Home » 2012 » April » 24

Daily Archives: April 24, 2012

अस्राक्षीत् 3As-लुँङ्

Today we will look at the form अस्राक्षीत् 3As-लुँङ् from श्रीमद्भागवतम् 3.7.4.

अस्राक्षीद्भगवान्विश्वं गुणमय्याऽऽत्ममायया । तया संस्थापयत्येतद्भूयः प्रत्यपिधास्यति ।। ३-७-४ ।।
देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम् ।। ३-७-५ ।।

श्रीधर-स्वामि-टीका
यच्चोक्तं ‘स्मरन्विश्वसृजामीशो विज्ञापितमधोक्षजे’ इत्यादिनाऽविद्योपाधेर्जीवस्य भोगार्थमीश्वरः सृष्ट्यादि करोतीति तदप्याक्षेप्तुमनुवदति – अस्राक्षीदिति । गुणमयी आत्मनो जीवस्य कर्तृत्वभोक्तृत्वादिमोहोत्पादिका या माया तया सृष्टवान् । तदुक्तं प्रथमे ‘यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् ।। परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ।।’ इत्यादिना । अत्र च ‘अतो भगवतो माया मायिनामपि मोहिनी’ इति । संस्थापयति पालयति । प्रत्यपिधास्यति प्रातिलोम्येन तिरोहितं करिष्यति । पाठान्तरे प्रातिलोम्येनात्मन्यभितो धारयिष्यति ।। ४ ।। एतच्च जीवस्याविद्याश्रयत्वे घटेत, नतु तत्संभवतीत्याह – देशत इति । योऽसौ देशादिभिरविलुप्तावबोध आत्मा जीवः, ब्रह्मस्वरूपत्वात् । स कथमजयाऽविद्यया युज्येत । तत्र देशतो दीपप्रभाया इव लोपो नास्ति, सर्वगतत्वात् । न कालतः, विद्युत इव नित्यत्वात् । नावस्थातः, स्मृतिवदविक्रियत्वात्, न स्वतः, स्वप्नवत्सत्यत्वात् । नान्यतः, घटादिवदद्वितीयत्वात् । एवमेतैर्यस्य बोधो न लुप्यते स कथमजया युज्येत । अजा चात्राविद्यैव न माया, तस्या अवबोधेन विरोधाभावात् ।। ५ ।।

Gita Press translation – It was through his own Māyā, consisting of the three Guṇas (Sattva, Rajas and Tamas), that the Lord created the universe. Nay, it is through the same Māyā that He sustains it and shall finally withdraw it (4). How can He whose – knowledge – which is His very nature – is never obscured by space, time or circimstance either by itself or through any other external cause, be associated with Māyā? (5)

अस्राक्षीत् is derived from the धातुः √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०).
Note: There is also a धातुः √सृज् (दिवादि-गणः, सृजँ विसर्गे, धातु-पाठः #४. ७५)। But it is आत्मनेपदी and hence cannot be used in this example.

The ending अकार: (which is a इत्) of “सृजँ” has a उदात्त-स्वरः। Thus √सृज् (तुदादि-गणः) is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √सृज् (तुदादि-गणः) takes परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) सृज् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) सृज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) सृज् + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) सृज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) सृज् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) सृज् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) सृज् + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) सृज् + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(9) सृज् + स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
1-1-46 आद्यन्तौ टकितौ places the “ईट्”-आगमः at the beginning of the प्रत्ययः।

(10) सृज् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) सृ अम् ज् + स् + ईत् । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment “अम्”। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment “अम्” joins after the last vowel (ऋकार:) of the अङ्गम् “सृज्”।

(12) सृ अ ज् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(13) स्रज् + स् + ईत् । By 6-1-77 इको यणचि

(14) स्राज् + स् + ईत् । By 7-2-3 वदव्रजहलन्तस्याचः, a vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

(15) अट् स्राज् + स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(16) अ स्राज् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(17) अ स्रा ष् + स् + ईत् । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(18) अस्राक् + स् + ईत् । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(19) अस्राक्षीत् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In which two consecutive verses of the गीता has √सृज् been used in a तिङन्तं पदम्?

2. Where has विधि-लिँङ् been used in the verses?

3. Where has विधि-लिँङ् been used in the commentary?

4. Which सूत्रम् is used for the “पुक्”-आगमः in the form संस्थापयति?

5. In which two words in the commentary has the affix “उ” (ref: 3-1-79 तनादिकृञ्भ्य उः) been used?

6. How would you say this in Sanskrit?
“The little girl cried for no reason.” Paraphrase this to “Without reason, the little girl shed tears.” Use √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०) for “to shed” and the स्त्रीलिङ्ग-प्रातिपदिकम् “बालिका” for “little girl.”

Easy Questions:

1. In which word in the verses has the प्रातिपदिकम् “अदस्” been used?

2. In which three words in the verses has the सूत्रम् 7-3-105 आङि चापः been used?

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics