Today we will look at the form हिंस्यात् 3As-विधिलिँङ् from श्रीमद्भागवतम् Sb6.18.47
श्रीकश्यप उवाच
न हिंस्याद्भूतजातानि न शपेन्नानृतं वदेत् ।
न छिन्द्यान्नखरोमाणि न स्पृशेद्यदमङ्गलम् ।। ६-१८-४७ ।।
Gita Press translation Kaśyapa said : “A woman observing this vow must not injure (much less kill any one of) the multitudes of living beings nor curse any one nor should she tell a lie. She must not pare her nails or cut the hair on her person nor should she touch that which is impure.”
हिंस्यात् is derived from the धातुः √हिन्स् (रुधादि-गणः, हिसिँ हिंसायाम्, धातु-पाठः # ७. १९)
The इकारः at the end of “हिसिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित् and by 7-1-58 इदितो नुम् धातोः, it gets the नुँम्-आगमः।
हिसिँ = हिस् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= हि नुँम् स् । 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
= हि न् स् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्।
= हिन्स् ।
The ending इकारः of “हिसिँ” has a उदात्त-स्वरः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √हिन्स्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √हिन्स्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोगः।
The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।
(1) हिन्स् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.
(2) हिन्स् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) हिन्स् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
(4) हिन्स् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
(5) हिन्स् + त् । 3-4-100 इतश्च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.
(6) हिन्स् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः at the beginning of the प्रत्यय:।
(7) हिन्स् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
(8) हि श्नम् न्स् + यास् त् । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (इकार:) of the अङ्गम् “हिस्”।
This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप् ।
Note: The purpose of the शकार: (which is an इत् by 1-3-8) in “श्नम्” is in order for पाणिनि: to be able to refer specifically to this प्रत्यय: in rules such as 6-4-23, 6-4-111 etc. It is not for getting the सार्वधातुक-सञ्ज्ञा (by 3-4-113.) Since this प्रत्यय: does not follow the अङ्गम् (it is placed inside the अङ्गम् as per 1-1-47), it cannot act on the अङ्गम् and hence no purpose would be served by assigning the सार्वधातुक-सञ्ज्ञा।
(9) हिनन्स् + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
(10) हिनस् + यास् त् । By 6-4-23 श्नान्नलोपः, a नकारः is elided when it follows the श्नम्-प्रत्ययः।
(11) हिनस् + या त् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.
(12) हिन् स् + या त् । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: “श्न” refers to the “श्नम्”-प्रत्यय: (ref. 3-1-78 रुधादिभ्यः श्नम्)।
(13) हिंस्यात् । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.
Questions:
1. Where has 6-4-23 श्नान्नलोपः (used in step 10 of this example) been used in the last ten verses of Chapter Thirteen of the गीता?
2. In the verse, where else (besides in हिंस्यात्) has 3-1-78 रुधादिभ्यः श्नम् been used?
3. Can you spot a “इय्”-आदेश: in the verse?
4. In commenting on the सूत्रम् 8-3-24 नश्चापदान्तस्य झलि, the काशिका says – अपदान्तस्य इति किम्? राजन् भुङ्क्ष्व। Please explain.
5. How would you say this in Sanskrit?
“One should not curse anyone.” Use a word from the verse for “one should curse.”
6. How would you say this in Sanskrit?
“Why did you hurt me?” Use the अव्ययम् “कस्मात्” for “why” and use the same धातु: as in this example for “to hurt.”
Easy questions:
1. Can you spot a “शि”-आदेश: in the verse?
2. In how many places in the verse has 8-4-45 यरोऽनुनासिकेऽनुनासिको वा been used?
Questions:
1. Where has 6-4-23 श्नान्नलोपः (used in step 10 of this example) been used in the last ten verses of Chapter Thirteen of the गीता?
Answer: 6-4-23 श्नान्नलोपः has been used in the form हिनस्ति derived from the धातुः √हिन्स् (रुधादि-गणः, हिसिँ हिंसायाम्, धातु-पाठः # ७. १९).
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् |
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् || 13-29||
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
हिन्स् + लँट् । By 3-2-123 वर्तमाने लट्।
= हिन्स् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हिन्स् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= हिन्स् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हि श्नम् न्स् + ति । By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात्परः।
= हिनन्स् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= हिनस् + ति । By 6-4-23 श्नान्नलोपः, a नकारः is elided when it follows the श्नम्-प्रत्ययः।
= हिनस्ति।
2. In the verse, where else (besides in हिंस्यात्) has 3-1-78 रुधादिभ्यः श्नम् been used?
Answer: 3-1-78 रुधादिभ्यः श्नम् has been used in the form छिन्द्यात्। छिन्द्यात् is derived from the verbal root √छिद् (रुधादि-गणः, छिदिँर् द्वैधीकरणे, धातु-पाठः #७. १०९२).
The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “तिप्”।
By the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या, “इर्” of “छिदिँर्” gets the इत्-सञ्ज्ञा ।
छिद् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= छिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= छिद् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= छिद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= छिद् + त् । 3-4-100 इतश्च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.
= छिद् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ ।
= छिद् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= छि श्नम् द् + यास् त् । By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात्परः।
= छि न द् + यास् त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= छि न् द् + यास् त् । 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्। Note: यासुट् is a ङित् (by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च)। This allows 6-4-111 to apply.
= छिन्द्+ या त् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= छिन्द्यात्।
3. Can you spot a “इय्”-आदेश: in the verse?
Answer: “इय्”-आदेश: is seen in the word वदेत् derived from the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४). Since the विवक्षा is विधिलिँङ्, प्रथम-पुरुष-एकवचनम्, the प्रत्यय: is “तिप्”।
वद् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= वद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= वद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= वद् + त् । By 3-4-100 इतश्च।
= वद् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
= वद् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= वद् + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
= वद् + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= वद + इय् त् । “इय्”-आदेश: by 7-2-80 अतो येयः, when “यास्” of a सार्वधातुक-प्रत्ययः follows an अङ्गम् ending in a अकारः, then it is substituted by “इय्”।
= वद इ त् । By 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।
= वदेत् । By 6-1-87 आद्गुणः ।
4. In commenting on the सूत्रम् 8-3-24 नश्चापदान्तस्य झलि, the काशिका says – अपदान्तस्य इति किम्? राजन् भुङ्क्ष्व। Please explain.
Answer: “अपदान्तस्य इति किम्? राजन् भुङ्क्ष्व” means why अपदान्तस्य is used in the सूत्रम् 8-3-24 नश्चापदान्तस्य झलि। अपदान्तस्य is used in 8-3-24 so that for example in the सन्धि-कार्यम् between राजन् and भुङ्क्ष्व the नकारः at the end of (हे) राजन् does not get अनुस्वारः as replacement even though a झल् letter (भकारः in this case) follows because “राजन्” has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
5. How would you say this in Sanskrit?
“One should not curse anyone.” Use a word from the verse for “one should curse.”
Answer: न कम् अपि शपेत् = न कमपि शपेत्।
6. How would you say this in Sanskrit?
“Why did you hurt me?” Use the अव्ययम् “कस्मात्” for “why” and use the same धातु: as in this example for “to hurt.”
Answer: कस्मात् माम् अहिन: = कस्मान्मामहिन:।
Easy questions:
1. Can you spot a “शि”-आदेश: in the verse?
Answer: “शि”-आदेश: is seen in भूतजातानि (द्वितीया-बहुवचनम् from the नपुंसकलिङ्ग-प्रातिपदिकम् “भूतजात”।)
भूतजात + शस् । 4-1-2 स्वौजसमौट्छष्टा………….।
= भूतजात + शि । “शि”-आदेश: by 7-1-20 जश्शसोः शिः, the affixes “जस्” and “शस्” get “शि” as the replacement when they follow a neuter अङ्गम्। “शि” gets सर्वनामस्थानसञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम् ।
= भूतजात + इ । शकार: gets इत्सञ्ज्ञा by 1-3-8 लशक्वतद्धिते and takes लोपः by 1-3-9 तस्य लोपः।
= भूतजातनुँम् + इ । 7-1-72 नपुंसकस्य झलचः, 1-1-47 मिदचोऽन्त्यात्परः।
= भूतजातन् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।
= भूतजातान् + इ । 6-4-8 सर्वनामस्थाने चासम्बुद्धौ।
= भूतजातानि।
2. In how many places in the verse has 8-4-45 यरोऽनुनासिकेऽनुनासिको वा been used?
Answer: 8-4-45 यरोऽनुनासिकेऽनुनासिको वा has been used in the सन्धि-कार्यम् between
(i) शपेत् + न and (ii) छिन्द्यात् + नखरोमाणि ।
शपेत् + न ।
शपेद् + न । 8-2-39 झलां जशोऽन्ते।
शपेन्न । 8-4-45 यरोऽनुनासिकेऽनुनासिको वा, when a nasal sound follows, then a यर् letter at the end of a पदम् is optionally substituted by a nasal. (Even though the rule is optional, as a convention it is always followed in classical Sanskrit.)
Similar steps for छिन्द्यात् + नखरोमाणि = छिन्द्यान्नखरोमाणि।