Home » 2012 » September » 17

Daily Archives: September 17, 2012

वाच्यः mNs

Today we will look at the form वाच्यः mNs from श्रीमद्भागवतम् 10.72.20

किं दुर्मर्षं तितिक्षूणां किमकार्यमसाधुभिः । किं न देयं वदान्यानां कः परः समदर्शिनाम् ॥ १०-७२-१९ ॥
योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् । नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः ॥ १०-७२-२० ॥

श्रीधर-स्वामि-टीका
नन्विदं कामयामह इति विशेषो निर्दिश्यताम्, अन्यथा यस्य स्वयंकल्पः पुत्रादेर्वियोगो दुःसहः स कथं देयः, तथा राजमण्डनं किरीटाद्यदेयं यत्तद्भिक्षुभ्यः कथं देयम्, तथातिरम्यं रत्नाभरणादि पुत्रादियोग्यं कथं परस्मै देयमिति चेदत आहुः – किं दुर्मर्षमित्यादि । अथ दृष्टान्तत्वेनार्थान्तरमाहुः – किमकार्यमिति । यथाऽसाधूनामकार्यं नास्ति तथा तितिक्षूणां दुर्मर्षं दुःसहं नास्ति । वदान्यानामत्युदाराणामदेयं नास्ति । समदर्शिनां परश्च नास्ति । अतः किं विशेषनिर्देशेनेत्यर्थः ॥ १९ ॥ किंच अर्थिने धीरेण मुद्गलादिवत्प्राणा अपि न वञ्चनीया इत्याशयेनाहुः – योऽनित्येनेति । नाचिनोति न संपादयति स वाच्यः स निन्द्यः ॥ २० ॥

Gita Press translation – O king, a forbearing person can bear anything; the wicked can do anything; (in fact, there is nothing which he will regard as prohibited); and a generous donor will not hesitate to give away anything. And none is foreign to a man of undifferentiating outlook (19). If a capable man, through his mortal body, does not earn enduring fame, worthy of being sung by men of virtue, he deserves to be pitied and censured (20).

“वाच्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √वच् (वचँ परिभाषणे २. ५८)

(1) वच् + ण्यत् । By 3-1-124 ऋहलोर्ण्यत्‌ – The affix ण्यत् may be used following any verbal root which either ends in a ऋ-वर्णः (ऋकारः or ॠकारः) or in a consonant.

(2) वच् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।

(3) वाच्य । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

Note:7-3-52 चजोः कु घिण्ण्यतोः is stopped by the 7-3-67 वचोऽशब्दसंज्ञायाम् – When followed by the affix “ण्यत्”, the चकारः of a अङ्गम् consisting of the verbal root √वच् (वचँ परिभाषणे २. ५८, as well as the substitute “वच्” which comes in place of √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) by 2-4-53 ब्रुवो वचिः) – when not used as a noun meaning speech/sentence – does not take a कवर्गादेशः (a letter of the क-वर्गः as a substitute.)

“वाच्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(4) वाच्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) वाच्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) वाच्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् “वाच्य” been used in Chapter Eighteen of the गीता?

2. Commenting on the सूत्रम् 7-3-67 वचोऽशब्दसंज्ञायाम् the सिद्धान्त-कौमुदी says शब्दाख्यायां तु वाक्यम्। Please explain.

3. Can you spot an affix “सन्” in the verses?

4. Where has the सूत्रम् 6-4-65 ईद्यति been used in the verses?

5. How would you say this in Sanskrit?
“You ought not to speak in this manner.” Paraphrase to passive. Use the अव्ययम् “इत्थम्” for “in this manner.”

Advanced Question:

1. Why doesn’t the सूत्रम् 7-3-52 चजोः कु घिण्ण्यतोः apply in the form “शोच्य”? Note: Commenting on the सू्त्रम् 7-3-52 the सिद्धान्त-कौमुदी says निष्ठायामनिट इति वक्तव्यम्। Please explain.

Easy Questions:

1. Can you spot an affix “णिङ्” in the commentary?

2. Which सूत्रम् is used for the “स्मै”-आदेशः in the form परस्मै (used in the commentary)?

September 2012
M T W T F S S
« Aug   Oct »
 12
3456789
10111213141516
17181920212223
24252627282930

Topics