Home » Example for the day » गृहाण 2As-लोँट्

गृहाण 2As-लोँट्

Today we will look at the form गृहाण 2As-लोँट् from श्रीमद्भागवतम् Sb3.12.14

गृहाणैतानि नामानि स्थानानि च सयोषणः ।
एभिः सृज प्रजा बह्वीः प्रजानामसि यत्पतिः ।। ३-१२-१४ ।।

Gita Press translation “Accept these names and abodes and consorts too, and beget through these numerous progeny, since you are a Prajāpati (a god presiding over creation).”

गृहाण is derived from the धातुः √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९.७१)

The अकारः at the end of “ग्रहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has स्वरित-स्वरः and hence this धातु: is उभयपदी। Here it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “सिप्”।

(1) ग्रह् + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ग्रह् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) ग्रह् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) ग्रह् + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।

(6) ग्रह् + श्ना + हि । By 3-1-81 क्र्यादिभ्यः श्ना, the श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌। “श्ना” which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) ग्रह् + शानच् + हि । By 3-1-83 हलः श्नः शानज्झौ, after a verbal root ending in a consonant, the affix “श्ना” is replaced by “शानच्”, when the हि-प्रत्ययः follows.
Note: As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “श्ना” gets replaced.

(8) ग्रह् + आन + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(9) ग् ऋ अ ह् + आन + हि । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च, The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।
Note: Since the सार्वधातुक-प्रत्यय: “शानच्” is अपित्, by 1-2-4 सार्वधातुकमपित्, it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.

(10) गृह् + आन + हि । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(11) गृहान । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

(12) गृहाण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि, the letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term “आङ्” or “नुँम्” (अनुस्वारः) either singly or in any combination.
वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel “ऋ” also (along-side the रेफः and षकारः)।

Questions:

1. Where has the श्ना-प्रत्यय: been used with √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९.७१) in Chapter Two of the गीता?

2. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?

3. Can you spot a श-प्रत्यय: in the verse?

4. Where has 7-4-50 तासस्त्योर्लोपः been used in the verse?

5. Commenting on the सूत्रम् 3-1-83 हलः श्नः शानज्झौ, the काशिका says – हलः इति किम्? क्रीणीहि। हौ इति किम्? मुष्णाति। Please explain.

6. How would you say this in Sanskrit?
“Accept my daughter’s hand.” Use the feminine प्रातिपदिकम् “दुहितृ” for “daughter” and the masculine प्रातिपदिकम् “पाणि” for “hand.”

Easy questions:

1. Consider the form एभि: (सर्वनाम-प्रातिपदिकम् “इदम्”, नपुंसकलिङ्गे तृतीया-बहुवचनम्) used in the verse. The derivation goes as follows:
इदम् + भिस् । By 4-1-2 स्वौजसमौट्छष्टा….।
= इद अ + भिस् । By 7-2-102 त्यदादीनामः।
= इद + भिस् । By 6-1-97 अतो गुणे।
= अ + भिस् । By 7-2-113 हलि लोपः।
At this point why doesn’t 7-1-9 अतो भिस ऐस् apply?

2. Can you spot two words in the verse wherein 6-1-102 प्रथमयोः पूर्वसवर्णः has been used?


1 Comment

  1. Questions:
    1. Where has the श्ना-प्रत्यय: been used with √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९.७१) in Chapter Two of the गीता?
    Answer: The श्ना-प्रत्यय: been used with √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९.७१) in Chapter Two of the गीता in the form गृह्णाति
    वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि |
    तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही || 2-22||
    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “तिप्”।
    ग्रह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ग्रह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + श्ना + ति । By 3-1-81 क्र्यादिभ्यः श्ना।
    = ग्रह् + ना + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = ग् ऋ अ ह् + ना + ति । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च।
    Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.
    = गृह् + ना + ति । By 6-1-108 सम्प्रसारणाच्च।
    = गृह्णाति । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि। (वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्)।

    2. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?
    Answer: The final form in this example if a आत्मनेपद-प्रत्यय: had been used would have been गृह्णीष्व
    ग्रह् + लोँट् । By 3-3-162 लोट् च ।
    = ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ग्रह् + से । By 3-4-80 थासस्से।
    = ग्रह् + स्व । By 3-4-91 सवाभ्यां वामौ।
    = ग्रह् + श्ना + स्व । By 3-1-81 क्र्यादिभ्यः श्ना।
    = ग्रह् + ना + स्व । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = ग्रह् + नी + स्व । 6-4-113 ई हल्यधोः।
    = ग् ऋ अ ह् + नी + स्व । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च।
    = गृह् + नी + स्व । By 6-1-108 सम्प्रसारणाच्च।
    = गृह् + नी + ष्व । 8-3-59 आदेशप्रत्यययोः।
    = गृह्णीष्व । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि। (वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्)।

    3. Can you spot a श-प्रत्यय: in the verse?
    Answer: A श-प्रत्यय: in the verse is seen in the form सृज derived from the धातुः √सृज् (तुदादि-गणः, सृजँ विसर्गे ६. १५०). The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “सिप्”।
    सृज् + लोँट् । By 3-3-162 लोट् च।
    = सज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सज् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = सज् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सज् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = सृज् + + हि। । By 3-1-77 तुदादिभ्यः शः – The श-प्रत्यय: is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌।
    Note: Since the प्रत्यय: “श” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the penultimate ऋकार: of the अङ्गम् “सृज्” which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = सृज् + अ + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = सृज । By 6-4-105 अतो हेः।

    4. Where has 7-4-50 तासस्त्योर्लोपः been used in the verse?
    Answer: 7-4-50 तासस्त्योर्लोपः been used in the verse in the form असि derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०). Since the विवक्षा is लँट्, मध्यम-पुरुष-एकवचनम्, the प्रत्यय: is “सिप्”।
    असि + लँट् । By 3-2-123 वर्तमाने लट्।
    = असि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = असि + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = असि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + शप् + सि । By 3-1-68 कर्तरि शप्।
    = अस् + सि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = असि । By 7-4-50 तासस्त्योर्लोपः – when followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)

    5. Commenting on the सूत्रम् 3-1-83 हलः श्नः शानज्झौ, the काशिका says – हलः इति किम्? क्रीणीहि। हौ इति किम्? मुष्णाति। Please explain.
    Answer: – “हलः इति किम्? क्रीणीहि” means why हलः is used in the सूत्रम् 3-1-83 हलः श्नः शानज्झौ। The reason being to prevent the “शानच्” आदेशः by 3-1-83 in the forms like क्रीणीहि। क्रीणीहि is derived from the धातुः √क्री (क्र्यादि-गणः, डुक्रीञ् द्रव्यविनिमये, धातु-पाठः # ९. १). The धातुः √क्री ends in ईकारः – not in a consonant – so 3-1-83 does not apply even though the हि-प्रत्ययः follows.
    The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “सिप्”।
    क्री + लोँट् । By 3-3-162 लोट् च।
    = क्री + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्री + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = क्री + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्री + हि । By 3-4-87 सेर्ह्यपिच्च।
    = क्री + श्ना + हि । By 3-1-81 क्र्यादिभ्यः श्ना। Note: Since the प्रत्यय: “श्ना” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the ending ईकार: of the अङ्गम् “क्री” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = क्री + ना + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = क्री + नी + हि । By 6-4-113 ई हल्यधोः।
    = क्रीणीहि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    “हौ इति किम्? मुष्णाति” means why “हौ” (सप्तमी-एकवचनम् of the प्रातिपदिकम् “हि”) is is used in the सूत्रम् 3-1-83 हलः श्नः शानज्झौ। The reason being to prevent the application of 3-1-83 in the forms like मुष्णाति। मुष्णाति is derived from the धातुः √मुष् (क्र्यादि-गणः, मुषँ स्तेये, धातु-पाठः # ९.६६). The धातुः √मुष् ends in a consonant but the “हि”-प्रत्ययः is not following so 3-1-83 does not apply. The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “तिप्”।
    मुष् + लँट् । By 3-2-123 वर्तमाने लट्।
    = मुष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुष् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = मुष् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुष् + श्ना + ति । By 3-1-81 क्र्यादिभ्यः श्ना, 3-4-113 तिङ्शित्सार्वधातुकम्। Note: Since the प्रत्यय: “श्ना” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the penultimate उकार: of the अङ्गम् “मुष्” which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = मुष् + ना + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = मुष्णाति । By 8-4-1 रषाभ्यां नो णः समानपदे।

    6. How would you say this in Sanskrit?
    “Accept my daughter’s hand.” Use the feminine प्रातिपदिकम् “दुहितृ” for “daughter” and the masculine प्रातिपदिकम् “पाणि” for “hand.”
    Answer: मम दुहितुः पाणिम् गृहाण = मम दुहितुः पाणिं गृहाण ।

    Easy questions:

    1. Consider the form एभि: (सर्वनाम-प्रातिपदिकम् “इदम्”, नपुंसकलिङ्गे तृतीया-बहुवचनम्) used in the verse. The derivation goes as follows:
    इदम् + भिस् । By 4-1-2 स्वौजसमौट्छष्टा….।
    = इद अ + भिस् । By 7-2-102 त्यदादीनामः।
    = इद + भिस् । By 6-1-97 अतो गुणे।
    = अ + भिस् । By 7-2-113 हलि लोपः।
    At this point why doesn’t 7-1-9 अतो भिस ऐस् apply?
    Answer: At this point 7-1-9 अतो भिस ऐस् does not apply apply because of the निषेध-सूत्रम् (prohibition rule) 7-1-11 नेदमदसोरकोः – “भिस्” does not get “ऐस्” as a replacement, when it follows “इदम्” or “अदस्”, that is without a ककारः

    2. Can you spot two words in the verse wherein 6-1-102 प्रथमयोः पूर्वसवर्णः has been used?
    Answer: 6-1-102 प्रथमयोः पूर्वसवर्णः has been used in the form प्रजाः (स्त्रीलिङ्ग-प्रातिपदिकम् “प्रजा”) and बह्वीः (स्त्रीलिङ्ग-प्रातिपदिकम् “बह्वी”)। The विवक्षा here is द्वितीया-बहुवचनम्।
    प्रजा + शस् । By 4-1-2 स्वौजसमौट्छष्टा…………।
    = प्रजा + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “शस्” from getting इत्-सञ्ज्ञा ।
    = प्रजास् । By 6-1-102 प्रथमयो: पूर्वसवर्ण:, when an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)
    = प्रजाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    Similar steps for बह्वीः।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics