Home » Example for the day » अदात् 3As-लुँङ्

अदात् 3As-लुँङ्

Today we will look at the form अदात् 3As-लुँङ् from श्रीमद्भागवतम् 9.6.31.

कं धास्यति कुमारोऽयं स्तन्यं रोरूयते भृशम् । मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात् ।। ९-६-३१ ।।
न ममार पिता तस्य विप्रदेवप्रसादतः । युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात् ।। ९-६-३२ ।।

श्रीधर-स्वामि-टीका
अयं कं धास्यति पास्यतीति दुःखितैर्विप्रैरुक्ते सति तस्यामिष्ट्यामाराधित इन्द्रो मां धाता पाता हे वत्स, मा रोदीरिति ब्रुवन् देशिनीं तर्जनीमदादित्यर्थः ।। ३१ ।। तस्य पिता युवनाश्चो भिन्नकुक्षिरपि न ममार किंतु कालान्तरे तपसा सिद्धिमन्वगात् ।। ३२ ।।

Gita Press translation – When the babe cried much (for being suckled) and the Brāhmaṇas anxiously inquired: “Whom will this prince suck?”, Indra put into the babe’s mouth his index finger (dripping with nectar), saying “The babe will suck me (Mām Dhātā); do not cry, my child!” (Hence the babe became known as Māndhātā) (31). The father of the babe did not die by the grace of the Brāhmaṇas and the gods (even though he had his pelvic region split up). (Nay,) he forthwith attained perfection (final beatitude) in that very hermitage through asceticism (32).

अदात् is derived from the धातुः √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

√दा has ञकारः as इत् in the धातु-पाठः। Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √दा is उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) दा + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दा + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) दा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) दा + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) दा + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) दा + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) दा + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).
Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.

(9) अट् दा + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अदात् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. In which three consecutive verses of the गीता has the verbal root √दा (डुदाञ् दाने ३. १०) been used in a तिङन्तं पदम्?

2. Can you recall a सूत्रम् by which the use of a परस्मैपदम् affix is justified in the form ममार?

3. The form धास्यति used in the verses has been derived from which verbal root? Hint: The answer is not √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).

4. Where has the सूत्रम् 8-2-28 इट ईटि been used in the verses?

5. In which तिङन्तं पदम् in the verses has the verbal root √इ (इण् गतौ २. ४०) been used?

6. How would you say this in Sanskrit?
“Do not give this book to one who does not study grammar.” Use an appropriate form of the pronouns “यद्” and “तद्”। Use चतुर्थी विभक्तिः with “तद्”। Use √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१) with the उपसर्ग: “अधि” for “to study.”

Easy Questions:

1. By which सूत्रम् does the verbal root √दा (डुदाञ् दाने ३. १०) get the घु-सञ्ज्ञा (required for applying the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु in step 8)?

2. Can you spot an augment “स्याट्” in the commentary?


1 Comment

  1. 1. In which three consecutive verses of the गीता has the verbal root √दा (डुदाञ् दाने ३. १०) been used in a तिङन्तं पदम्?
    Answer: The verbal root √दा (डुदाञ् दाने ३. १०) has been used in the form दीयते in verses 20, 21 and 22 of Chapter 17.
    दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
    देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्‌ ।। 17-20 ।।
    यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
    दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्‌ ।। 17-21 ।।
    अदेशकाले यद्दानमपात्रेभ्यश्च दीयते
    असत्कृतमवज्ञातं तत्तामसमुदाहृतम्‌ ।। 17-22 ।।

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथमपुरुष:, एकवचनम्।
    दा + लँट् । By 3-2-123 वर्तमाने लट्।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = दा + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = दा + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = दा + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दीयते । By 6-4-66 घुमास्थागापाजहातिसां हलि the आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्। Note: √दा (डुदाञ् दाने ३. १०) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्।

    2. Can you recall a सूत्रम् by which the use of a परस्मैपदम् affix is justified in the form ममार?
    Answer: ममार is derived from √मृ (मृङ् प्राणत्यागे #६. १३९). The विवक्षा here is लिँट्, कर्तरि प्रयोग:, प्रथमपुरुष:, एकवचनम्।
    By the सूत्रम् 1-3-61 म्रियतेर्लुङ्‌लिङोश्च, the verbal root √मृ (मृङ् प्राणत्यागे #६. १३९) takes a आत्मनेपद-प्रत्ययः only when लुँङ्, लिँङ् or शित्-प्रत्ययः is used, not otherwise. By 1-3-78 शेषात् कर्तरि परस्मैपदम् √मृ takes a परस्मैपदम् affix, since लिँट् is used here and there is no शित् affix following the verbal root.

    मृ + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = मृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = मृ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = मृ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मृ मृ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-3-84 सार्वधातुकार्धधातुकयोः।
    = मर् मृ + अ । By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
    = म मृ + अ । By 7-4-60 हलादिः शेषः।
    = म मर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = ममार । By 7-2-116 अत उपधायाः।

    3. The form धास्यति used in the verses has been derived from which verbal root? Hint: The answer is not √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).
    Answer: The form धास्यति has been derived from √धे (धेट् पाने १. १०५०).

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    धा + लृँट् । By 3-3-13 लृट् शेषे च। By 6-1-45 आदेच उपदेशेऽशिति – The ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = धा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + स्य + ति । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    = धास्यति ।

    4. Where has the सूत्रम् 8-2-28 इट ईटि been used in the verses?
    Answer: The सूत्रम् 8-2-28 इट ईटि has been used in the form मा रोदीः derived from √रुद् (अदादि-गणः, रुदिँर् अश्रुविमोचने, धातु-पाठः #२. ६२).

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    माङ् रुद् + लुँङ् । By 3-3-175 माङि लुङ्।
    = मा रुद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा रुद् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = मा रुद् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा रुद् + स् । By 3-4-100 इतश्‍च।
    = मा रुद् + च्लि + स् । By 3-1-43 च्लि लुङि।
    = मा रुद् + सिँच् + स् । By 3-1-44 च्लेः सिच्।
    = मा रुद् + स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा रुद् + इट् स् + स् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = मा रुद् + इ स् + स् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा रुद् + इस् + ईट् स् । By 7-3-96 अस्तिसिचोऽपृक्ते, 1-1-46 आद्यन्तौ टकितौ।
    = मा रुद् + इस् + ईस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा रोद् + इस् + ईस् । By 7-3-86 पुगन्तलघूपधस्य च।
    Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। Here 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = मा रोद् + इ + ईस् । By 8-2-28 इट ईटि, a सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided.
    = मा रोदीस् । By  6-1-01 अकः सवर्णे दीर्घः। Note: By the वार्त्तिकम् (under 8-2-3) सिज्लोप एकादेशे सिद्धो वाच्यः – If a single substitute is to be done, then the elision of the affix सिँच् should be considered सिद्ध: (evident.) This वार्त्तिकम् allows 6-1-01 अकः सवर्णे दीर्घः to apply in spite of 8-2-1 पूर्वत्रासिद्धम्।
    = मा रोदीः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. In which तिङन्तं पदम् in the verses has the verbal root √इ (इण् गतौ २. ४०) been used?
    Answer: The verbal root √इ (इण् गतौ २. ४०) has been used in the form अन्वगात्

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    गा + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past. By 2-4-45 इणो गा लुङि – When the intention is to add the affix “लुँङ्”, there is a substitution of “गा” in the place of √इ (इण् गतौ २. ४०).
    = गा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = गा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गा + त् । By 3-4-100 इतश्‍च।
    = गा + च्लि + त् । By 3-1-43 च्लि लुङि।
    = गा + सिँच् + त् । By 3-1-44 च्लेः सिच्।
    = गा + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).
    Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.
    = अट् गा + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = अगात् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    “अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    अनु + अगात् = अन्वगात्। By 6-1-77 इको यणचि।

    6. How would you say this in Sanskrit?
    “Do not give this book to one who does not study grammar.” Use an appropriate form of the pronouns “यद्” and “तद्”। Use चतुर्थी विभक्तिः with “तद्”। Use √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१) with the उपसर्ग: “अधि” for “to study.”
    Answer: यः व्याकरणम् न अधीते तस्मै इदम् पुस्तकम् मा दाः = यो व्याकरणं नाधीते तस्मा इदं पुस्तकं मा दाः।

    Easy Questions:

    1. By which सूत्रम् does the verbal root √दा (डुदाञ् दाने ३. १०) get the घु-सञ्ज्ञा (required for applying the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु in step 8)?
    Answer: By the सूत्रम् 1-1-20 दाधा घ्वदाप् – The verbal roots having the form “दा” or “धा”, except √दाप् (लवने २. ५४) and √दैप् (शोधने १. १०७३), get the घु-सञ्ज्ञा।
    Note : The following 6 roots have the घु-सञ्ज्ञा । √दा (दाण् दाने १. १०७९) , √दा (डुदाञ् दाने ३. १०), √दो (दो अवखण्डने ४. ४३), √दे (देङ् रक्षणे १. १११७), √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११), √धे (धेट् पाने १. १०५०).

    The following verse illustrates this…
    देङ्-दाणौ दो-डुदाञौ च, धेट्-डुधाञावुभावपि ।
    पाणिनीये महातन्त्रे, प्रोक्ता घुसञ्ज्ञका अमी ।।

    2. Can you spot an augment “स्याट्” in the commentary?
    Answer: The augment “स्याट्” has been used in the form तस्याम् (सर्वनाम-प्रातिपदिकम् “तद्”, स्त्रीलिङ्गे सप्तमी-एकवचनम्)।

    तद् + ङि । By 4-1-2 स्वौजसमौट्छष्टा………।
    त अ + ङि । By 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
    = त + ङि । By 6-1-97 अतो गुणे।
    = त टाप् + ङि । Since we are deriving a feminine form, we have to add the प्रत्ययः “टाप्” to “त” using 4-1-4 अजाद्यतष्टाप्।
    = त आ + ङि । अनुबन्धलोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = ता + ङि । By 6-1-101 अकः सवर्णे दीर्घः।
    = ता + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा। Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, “आम्” is ङित् because it came in place of “ङि”।
    = त + स्याट् आम् । By 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च, the ङित् affixes that follow a सर्वनाम-शब्द: that ends in an आप् affix, get the स्याट् augment and the (अङ्गम् ending in) आप् is shortened. As per 1-1-46 आद्यन्तौ टकितौ, the augment स्याट् joins at the beginning of the प्रत्यय: “आम्”।
    = त + स्या आम् । अनुबन्धलोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = तस्याम् । By 6-1-101 अकः सवर्णे दीर्घः।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics