Today we will look at the form विनश्यति 3As-लँट् from श्रीमद्भागवतम् Sb7-2-40.
पथि च्युतं तिष्ठति दिष्टरक्षितं गृहे स्थितं तद्विहतं विनश्यति ।
जीवत्यनाथोऽपि तदीक्षितो वने गृहेऽपि गुप्तोऽस्य हतो न जीवति ।। ७-२-४० ।।
Gita Press translation “A thing protected by destiny remains intact even though dropped on the road; while that which is consigned to destruction by (an evil) fate perishes even though staying at home. A forlorn creature watched over by Providence survives (even) in the forest : while he whose doom is decreed by Providence will not survive though guarded at home.”
विनश्यति is derived from the धातुः √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१)
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
The धातुः “णशँ” is णोपदेशः, since it has an initial णकारः in the धातु-पाठः। By 6-1-65 णो नः, there is the substitution of नकारः in the place of the initial णकारः of a धातुः। So, now we have “नशँ”।
The ending अकारः (which is an इत्) of “नशँ” has a उदात्त-स्वरः। Thus the √नश्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √नश्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √नश्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।
(1) नश् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
(2) नश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) नश् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
(4) नश् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) नश् + श्यन् + ति । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप् ।
(6) नश्यति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
“वि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + नश्यति = विनश्यति।
Questions:
1. Where has नश्यति been used in the गीता with the उपसर्ग: “प्र”?
2. Most of the operations which are prescribed for a अङ्गम् which has the भ-सञ्ज्ञा can be found in the “भस्य” अधिकार: which पाणिनि: runs from 6-4-129 to the end of the Sixth Chapter of the अष्टाध्यायी। But there is a सूत्रम् (which we have studied) which prescribes an operation for an अङ्गम् that has the भ-सञ्ज्ञा, but this सूत्रम् is outside the “भस्य” अधिकार:। Which सूत्रम् is it and where has it been used in this verse?
3. Where has the सूत्रम् 7-2-113 हलि लोपः been used in the verse?
4. Which सूत्रम् has been used for the “तिष्ठ”-आदेश: in place of “स्था” in the form तिष्ठति?
5. How would you say this in Sanskrit?
“When the Sun rises, darkness is destroyed.” Use the धातु: √इ (इण् गतौ २. ४०) with the उपसर्ग: “उद्” for “to rise” and use the masculine प्रातिपदिकम् “अन्धकार” for “darkness.” Use यदा/तदा।
6. How would you say this in Sanskrit?
“All the sins of a person who studies the Geeta are destroyed.” Use the धातु: √इ (इङ् अध्ययने (नित्यमधिपूर्वः) २. ४१) with the उपसर्ग: “अधि” for “to study.” Use the appropriate forms of the pronouns “यद्” and “तद्”।
Easy questions:
1. Please do पदच्छेद: of “जीवत्यनाथोऽपि” and mention the relevant rules.
2. Why didn’t the ईकार: in the form जीवति take the गुणादेश: by 7-3-86 पुगन्तलघूपधस्य च?
Questions:
1. Where has नश्यति been used in the गीता with the उपसर्ग: “प्र”?
Answer: नश्यति has been used in the गीता with the उपसर्ग: “प्र” in the following verses:
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः |
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति || 2-63||
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति |
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति || 6-30||
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति || 9-31||
“प्र” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
प्र + नश्यति = प्रणश्यति । णकारादेश: by 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य।
2. Most of the operations which are prescribed for a अङ्गम् which has the भ-सञ्ज्ञा can be found in the “भस्य” अधिकार: which पाणिनि: runs from 6-4-129 to the end of the Sixth Chapter of the अष्टाध्यायी। But there is a सूत्रम् (which we have studied) which prescribes an operation for an अङ्गम् that has the भ-सञ्ज्ञा, but this सूत्रम् is outside the “भस्य” अधिकार:। Which सूत्रम् is it and where has it been used in this verse?
Answer: The सूत्रम् is 7-1-88 भस्य टेर्लोपः (the टि-भागः of पथिन्, मथिन् and ऋभुक्षिन्, which have the भ-सञ्ज्ञा, takes लोपः।) and is used in the form पथि।
The विवक्षा here is सप्तमी-एकवचनम्।
पथिन् + ङि । 4-1-2 स्वौजसमौट्छष्टा…..।
= पथिन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। ‘पथिन्’ gets भ-सञ्ज्ञा by 1-4-18 यचि भम्।
= पथि । The टि-भागः (‘इन्’) of ‘पथिन्’ takes लोपः by 7-1-88 भस्य टेर्लोपः।
3. Where has the सूत्रम् 7-2-113 हलि लोपः been used in the verse?
Answer: 7-2-113 हलि लोपः has been used in the form अस्य (सर्वनाम-प्रातिपदिकम् “इदम्”, पुंलिङ्गे षष्ठी-एकवचनम्)।
इदम् + ङस् । 4-1-2 स्वौजसमौट्छष्टा…।
= इद अ + ङस् । By 7-2-102 त्यदादीनामः।
= इद + ङस् । By 6-1-97 अतो गुणे।
= इद + स्य । By 7-1-12 टाङसिङसामिनात्स्याः।
= अस्य । By 7-2-113 हलि लोपः, the “इद्” of इदम् that is without the ककारः takes लोपः, when the विभक्तिः affixes of the आप्-प्रत्याहारः, which begin with a consonant, follow.
आप् is the प्रत्याहारः made of the सुँप् affixes from टा (तृतीया-एकवचनम्) until सुप् (सप्तमी-बहुवचनम्)।
4. Which सूत्रम् has been used for the “तिष्ठ”-आदेश: in place of “स्था” in the form तिष्ठति?
Answer: The सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां
पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, has been used for the “तिष्ठ”-आदेश: in place of “स्था” in the form तिष्ठति। तिष्ठति is derived from the धातुः √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७).
The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And by the परिभाषा “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, it’s effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, now reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
स्था + लँट् । By 3-2-123 वर्तमाने लट्।
= स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= स्था + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= स्था + शप् + तिप् । By 3-1-68 कर्तरि शप्।
= स्था + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= तिष्ठ + अ + ति । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, when followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.
= तिष्ठति । By 6-1-97 अतो गुणे।
5. How would you say this in Sanskrit?
“When the Sun rises, darkness is destroyed.” Use the धातु: √इ (इण् गतौ २. ४०) with the उपसर्ग: “उद्” for “to rise” and use the masculine प्रातिपदिकम् “अन्धकार” for “darkness.” Use यदा/तदा।
Answer: यदा सूर्यः उदेति तदा अन्धकारः विनश्यति = यदा सूर्य उदेति तदान्धकारो विनश्यति।
6. How would you say this in Sanskrit?
“All the sins of a person who studies the Geeta are destroyed.” Use the धातु: √इ (इङ् अध्ययने (नित्यमधिपूर्वः) २. ४१) with the उपसर्ग: “अधि” for “to study.” Use the appropriate forms of the pronouns “यद्” and “तद्”।
Answer: यः जनः गीताम् अधीते तस्य सर्वाणि पापानि विनश्यन्ति = यो जनो गीतामधीते तस्य सर्वाणि पापानि विनश्यन्ति।
Easy questions:
1. Please do पदच्छेद: of “जीवत्यनाथोऽपि” and mention the relevant rules.
Answer: The पदच्छेद: of “जीवत्यनाथोऽपि” is जीवति + अनाथः + अपि।
जीवति + अनाथः = जीवत्यनाथः । 6-1-77 इको यणचि ।
अनाथस् + अपि
= अनाथरुँ + अपि (8-2-66 ससजुषो रुः)
= अनाथउ + अपि (6-1-113 अतो रोरप्लुतादप्लुते)
= अनाथो + अपि (6-1-87 आद्गुणः)
= अनाथोऽपि (6-1-109 एङः पदान्तादति)
2. Why didn’t the ईकार: in the form जीवति take the गुणादेश: by 7-3-86 पुगन्तलघूपधस्य च?
Answer: When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः by 7-3-86 पुगन्तलघूपधस्य च in the following two cases:
i) The अङ्गम् ends in a पुक्-आगमः। or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
In our case, penultimate (उपधा) letter of the अङ्गम् “जीव् ” is the ईकार which does not have the
लघु-सञ्ज्ञा, so the ईकार: in the form जीवति did not take the गुणादेश: by 7-3-86 पुगन्तलघूपधस्य च।
जीवति is derived from the धातुः √जीव् (भ्वादि-गणः, जीवँ प्राणधारणे, धातु-पाठः #१. ६४३)
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
जीव् + लँट् । 3-2-123 वर्तमाने लट् ।
= जीव् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= जीव् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= जीव् + शप् + तिप् । By 3-1-68 कर्तरि शप्।
= जीवति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।