Today we will look at the form शिष्यम् mAs from श्रीमद्भागवतम् 8.20.13.
एष वा उत्तमश्लोको न जिहासति यद्यशः । हत्वा मैनां हरेद्युद्धे शयीत निहतो मया ॥ ८-२०-१३ ॥
श्रीशुक उवाच
एवमश्रद्धितं शिष्यमनादेशकरं गुरुः । शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ ८-२०-१४ ॥
श्रीधर-स्वामि-टीका –
यद्यदि यशो न जिहासति तर्हि युद्धेऽयं मां हत्वैनां भूमिं हरेच्छयीत वा । सम्यग्ज्ञातः सन्मम चित्ते शयीतेति वास्तवोऽर्थः ॥ १३ ॥
Gita Press translation – If he is really Lord Viṣṇu (of excellent fame), he would not forfeit his fair name (by playing me false) and might (as well) wrest the earth (from me, even if I were loth to part with it) after killing me in battle; or, being slain by me, he might lie in (eternal) sleep (if he is an impostor) (13). Śrī Śuka continued: Impelled by Providence, Śukrācārya (the preceptor) cursed (in the following words) his high-minded disciple (Bali), who, being true to his promise, had thus grown (apparently) irreverent (towards his preceptor) and refused to obey him (14).
“शिष्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०)
(1) शास् + क्यप् । By 3-1-109 एतिस्तुशास्वृदृजुषः क्यप् – The affix क्यप् may be used following the verbal root √इ (इण् गतौ २. ४०), √स्तु (ष्टुञ् स्तुतौ २. ३८), √शास् (शासुँ अनुशिष्टौ २. ७०), √वृ (वृञ् वरणे ५. ८), √दृ (दृङ् आदरे ६. १४७) or √जुष् (जुषीँ प्रीतिसेवनयोः ६. ८). Note: The affix “क्यप्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
(2) शास् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
(3) शिस् + य । By 6-4-34 शास इदङ्हलोः – The penultimate letter (आकारः) of the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०) is replaced by a इकारः when followed by either –
i) the affix “अङ्” or
ii) an affix which begins with a consonant and is either कित् or ङित् (has ककारः or ङकारः as a इत्)।
Note: The affix “क्यप्” is a कित्। Therefore, 1-1-5 क्क्ङिति च stops the गुणादेशः which may have been done by 7-3-86 पुगन्तलघूपधस्य च।
(4) शिष्य । By 8-3-60 शासिवसिघसीनां च – A सकार: belonging to the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०) or √वस् (वसँ निवासे १. ११६०) or √घस् (घसॢँ अदने १. ८१२ as well as the substitute “घसॢँ” which comes in place of अदँ भक्षणे २. १) is substituted by a षकार: when preceded by either a letter of the “इण्”-प्रत्याहार: or a letter of the क-वर्ग:।
“शिष्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
The विवक्षा is पुंलिङ्गे, द्वितीया-एकवचनम्।
(5) शिष्य + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
(6) शिष्यम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.
Questions:
1. Where has the प्रातिपदिकम् “शिष्य” been used in Chapter Two of the गीता?
2. Commenting on the सूत्रम् 3-1-109 एतिस्तुशास्वृदृजुषः क्यप् the सिद्धान्त-कौमुदी says ‘वृ’ इति वृञो ग्रहणं न वृङः। Please explain.
3. Commenting on the सूत्रम् 6-4-34 शास इदङ्हलोः the काशिका says अङ्हलोरिति किम्? शासति। Please explain. Hint: Use the सूत्रम् 6-1-6 जक्षित्यादयः षट्। We have not yet discussed the सूत्रम् 6-1-6 in the class but we have discussed it in a prior comment.
4. Where has the सूत्रम् 7-4-79 सन्यतः been used in the verses?
5. Can you spot an augment “सीयुट्” in the verses?
6. How would you say this in Sanskrit?
“Only one who respects the Guru is fit to be taught.” Use the verbal √दृ (दृङ् आदरे ६. १४७) preceded by the उपसर्गः “आङ्” for “to respect.”
Easy Questions:
1. Where has the सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः been used in the verses?
2. Which सूत्रम् is used for the augment “नुँम्” in the form सन् (used in the commentary)? Note: सन् is पुंलिङ्गे प्रथमा-एकवचनम् derived from the प्रातिपदिकम् “सत्” which ends in the affix “शतृँ”।
1. Where has the प्रातिपदिकम् “शिष्य” been used in Chapter Two of the गीता?
Answer: The प्रातिपदिकम् “शिष्य” has been used in Chapter Two of the गीता in the following verse
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || 2-7||
The derivation of the प्रातिपदिकम् “शिष्य” is as shown in the post.
The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
शिष्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= शिष्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= शिष्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Commenting on the सूत्रम् 3-1-109 एतिस्तुशास्वृदृजुषः क्यप् the सिद्धान्त-कौमुदी says ‘वृ’ इति वृञो ग्रहणं न वृङः। Please explain.
Answer: The “वृ” in the सूत्रम् 3-1-109 एतिस्तुशास्वृदृजुषः क्यप् refers to the verbal root √वृ (वृञ् वरणे ५. ८) and not √वृ (वृङ् सम्भक्तौ ९. ४५). This is what is explained by ‘वृ’ इति वृञो ग्रहणं न वृङः।
3. Commenting on the सूत्रम् 6-4-34 शास इदङ्हलोः the काशिका says अङ्हलोरिति किम्? शासति। Please explain. Hint: Use the सूत्रम् 6-1-6 जक्षित्यादयः षट्। We have not yet discussed the सूत्रम् 6-1-6 in the class but we have discussed it in a prior comment.
Answer: The form शासति is derived from √शास् (शासुँ अनुशिष्टौ २. ७०).
The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
शास् + लँट् । By 3-2-123 वर्तमाने लट्।
= शास् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= शास् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
Note: By the सूत्रम् 6-1-6 जक्षित्यादयः षट् the seven verbal roots √जक्ष् (अदादि-गणः, भक्षहसनयोः धातु-पाठः # २. ६६), √जागृ (अदादि-गणः, जागृ निद्राक्षये, धातु-पाठः # २. ६७), √दरिद्रा (अदादि-गणः, दरिद्रा दुर्गतौ, धातु-पाठः # २. ६८), √चकास् (अदादि-गणः, चकासृँ दीप्तौ, धातु-पाठः # २. ६९), √शास् (अदादि-गणः, शासुँ अनुशिष्टौ, धातु-पाठः # २. ७०), √दीधी (अदादि-गणः, दीधीङ् दीप्तिदेवनयोः, धातु-पाठः # २. ७१) and √वेवी (अदादि-गणः, वेवीङ् वेतिना तुल्ये, धातु-पाठः # २. ७२) get the अभ्यस्त-सञ्ज्ञा। (We have not yet discussed the सूत्रम् 6-1-6 in the class.) Hence √शास् has the अभ्यस्त-सञ्ज्ञा। This allows 7-1-4 to apply in the next step.
= शास् + अत् इ । By 7-1-4 अदभ्यस्तात्।
= शास् + शप् + अति । By 3-1-68 कर्तरि शप्।
= शास् + अति । By 2-4-72 अदिप्रभृतिभ्यः शपः।
= शासति ।
Note: As per 6-4-34 शास इदङ्हलोः – The penultimate letter (आकारः) of the verbal root (शासुँ अनुशिष्टौ २. ७०) is replaced by a इकारः when followed by either –
i) the affix “अङ्” or
ii) an affix which begins with a consonant and is either कित् or ङित् (has ककारः or ङकारः as a इत्)।
Here in this example “शास्” is not followed by the affix “अङ्”। “शास्” is followed by the affix “अति” which is ङिद्वत् (by 1-2-4 सार्वधातुकमपित्) but does not begin with a consonant. Hence 6-4-34 does not apply here.
4. Where has the सूत्रम् 7-4-79 सन्यतः been used in the verses?
Answer: The सूत्रम् 7-4-79 सन्यतः has been used in the verses in the form जिहासति derived from √हा (जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३. ९).
The derivation of जिहासति is here – http://avg-sanskrit.org/2012/06/14/जिहासति-3as-लँट्/
5. Can you spot an augment “सीयुट्” in the verses?
Answer: An augment “सीयुट्” can be seen in the form in the form शयीत derived from √शी (शीङ् स्वप्ने २. २६).
The विवक्षा is विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
शी + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= शी + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
= शी + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the सीयुट्-आगमः joins at the beginning of the प्रत्यय:।
= शी + सीय् त । The उकार: in सीयुट् is for pronunciation only (उच्चारणार्थः)। The टकारः is an इत् by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः।
= शी + ईय् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= शी + ईत । By 6-1-66 लोपो व्योर्वलि।
= शी + शप् + ईत । By 3-1-68 कर्तरि शप्।
= शी + ईत । By 2-4-72 अदिप्रभृतिभ्यः शपः।
= शे + ईत । By 7-4-21 शीङः सार्वधातुके गुणः, the verbal root √शी (शीङ् स्वप्ने २. २६) takes गुण-आदेशः when a सार्वधातुक-प्रत्ययः follows. As per 1-1-52 अलोऽन्त्यस्य, the ending ईकार: of “शी” takes the गुण-आदेशः (एकार:)। Note: In the absence of 7-4-21, no गुणादेशः would have been possible here because the सार्वधातुकम् affix “ईत” (which is not a पित्) is ङिद्वत् by 1-2-4 सार्वधातुकमपित् and hence 1-1-5 क्क्ङिति च would block 7-3-84 सार्वधातुकार्धधातुकयोः।
= शयीत । By 6-1-78 एचोऽयवायावः।
6. How would you say this in Sanskrit?
“Only one who respects the Guru is fit to be taught.” Use the verbal √दृ (दृङ् आदरे ६. १४७) preceded by the उपसर्गः “आङ्” for “to respect.”
Answer: यः गुरुम् आद्रियते सः एव शिष्यः = यो गुरुमाद्रियते स एव शिष्यः।
The विवक्षा in आद्रियते is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
दृ + लँट् । By 3-2-123 वर्तमाने लट्।
= दृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= दृ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
= दृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
= दृ + श + ते । By 3-1-77 तुदादिभ्यः शः। Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 क्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः।
= दृ + अ + ते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= द् रिङ् + अ + ते । By 7-4-28 रिङ् शयग्लिङ्क्षु, 1-1-53 ङिच्च।
= द्रि + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= द्र् इयँङ् + अ + ते । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, 1-1-53 ङिच्च।
= द्रियते । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
“आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
आङ् + द्रियते = आद्रियते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
Easy Questions:
1. Where has the सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः been used in the verses?
Answer: The सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः has been used in the form एनाम् (सर्वनाम-प्रातिपदिकम् ‘इदम्’/‘एतद्’, स्त्रीलिङ्गे द्वितीया-एकवचनम्।)
इदम्/एतद् + अम् । By 4-1-2 स्वौजसमौट्छष्टा………। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
= एन + अम् । By 2-4-34 द्वितीयाटौस्स्वेनः, ‘इदम्’/‘एतद्’ gets ‘एन’ as the replacement when followed by the affixes of the second case or the affix ‘टा’ or ‘ओस्’, when used in अन्वादेश:। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term ‘इदम्’/‘एतद्’ gets replaced.
= एन + टाप् + अम् । By 4-1-4 अजाद्यतष्टाप्।
= एन + आ + अम् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= एना + अम् । By 6-1-101 अकः सवर्णे दीर्घः।
= एनाम् । By 6-1-107 अमि पूर्वः।
2. Which सूत्रम् is used for the augment “नुँम्” in the form सन् (used in the commentary)? Note: सन् is पुंलिङ्गे प्रथमा-एकवचनम् derived from the प्रातिपदिकम् “सत्” which ends in the affix “शतृँ”।
Answer: The सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः is used for the “नुँम्”-आगम: in the formation of सन्।
The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
सत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………। Here “सुँ” has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
= सत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= स नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः – A non-verbal base with an उक् (“उ”, “ऋ”, “ऌ”) as a marker and the verbal base “अञ्चुँ” whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. As per 1-1-47 मिदचोऽन्त्यात्परः, the “नुँम्”-आगम: attaches itself after the last vowel (the अकार:) of the अङ्गम् “सत्”।
= सन् त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= सन् त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।
= सन् । By 8-2-23 संयोगान्तस्य लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम् ।