Today we will look at the form आचिनुते 3As-लँट् from श्रीमद्भागवतम् Sb4-29-78.
यदाक्षैश्चरितान्ध्यायन्कर्माण्याचिनुतेऽसकृत्।
सति कर्मण्यविद्यायां बन्धः कर्मण्यनात्मन: ।। ४-२९-७८।।
Gita Press translation “When a Jīva resorts to actions again and again, thinking of the pleasures enjoyed (by it) through the senses, it is bound by such actions of the body so long as they continue to be performed by it through ignorance.”
चिनुते is derived from the धातुः √चि (स्वादि-गणः, चिञ् चयने, धातु-पाठः # ५. ५)
Since “चिञ्” has ञकारः as a इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √चि-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √चि-धातुः will take परस्मैपद-प्रत्ययाः। In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √चि-धातुः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √चि-धातुः will be उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।
The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “त”।
(1) चि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
(2 चि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) चि + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
(4) चि + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
(5) चि + श्नु + ते । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप् ।
Note: By 1-2-4 सार्वधातुकमपित्, the श्नु-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the इकार: (of the अङ्गम् “चि”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः। Similarly, by 1-2-4 सार्वधातुकमपित्, the ते-प्रत्यय: becomes ङिद्वत्। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the उकार: (of the अङ्गम् “चिनु”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
(6) चिनुते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
“आङ्” (ending ङकार: is a इत् by 1-3-3 हलन्त्यम्) is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे)।
आ + चिनुते = आचिनुते।
Questions:
1. In the first verse of which chapter of the गीता has 3-4-79 टित आत्मनेपदानां टेरे been used in a तिङन्तं पदम् in a कर्तरि प्रयोग:?
2. What would have been the final form in this example if a परस्मैपद-प्रत्यय: had been used?
3. Would have been the final form in this example if the विवक्षा had been कर्मणि (instead of कर्तरि)?
4. Can you spot a “शि”-आदेश: in the verse?
5. Can you spot a “याट्”-आगम: in the verse?
6. How would you say this in Sanskrit?
“There is (exists) no end to (of) the merit of one who studies the गीता everyday.” Use √इ (इङ् अध्ययने (नित्यमधिपूर्वः) २. ४१) with the उपसर्ग: “अधि” for “to study”, use √विद् (विदँ सत्तायाम् ४. ६७) for “to exist”, use the feminine प्रातिपदिकम् “समाप्ति” for “end” and the neuter प्रातिपदिकम् “पुण्य” for “merit.” Use अनुदिनम् as an adverb for “every day.” (literally “day after day.”) Use the appropriate forms of the pronouns “यद्” and “तद्”।
Easy questions:
1. By which सूत्रम् does पाणिनि: define the टि-सञ्ज्ञा (referred to in the सूत्रम् 3-4-79 टित आत्मनेपदानां टेरे)?
2. Where has 6-1-103 तस्माच्छसो नः पुंसि been used in the verse?
Questions:
1. In the first verse of which chapter of the गीता has 3-4-79 टित आत्मनेपदानां टेरे been used in a तिङन्तं पदम् in a कर्तरि प्रयोग:?
Answer: 3-4-79 टित आत्मनेपदानां टेरे has been used in a तिङन्तं पदम् in a कर्तरि प्रयोग: in two places: (1) पर्युपासते in verse 1, chapter 12 and (2) यजन्ते verse 1, chapter 17.
अर्जुन उवाच |
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः || 12-1||
पर्युपासते is derived from the धातुः √आस् (आसँ उपवेशने, धातु-पाठः २. ११)
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
आस् + लँट् । By 3-2-123 वर्तमाने लट्।
= आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= आस् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= आस् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
= आस् + शप् + झे । By 3-1-68 कर्तरि शप्।
= आस् + झे । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
= आस् + अते । By 7-1-5 आत्मनेपदेष्वनतः।
= आसते
“परि” and “उप” are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
परि + उप + आसते = पर्युपासते । 6-1-77 इको यणचि, 6-1-101 अकः सवर्णे दीर्घः।
अर्जुन उवाच |
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः |
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः || 17-1||
यजन्ते is derived from the धातुः √यज् (भ्वादि-गणः, यजँ देवपूजासङ्गतिकरणदानेषु, धातु-पाठः #१. ११५७)
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
यज् + लँट् । By 3-2-123 वर्तमाने लट् ।
= यज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= यज् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= यज् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
= यज् + शप् + झे । By 3-1-68 कर्तरि शप्।
= यज् + अ + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= यज् + अ + अन्ते । By 7-1-3 झोऽन्तः।
= यजन्ते । By 6-1-97 अतो गुणे।
2. What would have been the final form in this example if a परस्मैपद-प्रत्यय: had been used?
Answer: The final form in this example if a परस्मैपद-प्रत्यय: had been used would have been चिनोति ।
चि+ लँट् । By 3-2-123 वर्तमाने लट्।
= चि+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= चि+ तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्ति।
= चि+ ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= चि + श्नु + ति । By 3-1-73 स्वादिभ्यः श्नुः।
= चि+ नु + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
= चिनोति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
Note: By 1-2-4 सार्वधातुकमपित्, the “श्नु”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ending इकार: (of the अङ्गम् “चि”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
3. Would have been the final form in this example if the विवक्षा had been कर्मणि (instead of कर्तरि)?
Answer: The final form would have been चीयते if the विवक्षा had been कर्मणि (instead of कर्तरि)।
चि + लँट् । By 3-2-123 वर्तमाने लट्।
= चि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= चि + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= चि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
= चि + यक् + ते । By 3-1-67 सार्वधातुके यक्।
= चियते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= चीयते । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः।
4. Can you spot a “शि”-आदेश: in the verse?
Answer: “शि”-आदेश: is seen in कर्माणि (नपुंसकलिङ्ग-प्रातिपदिकम् “कर्मन्”) declined as द्वितीया-बहुवचनम्।
कर्मन् + शस्। 4-1-2 स्वौजसमौट्छष्टा………….।
कर्मन् + शि। “शि”-आदेश: by 7-1-20 जश्शसोः शिः, the affixes “जस्” and “शस्” get “शि” as the replacement when they follow a neuter अङ्गम् ।
कर्मन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
कर्मान् + इ । 6-4-8 सर्वनामस्थाने चासम्बुद्धौ mandates उपधादीर्घः, since शि-प्रत्ययः gets सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।
कर्माणि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि the letter “न्” is replaced by “ण्”।
5. Can you spot a “याट्”-आगम: in the verse?
Answer: “याट्”-आगम: is seen in अविद्यायाम्, स्त्रीलिङ्ग-प्रातिपदिकम् “अविद्या”, सप्तमी-एकवचनम्।
अविद्या + ङि (4-1-2 स्वौजसमौट्छस्टा…)
= अविद्या + आम् (7-3-116 ङेराम्नद्याम्नीभ्यः)
= अविद्या + याट् आम् (“याट्”-आगम: by 7-3-113 याडापः, the ङित् affixes following a base ending in an आप् affix get the augment याट्। As per 1-1-46 आद्यन्तौ टकितौ, the आगम: joins at the beginning of the प्रत्यय:)
= अविद्या + या आम् (1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
= अविद्यायाम् (6-1-101 अकः सवर्णे दीर्घः)।
6. How would you say this in Sanskrit?
“There is (exists) no end to (of) the merit of one who studies the गीता everyday.” Use √इ (इङ् अध्ययने (नित्यमधिपूर्वः) २. ४१) with the उपसर्ग: “अधि” for “to study”, use √विद् (विदँ सत्तायाम् ४. ६७) for “to exist”, use the feminine प्रातिपदिकम् “समाप्ति” for “end” and the neuter प्रातिपदिकम् “पुण्य” for “merit.” Use अनुदिनम् as an adverb for “every day.” (literally “day after day.”) Use the appropriate forms of the pronouns “यद्” and “तद्”।
Answer: यः गीताम् अनुदिनम् अधीते तस्य पुण्यस्य समाप्तिः न विद्यते = यो गीतामनुदिनमधीते तस्य पुण्यस्य समाप्तिर्न विद्यते।
Easy questions:
1. By which सूत्रम् does पाणिनि: define the टि-सञ्ज्ञा (referred to in the सूत्रम् 3-4-79 टित आत्मनेपदानां टेरे)?
Answer: पाणिनि: defines the टि-सञ्ज्ञा by 1-1-64 अचोऽन्त्यादि टि, that part of a group of sounds which begins with the last vowel of the group (and goes to the end of the group) gets the designation “टि”।
2. Where has 6-1-103 तस्माच्छसो नः पुंसि been used in the verse?
Answer: The सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि has been used in the form चरितान्, प्रातिपदिकम् “चरित”, पुंलिङ्गे द्वितीया-बहुवचनम्।
चरित + शस् (4-1-2 स्वौजसमौट्छष्टा…)
= चरित + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
= चरितास् (6-1-102 प्रथमयोः पूर्वसवर्णः)
= चरितान् (6-1-103 तस्माच्छसो नः पुंसि, in the masculine gender, when the letter “स्” of the affix “शस्” follows a vowel which has been elongated by 6-1-102 प्रथमयोः पूर्वसवर्णः then is replaced by the letter “न्”।)