Home » Example for the day » अभूवन् 3Ap-लुँङ्

अभूवन् 3Ap-लुँङ्

Today we will look at the form अभूवन् 3Ap-लुँङ् from श्रीमद्भागवतम् 10.42.24.

गोप्यो मुकुन्दविगमे विरहातुरा या आशासताशिष ऋता मधुपुर्यभूवन् । सम्पश्यतां पुरुषभूषणगात्रलक्ष्मीं हित्वेतरान्नु भजतश्चकमेऽयनं श्रीः ।। १०-४२-२४ ।।
अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् । ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ।। १०-४२-२५ ।।

श्रीधर-स्वामि-टीका
मुकुन्दस्य विगमे व्रजान्निर्गमनसमये या आशिष आशासत – ‘सुखं प्रभाता रजनीयम्’, ‘अद्य ध्रुवं तत्र दृशो भविष्यते’ इत्यादि यदुक्तवत्यस्ता ऋताः सत्या बभूवुः । पुरुषभूषणस्य श्रीकृष्णस्य गात्रस्य देहस्य लक्ष्मीं शोभाम् । कथंभूतस्य गात्रस्य । नु अहो इतरान्ब्रह्मादीन् हित्वादयनमाश्रयं श्रीः कामयामास । यां गात्रलक्ष्मीमिति वा ।। २४ ।। अवनिक्तं क्षालितमङ्घ्रियुगलं ययोस्तौ । क्षीरमिश्रमन्नं भुक्त्वा सुखं न्यवसताम् ।। २५ ।।

Gita Press translation “In the case of those who gazed in Mathurā (the city founded by the demon Madhu) on the elegance of the personality of Śrī Kṛṣṇa (the Jewel among men) – which lo! Śrī (the goddess of beauty and prosperity) coveted as Her abode, leaving (all) others who sought Her – the predictions that the cowherd women, afflicted at the thought of their separation (from Śrī Kṛṣṇa), had made at the time of departure (from Vraja) of Śrī Kṛṣṇa came to be (literally) true. (24) With Their feet duly washed and partaking of rice cooked in milk (with sugar), and having come to know what Kaṁsa intended to do (the next day), the two Brothers passed that night happily.”

अभूवन् is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) भू + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

See question 2.

(4) भू + झ् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) भू + च्लि + झ् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) भू + सिँच् + झ् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(7) भू + झ् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).

Note: By 1-2-4 सार्वधातुकमपित्, the affix “झ्” becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। This allows 1-1-5 क्क्ङिति च to prohibit 7-3-84 सार्वधातुकार्धधातुकयोः

(8) भू + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) भू वुक् + अन्त् । By 6-4-88 भुवो वुग्लुङ्लिटोः, “भू” gets the augment “वुक्” when a vowel-beginning affix of लुँङ् or लिँट् follows.

(10) भू व् + अन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “वुक्” is उच्चारणार्थ: (for pronunciation only.)

(11) अट् भू व् + अन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(12) अभूवन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(13) अभूवन् । By 8-2-23 संयोगान्तस्य लोपः

Questions:

1. Where has लुँङ् been used for the first time in the गीता?

2. Why doesn’t the सूत्रम् 3-4-109 सिजभ्यस्तविदिभ्यश्च  apply in this example?

3. Can you identify where the वुक्-आगमः has been used in the commentary?

4. Is there an alternate form for the word चकमे (in the verses)?

5. Where has the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति been used in a तिङन्तं पदम् in the verses?

6. Use some words from the verses/commentary to construct the following sentence in Sanskrit:
“All your blessings came to be true.”

Easy Questions:

1. Along with the  स्त्रीलिङ्ग-प्रातिपदिकम् “श्री” used in the form श्रीः, there are a few other ईकारान्त-स्त्रीलिङ्ग-प्रातिपदिकानि that do not allow सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Please list them.

2. Where has the सूत्रम् 7-2-110 यः सौ been used in the commentary?


1 Comment

  1. 1. Where has लुँङ् been used for the first time in the गीता?
    Answer: लुँङ् been used for the first time in verse 3 of Chapter 2 in the form मा स्म गमः derived from √गम् (गमॢँ गतौ १. ११३७).
    क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
    क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ।। 2-3 ।।

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    माङ् स्म गम् + लुँङ् । By 3-3-176 स्मोत्तरे लङ् च – The affix “लँङ्” as well as “लुँङ्” is to be used after a verbal root when used in connection with “माङ्” followed by “स्म”।
    = मा स्म गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा स्म गम् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = मा स्म गम् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा स्म गम् + स् । By 3-4-100 इतश्च।
    = मा स्म गम् + च्लि + स् । By 3-1-43 च्लि लुङि।
    = मा स्म गम् + अङ् + स् । By 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु – When a परस्मैपदम् affix follows, the affix “च्लि” is replaced by “अङ्” when following either –
    i) a verbal root from the section beginning with √पुष् (पुषँ पुष्टौ ४. ७९) up to the end of the दिवादि-गणः। or
    ii) a verbal root from the section beginning with √द्युत् (द्युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६)। or
    iii) a verbal root which is ऌदित् (which has ऌकारः as a इत्)।
    = मा स्म गम् + अ + स् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = मा स्म गमः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Why doesn’t the सूत्रम् 3-4-109 सिजभ्यस्तविदिभ्यश्च  apply in this example?
    Answer: The सूत्रम् 3-4-109 सिजभ्यस्तविदिभ्यश्च does not apply here because of the नियम-सूत्रम् 3-4-110 आतः – When the affix “सिँच्” has taken the “लुक्” elision, the substitution (by 3-4-109) of “जुस्” in place of the affix “झि” shall take place only following a verbal root ending in a आकार:। In the present example we do not have a verbal root ending in a आकारः and hence 3-4-109 does not apply.

    3. Can you identify where the वुक्-आगमः has been used in the commentary?
    Answer: The वुक्-आगमः has been used in the form बभूवुः derived from √भू (भू सत्तायाम् १. १).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    भू + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भू + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “उस्” from getting the इत्-सञ्ज्ञा।
    = भू वुक् + उस् । By 6-4-88 भुवो वुग्लुङ्लिटोः, “भू” gets the augment “वुक्” when a vowel-beginning affix of लुँङ् or लिँट् follows.
    = भू व् + उस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: The उकार: in “वुक्” is उच्चारणार्थ: (for pronunciation only.)
    = भूव् भूव् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = भू भूव् + उस् । By 7-4-60 हलादिः शेषः।
    = भु भूव् + उस् । By 7-4-59 ह्रस्वः।
    = भ भूव् + उस् । By 7-4-73 भवतेरः।
    = भ भूव् + उः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = बभूवुः । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    4. Is there an alternate form for the word चकमे (in the verses)?
    Answer: The alternate forms are कामयाञ्चक्रे, कामयाम्बभूव and कामयामास derived from √कम् (कमुँ कान्तौ १. ५११) when the affix णिङ् (optionally prescribed by 3-1-30 कमेर्णिङ् and 3-1-31 आयादय आर्धधातुके वा) is added to √कम्। In the form चकमे the optional affix णिङ् affix is not added.

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    कम् + णिङ् । By 3-1-30 कमेर्णिङ् – The affix णिङ् comes after the धातुः √कम् (कमुँ कान्तौ १. ५११). By 3-1-31 आयादय आर्धधातुके वा – When the intention is to add a आर्धधातुक-प्रत्यय:, the affixes “आय” etc. (prescribed by the prior three rules – 3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः, 3-1-29 ऋतेरीयङ् and 3-1-30 कमेर्णिङ्) are added to the धातु: only optionally.
    = कम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कामि । By 7-2-116 अत उपधायाः। “कामि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
    Note: ङित्त्वात्तङ् । Since the णिङ्-प्रत्यय: has ङकार: as a इत्, as per 1-3-12 अनुदात्तङित आत्मनेपदम्, “कामि” takes आत्मनेपद-प्रत्ययाः।

    कामि + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = कामि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि।
    = कामय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु।
    = कामयाम् । By 2-4-81 आमः।
    = कामयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..।
    = कामयाम् । By 2-4-81 आमः।

    By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
    i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
    ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
    iii. √अस् (असँ भुवि २. ६०) followed by लिँट्

    i) Let us consider the case where √कृ (डुकृञ् करणे ८. १०) is annexed:
    कामयाम्
    = कामयाम् + कृ + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि।
    = कामयाम् + कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कामयाम् + कृ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-63 आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य।
    = कामयाम् + कृ + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = कामयाम् + कृ + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: As per 1-2-5 असंयोगाल्लिट् कित्, the प्रत्यय: “ए” is कित् here. Hence 1-1-5 ग्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कामयाम् + कृ कृ + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-77 इको यणचि।
    = कामयाम् + कर् कृ + ए । By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
    = कामयाम् + चर् कृ + ए । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = कामयाम् + च कृ + ए । By 7-4-60 हलादिः शेषः।
    = कामयाम् + चक्रे । By 6-1-77 इको यणचि।
    = कामयांचक्रे । By 8-3-23 मोऽनुस्वारः।
    = कामयाञ्चक्रे/कामयांचक्रे । By 8-4-59 वा पदान्तस्य।

    ii) Let us consider the case where √भू (भू सत्तायाम् १. १) is annexed:
    कामयाम्
    = कामयाम् + भू + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि।
    = कामयाम् + भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कामयाम् + भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कामयाम् + भू + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = कामयाम् + भू + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कामयाम् + भू वुक् + अ । By 6-4-88 भुवो वुग्लुङ्लिटोः।
    = कामयाम् + भू व् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “वुक्” is उच्चारणार्थ:।
    = कामयाम् + भूव् भूव् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = कामयाम् + भू भूव् + अ । By 7-4-60 हलादिः शेषः।
    = कामयाम् + भु भूव् + अ । By 7-4-59 ह्रस्वः।
    = कामयाम् + भ भूव् + अ । By 7-4-73 भवतेरः।
    = कामयाम्बभूव । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।
    Two optional forms here are कामयाम्बभूव/कामयांबभूव by 8-3-23 मोऽनुस्वारः and 8-4-59 वा पदान्तस्य।

    iii) Let us consider the case where √अस् (असँ भुवि २. ६०) is annexed:
    कामयाम्
    = कामयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि।
    = कामयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कामयाम् + अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कामयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = कामयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कामयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः।
    = कामयाम् + आस् अस् + अ । By 7-4-70 अत आदेः।
    = कामयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः।
    = कामयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः।
    = कामयामास । By 6-1-101 अकः सवर्णे दीर्घः।

    5. Where has the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति been used in a तिङन्तं पदम् in the verses?
    Answer: The सूत्रम् 6-1-15 वचिस्वपियजादीनां किति been used in the form ऊषतुः derived from √वस् (वसँ निवासे १. ११६०).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
    वस् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वस् + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वस् + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा।
    = उ अस् + अतुस् । By 6-1-15 वचिस्वपियजादीनां किति – The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्। Note: As per 1-2-5 असंयोगाल्लिट् कित्, “अतुस्” is a कित् here. This allows 6-1-15 वचिस्वपियजादीनां किति to apply.
    Note: 6-1-15 applies first as per the following परिभाषा – “सम्प्रसारणं तदाश्रितं च कार्यं बलवत्” – A सम्प्रसारणम् (ref. 1-1-45) operation, as well as an operation (6-1-108) which is dependent on it, possesses greater force (takes precedence over other operations which are simultaneously applicable.)
    = उस् + अतुस् । By 6-1-108 सम्प्रसारणाच्च।
    = उस् उस् + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = उ उस् + अतुस् । By 7-4-60 हलादिः शेषः।
    = ऊसतुस् । By 6-1-101 अकः सवर्णे दीर्घः।
    = ऊसतुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = ऊषतुः । By 8-3-60 शासिवसिघसीनां च।

    6. Use some words from the verses/commentary to construct the following sentence in Sanskrit:
    “All your blessings came to be true.”
    Answer: तव सर्वाः आशिषः ऋताः अभूवन् = तव सर्वा आशिष ऋता अभूवन्।

    Easy Questions:

    1. Along with the  स्त्रीलिङ्ग-प्रातिपदिकम् “श्री” used in the form श्रीः, there are a few other ईकारान्त-स्त्रीलिङ्ग-प्रातिपदिकानि that do not allow सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Please list them.
    Answer: There are nine such ईकारान्त-स्त्रीलिङ्ग-प्रातिपदिकानि that do not allow सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। They are given in the following verse –
    अवी-तन्त्री-स्तरी-लक्ष्मी-तरी-धी-ह्री-श्रियां भियः।
    अङ्यन्तत्वात् स्त्रियामेषां न सुलोपः कदाचन ।।

    These nine स्त्रीलिङ्ग-प्रातिपदिकानि end in a ईकार: but for these there is no elision of सुँ-प्रत्ययः because they don’t end in the स्त्री-प्रत्यय: “ङी”। Hence 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् does not apply to these nine.

    2. Where has the सूत्रम् 7-2-110 यः सौ been used in the commentary?
    Answer: The सूत्रम् 7-2-110 यः सौ has been used in the form इयम् (सर्वनाम-प्रातिपदिकम् “इदम्”, स्त्रीलिङ्गे प्रथमा-एकवचनम्)।

    इदम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = इदम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = इद म् + स् । By 7-2-108 इदमो मः ordains a मकारः in the place of मकारः to stop 7-2-102 त्यदादीनामः।
    = इ य् अ म् + स् । By 7-2-110 यः सौ – There is a substitution of the यकार: in place of the दकार: of “इदम्” when the सुँ-प्रत्यय: follows.
    = इयम् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics