Today we will look at the form चिन्तनीयः mNs from श्रीमद्भागवतम् 8.11.38.
मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः । अतोऽन्यश्चिन्तनीयस्त उपायो मघवन् रिपोः ॥ ८-११-३८ ॥
तां दैवीं गिरमाकर्ण्य मघवान्सुसमाहितः । ध्यायन्फेनमथापश्यदुपायमुभयात्मकम् ॥ ८-११-३९ ॥
न शुष्केण न चार्द्रेण जहार नमुचेः शिरः । तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन्विभुम् ॥ ८-११-४० ॥
श्रीधर-स्वामि-टीका –
आर्द्रशुष्काभ्यां मृत्युर्नैवेति ॥ ३८ ॥ ॥ ३९ ॥ उभयात्मकत्वमेवाह – न शुष्केण न चार्द्रेण फेनेन । तथा च श्रुतिः – ‘अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयत्’ इति ॥ ४० ॥
Gita Press translation – “A boon has been conferred on him by Me to the effect that death will surely not come to him through any wet or dry substance. Hence any other contrivance should be thought of by you for (the death of) this enemy, O Maghavā (Indra)!” (38) Hearing that ethereal voice, Indra fully composed his mind and contemplated; and presently he discovered a means in the shape of foam (of the sea), which combined both (the aforesaid) attributes (and could not therefore be called exclusively dry or wet) (39). With that foam, which was neither dry nor wet, he severed the head of Namuci; (and) hosts of sages glorified him and showered flowers on the mighty Indra (40).
“चिन्तनीय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √चिन्त् (चुरादि-गणः, चितिँ स्मृत्याम्, धातु-पाठः # १०. २)
The इकारः at the end of “चितिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्।
(1) चितिँ = चित् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
(2) चि नुँम् त् । By 7-1-58 इदितो नुम् धातोः – A धातुः which has इकारः as an इत् gets the नुँम्-आगमः। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the इकार:) of the अङ्गम् “चित्”।
(3) चिन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(4) चिन्त् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।
(5) चिन्त् + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
“चिन्ति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
(6) चिन्ति + अनीयर् । By 3-1-96 तव्यत्तव्यानीयरः – The affixes “तव्यत्”, “तव्य” and “अनीयर्” may be used after a verbal root. Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).
(7) चिन्ति + अनीय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
Note: “अनीय” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
(8) चिन्त् + अनीय । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।
“चिन्तनीय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
(9) चिन्तनीय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
(10) चिन्तनीय + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
(11) चिन्तनीयः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
Questions:
1. In which verse in Chapter Ten of the गीता has the verbal root √चिन्त् (चितिँ स्मृत्याम् १०. २) been used with a कृत्य-प्रत्ययः?
2. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?
3. In the verses can you spot a तिङन्तं पदम् derived from a verbal root ending in a ॠकारः?
4. How would you say this in Sanskrit?
“You should think of the answer to this question.” Paraphrase this to “The answer to this question should be thought of by you.”
5. How would you say this in Sanskrit?
“The purpose of this question ought to be known.”
6. How would you say this in Sanskrit?
“This question itself is questionable (to be thought over.)”
Easy Questions:
1. What would be an alternate form for मघवान् (पुंलिङ्ग-प्रातिपदिकम् “मघवन्”, प्रथमा-एकवचनम्)?
2. Can you recall two सूत्रे in which पाणिनिः specifically mentions the प्रातिपदिकम् “मघवन्”?
1. In which verse in Chapter Ten of the गीता has the verbal root √चिन्त् (चितिँ स्मृत्याम् १०. २) been used with a कृत्य-प्रत्ययः?
Answer: The verbal root √चिन्त् (चितिँ स्मृत्याम् १०. २) has been with a कृत्य-प्रत्ययः in the form चिन्त्यः।
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ 10-17 ॥
The इकारः at the end of “चितिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्।
चितिँ = चित् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= चि नुँम् त् । By 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
= चिन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= चिन्त् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
= चिन्त् + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
“चिन्ति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
चिन्ति + यत् । By 3-1-97 अचो यत् – The affix यत् may be used following a verbal root ending in a vowel.
= चिन्ति + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= चिन्त् + य । By 6-4-51 णेरनिटि।
“चिन्त्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
चिन्त्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= चिन्त्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= चिन्त्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?
Answer: The सूत्रम् 7-4-61 शर्पूर्वाः खयः has been used in the form तुष्टुवुः derived from the धातुः √स्तु (ष्टुञ् स्तुतौ, अदादि-गणः, धातु-पाठः #२. ३८). The beginning षकार: of “ष्टुञ्” is replaced by a सकार: as per 6-1-64 धात्वादेः षः सः and then the टकार: reverts to a तकार: as per the परिभाषा – निमित्तापाये नैमित्तिकस्याप्यपाय:। The ending ञकार: of “ष्टुञ्” is a इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
स्तु + लिँट् । By 3-2-115 परोक्षे लिँट् ।
= स्तु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= स्तु + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= स्तु + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा। Note: As per 1-2-5 असंयोगाल्लिट् कित्, “उस्” is कित् here. This allows 1-1-5 क्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः।
= स्तु स्तु + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ।
= तु स्तु + उस् । By 7-4-61 शर्पूर्वाः खयः, if a अभ्यास: begins with a शर्-खय् conjunct (a conjunct whose first letter belongs to the शर्-प्रत्याहार: and second letter belongs to the खय्-प्रत्याहार:) then the खय् letter is retained and all other consonants of the अभ्यास: take लोप:। Note: 7-4-61 शर्पूर्वाः खयः is a अपवाद: (exception) to 7-4-60 हलादिः शेषः।
= तु स्त् उवँङ् + उस् । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ।
= तु स्तुव् + उस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= तुस्तुवुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
= तु ष् तुवुः । By 8-3-59 आदेशप्रत्यययो:।
= तुष्टुवुः । By 8-4-41 ष्टुना ष्टुः।
3. In the verses can you spot a तिङन्तं पदम् derived from a verbal root ending in a ॠकारः?
Answer: The form अवाकिरन् is derived from √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५).
The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
= कॄ + लँङ् । By 3-2-111 अनद्यतने लङ्।
= कॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कॄ + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= कॄ + झ् । By 3-4-100 इतश्च।
= कॄ + श + झ् । By 3-1-77 तुदादिभ्यः शः।
= कॄ + अ + झ् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 क्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः।
= किर् + अ + झ् । By 7-1-100 ॠत इद्धातोः, 1-1-51 उरण् रपरः।
= किर् + अ + अन्त् । By 7-1-3 झोऽन्तः।
= किरन्त् । By 6-1-97 अतो गुणे।
= अट् किरन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
= अकिरन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= अकिरन् । By 8-2-23 संयोगान्तस्य लोपः।
“अव” has been used as a उपसर्ग: (ref: 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अव + अकिरन् = अवाकिरन् । By 6-1-101 अकः सवर्णे दीर्घः।
4. How would you say this in Sanskrit?
“You should think of the answer to this question.” Paraphrase this to “The answer to this question should be thought of by you.”
Answer: त्वया अस्य प्रश्नस्य उत्तरम् चिन्तनीयम् = त्वयास्य प्रश्नस्योत्तरं चिन्तनीयम्।
5. How would you say this in Sanskrit?
“The purpose of this question ought to be known.”
Answer: अस्य प्रश्नस्य प्रयोजनम् ज्ञातव्यम्/ज्ञानीयम्/ज्ञेयम् = अस्य प्रश्नस्य प्रयोजनं ज्ञातव्यम्/ज्ञानीयम्/ज्ञेयम्।
6. How would you say this in Sanskrit?
“This question itself is questionable (to be thought over.)”
Answer: अयम् प्रश्नः एव चिन्त्यः = अयं प्रश्न एव चिन्त्यः।
Easy Questions:
1. What would be an alternate form for मघवान् (पुंलिङ्ग-प्रातिपदिकम् “मघवन्”, प्रथमा-एकवचनम्)?
Answer: An alternate form for मघवान् is मघवा।
मघवन् + सुँ । By 4-1-2 स्वौजसमौट्…। Here “सुँ” has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
= मघवन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= मघवान् + स् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ।
= मघवान् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “मघवान्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
= मघवा । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।
Note: The detailed derivation of the alternate form मघवान् is given in the following post – http://avg-sanskrit.org/2010/12/26/मघवान्-mns/
2. Can you recall two सूत्रे in which पाणिनिः specifically mentions the प्रातिपदिकम् “मघवन्”?
Answer: पाणिनिः mentions the प्रातिपदिकम् “मघवन्” in
i) 6-4-128 मघवा बहुलम् – “मघवन्” gets “तृँ” as a replacement optionally.
ii) 6-4-133 श्वयुवमघोनामतद्धिते – The “अन्” ending “श्वन्”, “युवन्” and “मघवन्”, which have the भ-सञ्ज्ञा, take सम्प्रसारणम् when followed by an affix which is not a तद्धितः।