Today we will look at the form हूयन्ताम् 3Pp-लोँट् from श्रीमद्भागवतम् Sb10-24-27.
हूयन्तामग्नयः सम्यग्ब्राह्मणैर्ब्रह्मवादिभिः ।
अन्नं बहुविधं तेभ्यो देयं वो धेनुदक्षिणाः ।। १०-२४-२७ ।।
Gita Press translation “Let fires be properly fed with offerings by Brāhmaṇas who are expositors of the Vedas. Let excellent food be offered to them by you as well as cows and sacrificial fees.”
हूयन्ताम् is derived from the धातुः √हु (हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, जुहोत्यादि-गणः, धातु-पाठः #३. १)
The विवक्षा is लोँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झ”।
(1) हु + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.
(2) हु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) हु + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
(4) हु + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
(5) हु + झ् आम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by आम्।
(6) हु + यक् + झ् आम् । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
(7) हु + य + झ् आम् । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(8) हू य + झ् आम् । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः, the ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।
(9) हूय + अन्ताम्। By 7-1-3 झोऽन्तः ,“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
(10) हूयन्ताम् । By 6-1-97 अतो गुणे ।
Questions:
1. Where has the यक्-पत्यय: been used with the झ-प्रत्यय: (as in this example) in Chapter One of the गीता?
2. Which two अपवाद-सूत्रे have we studied for 3-4-90 आमेतः?
3. Which other धातु: (besides √हु) would give the same final form (हूयन्ताम्) in this example? (Hint: That धातु: will be subject to सम्प्रसारणम्)।
4. Commenting on the सूत्रम् 3-1-67 सार्वधातुके यक्, the तत्त्वबोधिनी says:
“धातोरेकाचः-” इत्यतो धातोरिति, “चिण् भावकर्मणो:” इत्यतो भावकर्मणोरिति चानुवर्तते। Please explain.
5. How would you say this in Sanskrit?
“I know that you trust me.” Paraphrase this to “I know that your trust in me exists.” Use √विद् (विदँ ज्ञाने २. ५९) for “to know” and √वृत् (वृतुँ वर्तने १. ८६२) for “to exist.” Use the masculine प्रातिपदिकम् “विश्वास” for “trust.”
6. How would you say this in Sanskrit?
“Why are you confused?” Use the adjective “भ्रान्त” for “confused.”
Easy questions:
1. Where has 7-3-109 जसि च been used in the verse?
2. Which सूत्रम् was used to do the एकारादेश: in the form तेभ्य:?
Questions:
1. Where has the यक्-पत्यय: been used with the झ-प्रत्यय: (as in this example) in Chapter One of the गीता?
Answer: The यक्-पत्यय: been used with the झ-प्रत्यय: in the formation of अभ्यहन्यन्त derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २). The विवक्षा is लँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || 1-13||
हन् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
= हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हन् + झ। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
= हन् + यक् + झ । By 3-1-67 सार्वधातुके यक्।
= हन् + य + झ । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हन् + य + अन्त् अ । By 7-1-3 झोऽन्तः।
= हन्यन्त । 6-1-97 अतो गुणे ।
= अट् हन्यन्त । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः , 1-1-46 आद्यन्तौ टकितौ ।
= अहन्यन्त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।
“अभि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे)।
अभि + अहन्यन्त = अभ्यहन्यन्त । By 6-1-77 इको यणचि ।
2. Which two अपवाद-सूत्रे have we studied for 3-4-90 आमेतः?
Answer: The two अपवाद-सूत्रे we have studied for 3-4-90 आमेतः are:
(1) 3-4-91 सवाभ्यां वामौ, the एकारः of लोँट् which follows a सकारः or वकारः is replaced by “व” and “अम्” respectively.
(2) 3-4-93 एत ऐ, the एकार: of लोँट् in उत्तम-पुरुषः is replaced by ऐकारः।
3. Which other धातु: (besides √हु) would give the same final form (हूयन्ताम्) in this example? (Hint: That धातु: will be subject to सम्प्रसारणम्)।
Answer: धातु: √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३) (besides √हु) would give the same final form हूयन्ताम् as in this example. The विवक्षा is the same लोँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्। Since the प्रयोगः is कर्मणि, only आत्मनेपदम् can be used as per 1-3-13 भावकर्मणोः।
ह्वे + लोँट् । By 3-3-162 लोट् च ।
= ह्वे + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= ह्वे + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
= ह्वे + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
= ह्वे + झ् आम् । By 3-4-90 आमेतः । 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः from getting the इत्-सञ्ज्ञा।
= ह्वे + यक् + झ् आम् । By 3-1-67 सार्वधातुके यक्, 3-4-114 आर्धधातुकं शेषः।
= ह्वे + य + झ् आम् । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= ह् व् ए + य + झ् आम् = ह् उ ए + य + झ् आम् । By 6-1-15 वचिस्वपियजादीनां किति, The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
Note: The nine verbal roots √यज् etc are the last nine in the भ्वादि-गण:। They are as follows: √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √वह् (वहँ प्रापणे १. ११५९), √वस् (वसँ निवासे १. ११६०), √वे (वेञ् तन्तुसन्ताने १. ११६१), √व्ये (व्येञ् संवरणे १. ११६२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √वद् (वदँ व्यक्तायां वाचि १. ११६४) and √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)।
= हु + य + झ् आम् । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।
= हू य + झ् आम् । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः, the ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।
= हूय + अन्ताम्। By 7-1-3 झोऽन्तः ,“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
= हूयन्ताम् । By 6-1-97 अतो गुणे ।
4. Commenting on the सूत्रम् 3-1-67 सार्वधातुके यक्, the तत्त्वबोधिनी says:
“धातोरेकाचः-” इत्यतो धातोरिति, “चिण् भावकर्मणो:” इत्यतो भावकर्मणोरिति चानुवर्तते। Please explain.
Answer: “धातोरेकाचः-” इत्यतो धातोरिति, “चिण् भावकर्मणो:” इत्यतो भावकर्मणोरिति चानुवर्तते” means that in the सूत्रम् 3-1-67 सार्वधातुके यक्, the अनुवृत्ति: of “धातोः” comes from 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् and the अनुवृत्ति: of “भावकर्मणोः” comes from 3-1-66 चिण् भावकर्मणोः।
5. How would you say this in Sanskrit?
“I know that you trust me.” Paraphrase this to “I know that your trust in me exists.” Use √विद् (विदँ ज्ञाने २. ५९) for “to know” and √वृत् (वृतुँ वर्तने १. ८६२) for “to exist.” Use the masculine प्रातिपदिकम् “विश्वास” for “trust.”
Answer: मयि तव विश्वासः वर्तते इति वेद्मि । = मयि तव विश्वासो वर्तत इति वेद्मि ।
6. How would you say this in Sanskrit?
“Why are you confused?” Use the adjective “भ्रान्त” for “confused.”
Answer: कस्मात् भ्रान्तः असि = कस्माद्भ्रान्तोऽसि ?
Easy questions:
1. Where has 7-3-109 जसि च been used in the verse?
Answer: 7-3-109 जसि च has been used in the masculine प्रथमा-बहुवचनम् form अग्नयः (पुंलिङ्ग-प्रातिपदिकम् “अग्नि”)।
अग्नि + जस् । 4-1-2 स्वौजसमौट्छष्टा…।
= अग्ने + जस् । 7-3-109 जसि च, when the affix जस् follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
= अग्ने + अस् । 1-3-7 चुटू। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting the इत्-सञ्ज्ञा।
= अग्नय् + अस् । 6-1-78 एचोऽयवायावः।
= अग्नयः । 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Which सूत्रम् was used to do the एकारादेश: in the form तेभ्य:?
Answer: The सूत्रम् 7-3-103 बहुवचने झल्येत् was used to do the एकारादेश: in the form तेभ्य: | तेभ्य: is formed from the सर्वनाम-प्रातिपदिकम् “तद्”, चतुर्थी-बहुवचनम् ।
तद् + भ्यस् ।
= त अ + भ्यस् । By 7-2-102 त्यदादीनामः।
= त + भ्यस् । By 6-1-97 अतो गुणे।
= ते + भ्यस् । By 7-3-103 बहुवचने झल्येत्, the ending “अ” of a अङ्गम् changes to “ए” when followed by a plural सुँप् affix beginning with a झल् letter.
= तेभ्य: । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।