Home » Example for the day » योगिनः mNp

योगिनः mNp

Today we will look at the form योगिनः mNp from श्रीमद्भागवतम् 9.11.22.

यस्यामलं नृपसदस्सु यशोऽधुनापि गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् । तं नाकपालवसुपालकिरीटजुष्टपादाम्बुजं रघुपतिं शरणं प्रपद्ये ।। ९-११-२१ ।।
स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा । कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः ।। ९-११-२२ ।।

श्रीधर-स्वामि-टीका
एवंविधलीलाप्रयोजनं दर्शयन्प्रणमति – यस्य यशो नृपाणां युधिष्ठिरादीनां सदस्सु ऋषयो मार्कण्डेयादयो गायन्ति । दिगिभेन्द्राणां पट्टवदाभरणरूपम् । तत्पर्यन्तं व्याप्तमित्यर्थः । नाकपाला देवाः । वसुपाला वसुधापालाश्च तेषां किरीटैर्जुष्टं पादाम्बुजं यस्य तं रघुपतिम् । पाठान्तरे तत्तस्य रघुपतेर्नाकपालादिभिर्जुष्टं पादाम्बुजं प्रपद्य इत्यर्थः ।। २१ ।। रामः संविष्ट उपवेशितोऽनुगतो वा यैस्ते कोशलदेशवासिनः सर्वेऽपि यत्र योगिनो गच्छन्तित्स्थानं ययुः ।। २२ ।।

Gita Press translation – I seek as my protector the aforesaid Lord of Raghus, whose unsullied glory – which is capable of destroying (all) sins and serves as an adornment for the elephants guarding the (four) quarters (pervades all the quarters) – sages sing in royal courts even to this day, and whose lotus-feet are touched by the crowns of (even) rulers of heaven (like Indra) and custodians of wealth (like Kubera, the god of riches) (21). (All) those people of the Kosala country by whom He was lovingly touched or fully observed or seated by their side or even followed (while moving about) reached the goal which Yogīs (those adept in Yoga or deep meditation) attain to (22).

युज्यते युनक्ति/युङ्क्ते वा तच्छील:/तद्धर्मा/तत्साधुकारी = योगी । ते योगिन: ।

The प्रातिपदिकम् ‘योगिन्’ is derived from the verbal root √युज् (युजँ समाधौ ४. ७४, युजिँर् योगे ७. ७).

(1) युज् + घिनुँण् । By 3-2-142 संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च – Following any one of the verbal roots listed below, the affix ‘घिनुँण्’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill –
(i) सम् + √पृच् (पृचीँ सम्पर्के ७. २५)
(ii) अनु + √रुध् (रुधिँर् आवरणे ७. १)
(iii) आङ् (आ) + √यम् (यमँ उपरमे १. ११३९)
(iv) आङ् (आ) + √यस् (यसुँ प्रयत्ने ४. १०७)
(v) परि + √सृ (सृ गतौ १. १०८५)
(vi) सम् + √सृज् (सृजँ विसर्गे ६. १५०)
(vii) परि + √देव् (देवृँ देवने १. ५७३)
(viii) सम् + √ज्वर् (ज्वरँ रोगे १. ८८५)
(ix) परि + √क्षिप् (क्षिपँ प्रेरणे ४. १५, ६. ५)
(x) परि + √रट् (रटँ परिभाषणे १. ३३४)
(xi) परि + √वद् (वदँ व्यक्तायां वाचि १. ११६४)
(xii) परि + √दह् (दहँ भस्मीकरणे १. ११४६)
(xiii) परि + √मुह् (मुहँ वैचित्ये ४. ९५)
(xiv) √दुष् (दुषँ वैकृत्ये ४. ८२)
(xv) √द्विष् (द्विषँ अप्रीतौ २. ३)
(xvi) √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४)
(xvii) √दुह् (दुहँ प्रपूरणे २. ४)
(xviii) √युज् (युजँ समाधौ ४. ७४, युजिँर् योगे ७. ७)
(xix) आङ् (आ) + √क्रीड् (क्रीडृँ विहारे १. ४०५)
(xx) वि + √विच् (विचिँर् पृथग्भावे ७. ५)
(xxi) √त्यज् (त्यजँ हानौ १. ११४१)
(xxii) √रञ्ज् (रञ्जँ रागे १. ११५४, ४. ६३). Note: ‘रज’ इति निर्देशान्नलोप:।
(xxiii) √भज् (भजँ सेवायाम् १. ११५३)
(xxiv) अति + √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०)
(xxv) अप + √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०)
(xxvi) आङ् (आ) + √मुष् (मुषँ स्तेये ९. ६६)
(xxvii) अभि + आङ् (आ) + √हन् (हनँ हिंसागत्योः #२. २)

(2) युज् + इन् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) योज् + इन् । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः। or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

(4) योग् + इन् । By 7-3-52 चजोः कु घिण्ण्यतोः – A चकारः or a जकारः is replaced by a letter of the क-वर्गः when followed by either –
i) an affix which has घकारः as a इत् or
ii) the affix ण्यत्।

= योगिन् ।

‘योगिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-बहुवचनम्

(5) योगिन् + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) योगिन् + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting इत्-सञ्ज्ञा।

(7) योगिनः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the last verse of which chapter of the गीता has the प्रातिपदिकम् ‘योगिन्’ been used?

2. Which वार्तिकम् may we use to justify the use of the affix ‘क’ in the प्रातिपदिकम् ‘अघघ्न’?

3. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the commentary?

4. Can you spot the substitution ‘शतृँ’ in the commentary?

5. Which सूत्रम् prescribes the णकारादेश: in the form प्रणमति (used in the commentary)?

6. How would you say this in Sanskrit?
“A Yogī should avoid the company of women.” Use the masculine noun ‘सङ्ग’ for ‘company’ and the verbal root √वृज् (वृजीँ वर्जने १०. ३४४) for ‘to avoid.’

Easy questions:

1. Can you spot the augment ‘तुँक्’ in the verses?

2. From which verbal root is गायन्ति derived?


1 Comment

  1. 1. In the last verse of which chapter of the गीता has the प्रातिपदिकम् ‘योगिन्’ been used?
    Answer: The प्रातिपदिकम् ‘योगिन्’ has been used in the last verse of the following chapters:

    योगिनामपि सर्वेषां मद्‌गतेनान्तरात्मना |
    श्रद्धावान्भजते यो मां स मे युक्ततमो मतः || 6-47||
    The विवक्षा is पुंलिङ्गे षष्ठी-बहुवचनम्।

    वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्‌ |
    अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्‌ || 8-28||
    Here the विवक्षा is  पुंलिङ्गे प्रथमा-एकवचनम्।

    2. Which वार्तिकम् may we use to justify the use of the affix ‘क’ in the प्रातिपदिकम् ‘अघघ्न’?
    Answer: The use of the affix ‘क’ in the प्रातिपदिकम् ‘अघघ्न’ is justified by the वार्तिकम् (under 3-2-5 तुन्दशोकयोः परिमृजापनुदोः) मूलविभुजादिभ्यः कः – The affix “क” may be used to derive forms such as “मूलविभुज”।
    Note: The मूलविभुजादि-गण: is a आकृति-गण:। The members of this गण: have not been explicitly listed. When we see a शिष्ट-प्रयोगः (usage accepted by the scholars) such as “अघघ्न” wherein the grammatical operations (based on the affix “क”) are similar to those in “मूलविभुज” we have to understand that this usage is included in the मूलविभुजादि-गण:।

    अघं हन्तीति अघघ्नः।

    The derivation of the प्रातिपदिकम् ‘अघघ्न’ is similar to the derivation of the प्रातिपदिकम् ‘शत्रुघ्न’ as shown in the following post – http://avg-sanskrit.org/2012/10/15/शत्रुघ्नः-mns/

    3. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the commentary?
    Answer: The सूत्रम् 6-4-52 निष्ठायां सेटि has been used in the form उपवेशितः derived from the verbal root √विश् (विशँ प्रवेशने ६. १६०) along with the उपसर्गः “उप”।

    उप विश् + णिच् । By 3-1-26 हेतुमति च।
    = उप विश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = उप वेश् + इ । By 7-3-86 पुगन्तलघूपधस्य च।
    = उपवेशि । ‘उपवेशि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    उपवेशि + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = उपवेशि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = उपवेशि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = उपवेशि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = उपवेश् + इत । By 6-4-52 निष्ठायां सेटि – The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।
    = उपवेशित ।

    ‘उपवेशित’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    उपवेशित + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = उपवेशित + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = उपवेशितः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Can you spot the substitution ‘शतृँ’ in the commentary?
    Answer: The affix ‘शतृँ’ has been used in the derivation of the प्रातिपदिकम् ‘दर्शयत्’ in the form दर्शयन्।

    The प्रातिपदिकम् ‘दर्शयत्’ is derived from the causative form of the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
    दृश् + णिच् । By 3-1-26 हेतुमति च।
    = दृश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = दर्श् + इ । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    = दर्शि । ‘दर्शि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    = दर्शि + लँट् । By 3-2-123 वर्तमाने लट्।
    = दर्शि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दर्शि + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दर्शि + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = दर्शि + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = दर्शि + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = दर्शे + अ + अत् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = दर्शय् + अ + अत् = दर्शय + अत् । By 6-1-78 एचोऽयवायावः।
    = दर्शयत् । By 6-1-97 अतो गुणे। ‘दर्शयत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The derivation of the form दर्शयन् from the प्रातिपादिकम् ‘दर्शयत्’ is similar to the derivation of विदन् from the प्रातिपादिकम् ‘विदत्’ shown in answer to question 2 in the following comment –
    http://avg-sanskrit.org/2012/12/31/विद्वान्-mns/#comment-12135

    5. Which सूत्रम् prescribes the णकारादेश: in the form प्रणमति (used in the commentary)?
    Answer: The सूत्रम् 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य prescribes the णकारादेश: in the form प्रणमति derived from नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) with the उपसर्ग: ‘प्र’।
    Please see answer to question 4 in the following for the derivation – http://avg-sanskrit.org/2012/07/11/दिदृक्षूणाम्-mgp/#comment-3996

    6. How would you say this in Sanskrit?
    “A Yogī should avoid the company of women.” Use the masculine noun ‘सङ्ग’ for ‘company’ and the verbal root √वृज् (वृजीँ वर्जने १०. ३४४) for ‘to avoid.’
    Answer: योगी स्त्रीणाम् सङ्गम् वर्जयेत् = योगी स्त्रीणां सङ्गं वर्जयेत्।

    Easy questions:

    1. Can you spot the augment ‘तुँक्’ in the verses?
    Answer: An augment ‘तुँक्’ is seen in the form गच्छन्ति derived from √गम् (गमॢँ गतौ १. ११३७).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    गम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गम् + शप् + झि । By 3-1-68 कर्तरि शप्‌।
    = गम् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गछ् + अ + झि । By 7-3-77 इषुगमियमां छः, 1-1-52 अलोऽन्त्यस्य।
    = गछ् + अ + अन्ति । By 7-1-3 झोऽन्तः।
    = गछ् + अन्ति । By 6-1-97 अतो गुणे।
    = गतुँक् छ् + अन्ति । By 6-1-73 छे च – A short vowel (ह्रस्वः) gets the ‘तुँक्’-आगमः when a छकारः follows in संहितायाम् (continuous speech.) As per 1-1-46 आद्यन्तौ टकितौ, the ‘तुँक्’-आगमः attaches after the short vowel (in this case the अकारः in ‘ग’)।
    = गत् छन्ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गच्छन्ति । By 8-4-40 स्तोः श्चुना श्चुः।

    2. From which verbal root is गायन्ति derived?
    Answer: The form गायन्ति is derived from the verbal root √गै (शब्दे १. १०६५).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    गै + लँट् । By 3-2-123 वर्तमाने लट्।
    = गै + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गै + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गै + शप् + झि । By 3-1-68 कर्तरि शप्‌।
    = गै + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गै + अ + अन्ति । By 7-1-3 झोऽन्तः।
    = गाय् + अ + अन्ति । By 6-1-78 एचोऽयवायावः।
    = गायन्ति । By 6-1-97 अतो गुणे।

Leave a comment

Your email address will not be published.

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics