by 6-1-65 णो नः।
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
नद् + लिँट् । By 3-2-115 परोक्षे लिँट् ।
= नद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= नद् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= नद् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
= नद् नद् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
= न नद् + उस् । By 7-4-60 हलादिः शेषः।
= नेद् + उस् । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
(i) the अकार: is preceded and followed by a single (non-conjunct) consonant
(ii) the अङ्गम् is followed by a लिँट् affix which is कित्
(iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.
Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – is considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence “उस्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.
= नेदुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
“नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
नि + नेदुः = निनेदुः ।
6. How would you say this in Sanskrit?
“Who is the best singer among all of you?”
Answer: युष्मासु सर्वेषु कः उत्तमः/श्रेष्ठ: गायकः = युष्मासु सर्वेषु क उत्तमो / कः श्रेष्ठो गायकः।
Easy Questions:
1. Which सूत्रम् is used for the गुणादेशः in the form उरवः?
Answer: The सूत्रम् 7-3-109 जसि च is used for the गुणादेशः in the form उरवः (प्रातिपदिकम् “उरु”)।
The विवक्षा here is पुंलिङ्गे प्रथमा-बहुवचनम्।
उरु + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= उरु + अस् । अनुबन्ध-लोप: by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
= उरो + अस् । By 7-3-109 जसि च – When the affix “जस्” follows, there is a गुण: substitute for the (ending letter of a) अङ्गम् ending in a short vowel.
= उरव् + अस् = उरवस् । By 6-1-78 एचोऽयवायावः।
= उरवः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Where has the सूत्रम् 7-3-104 ओसि च been used in the commentary?
Answer: The सूत्रम् 7-3-104 ओसि च is used in the form कुण्डलयोः (पुंलिङ्ग/नपुंसकलिङ्ग-प्रातिपदिकम् “कुण्डल”, षष्ठी-द्विवचनम्।)
कुण्डल + ओस् । By 4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ओस्” from getting the इत्-सञ्ज्ञा।
= कुण्डले + ओस् । By 7-3-104 ओसि च – The ending अकार: of a अङ्गम् is replaced by एकार: when followed by the affix “ओस्”।
= कुण्डलय् + ओस् = कुण्डलयोस् । By 6-1-78 एचोऽयवायावः।
= कुण्डलयोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
The सूत्रम् 7-3-104 ओसि च has also been used in the commentary in the form ययोः (सर्वनाम-प्रातिपदिकम् “यद्”, नपुंसकलिङ्गे षष्ठी-द्विवचनम्।)
यद् + ओस् । By 4-1-2 स्वौजसमौट्छष्टा…।
= य अ + ओस् । By 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
= य + ओस् । By 6-1-97 अतो गुणे।
= ये + ओस् । By 7-3-104 ओसि च – The ending अकार: of a अङ्गम् is replaced by एकार: when followed by the affix “ओस्”।
= यय् + ओस् = ययोस् । By 6-1-78 एचोऽयवायावः।
= ययोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।