Home » Example for the day » अमूमुचत् 3As-लुँङ्

अमूमुचत् 3As-लुँङ्

Today we will look at the form अमूमुचत् 3As-लुँङ् from श्रीमद्भागवतम् 8.1.31.

श्रीराजोवाच
बादरायण एतत्ते श्रोतुमिच्छामहे वयम् । हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ।। ८-१-३१ ।।
तत्कथासु महत्पुण्यं धन्यं स्वस्त्ययनं शुभम् । यत्र यत्रोत्तमश्लोको भगवान्गीयते हरिः ।। ८-१-३२ ।।

श्रीधर-स्वामि-टीका
अमूमुचत् मोचयामास ।। ३१ ।। श्रवणेच्छायां हेतुः – तत्कथासु तासु कथासु । सा कथैव वा सुमहत्पुण्यम् । पुण्यस्य विशेषणं धन्यमित्यादि ।। ३२ ।।

Gita Press translation – The king (Parīkṣit) submitted: O son of Bādarāyaṇa (the sage Vedavyāsa, so-called because he has his abode in a thicket of jujube trees), we long to hear from you the story as to how Śrī Hari delivered the (said) king of elephants, seized by an alligator (31). That (alone) of (all) stories is highly sacred, praiseworthy, conducive to blessedness and auspicious, in which Lord Śrī Hari of excellent renown is celebrated (32).

अमूमुचत् is a causative form derived from the धातुः √मुच् (तुदादि-गणः, मुचॢँ मोक्षणे (मोचने), धातु-पाठः # ६. १६६)

The ending ऌकार: of “मुचॢँ” is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

मुच् + णिच् । By 3-1-26 हेतुमति च  – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= मुच् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= मोच् + इ । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
= मोचि । “मोचि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As a general rule, a धातुः ending in the affix “णिच्” can take आत्मनेपद-प्रत्ययाः by 1-3-74 णिचश्च and परस्मैपद-प्रत्ययाः by 1-3-78 शेषात् कर्तरि परस्मैपदम्। In this example “मोचि” has taken a परस्मैपद-प्रत्ययः।

(1) मोचि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) मोचि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मोचि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) मोचि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) मोचि + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) मोचि + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) मोचि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) मोचि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) मुचि + अ + त् । By 7-4-1 णौ चङ्युपधाया ह्रस्वः – There is a shortening of the penultimate letter (vowel) of a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”। As per 1-1-48 एच इग्घ्रस्वादेशे – When a ह्रस्वः (short vowel) is to be substituted in place of a एच् letter (“ए”, “ओ”, “ऐ”, “औ”), the substitute should be a इक् letter (“इ”, “उ”, “ऋ”, “ऌ”) only.

(10) मुच् मुचि + अ + त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(11) मु मुचि + अ + त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(12) मू मुचि + अ + त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, a prosodically short (लघु) vowel of the अभ्यासः (reduplicate) is elongated.
Note: 7-4-94 cannot apply unless the conditions specified in 7-4-93 are satisfied first.

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the उकारः in “मुचि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(13) मू मुच् + अ + त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(14) अट् मू मुच् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अमूमुचत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. In the first verse of which Chapter of the गीता has the verbal root √मुच् (मुचॢँ मोक्षणे (मोचने) ६. १६६) been used in a तिङन्तं पदम्?

2. What is the purpose of having ऌकार: as a इत् in “मुचॢँ”?

3. Commenting on the सूत्रम् 7-4-1 णौ चङ्युपधाया ह्रस्वः, the काशिका says चङि इति किम्? कारयति। Please explain.

4. Commenting on the सूत्रम् 7-4-94 दीर्घो लघोः, the तत्त्वबोधिनी says “लघुनि चङ्परेऽनग्लोपे” इति सर्वमिहानुवर्तते। Please explain.

5. Which सूत्रम् is used for ईकारादेशः in the form गीयते?

6. How would you say this in Sanskrit?
“The teacher freed the disciple from delusion.” Use the same verbal form as in this example for “freed” and use the masculine प्रातिपदिकम् “मोह” for delusion.

Easy Questions:

1. Where has the प्रातिपदिकम् “अस्मद्” been used in the verses?

2. Can you spot a place in the verses where सन्धि-कार्यम् has not been done?


1 Comment

  1. 1. In the first verse of which Chapter of the गीता has the verbal root √मुच् (मुचॢँ मोक्षणे (मोचने) ६. १६६) been used in a तिङन्तं पदम्?
    Answer: In the first verse of Chapter 9, the verbal root √मुच् (मुचॢँ मोक्षणे (मोचने) ६. १६६) has been used in the form मोक्ष्यसे
    श्रीभगवानुवाच
    इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
    ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्‌ ॥ 9-1 ॥

    The विवक्षा is लृँट्, कर्मणि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    मुच् + लृँट् । 3-3-13 लृट् शेषे च।
    = मुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुच् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = मुच् + से । By 3-4-80 थासस्से।
    = मुच् + स्य + से । By 3-1-33 स्यतासी लृलुटोः। Note: The verbal root √मुच्  (मुचॢँ मोक्षणे (मोचने) ६. १६६) is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    = मोच् + स्य + से । By 7-3-86 पुगन्तलघूपधस्य च।
    = मोक् + स्य + से । By 8-2-30 चोः कुः।
    = मोक्ष्यसे । By 8-3-59 आदेशप्रत्यययो:।

    2. What is the purpose of having ऌकार: as a इत् in “मुचॢँ”?
    Answer: The ऌकार: as a इत् in “मुचॢँ” facilitates the “अङ्”-आदेशः for the affix “च्लि” when a परस्मैपदम् affix follows. As per the सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु – When a परस्मैपदम् affix follows, the affix “च्लि” is replaced by “अङ्” when following either –
    i) a verbal root from the section beginning with √पुष् (पुषँ पुष्टौ ४. ७९) up to the end of the दिवादि-गणः। or
    ii) a verbal root from the section beginning with √द्युत् (द्युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६)। or
    iii) a verbal root which is ऌदित् (which has ऌकारः as a इत्)।

    For example consider the form अमुचत्। The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

    मुच् + लुँङ् । By 3-2-110 लुङ्।
    = मुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = मुच् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुच् + त् । By 3-4-100 इतश्‍च।
    = मुच् + च्लि + त् । By 3-1-43 च्लि लुङि।
    = मुच् + अङ् + त् । By 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु – When a परस्मैपदम् affix follows, the affix “च्लि” is replaced by “अङ्” when following either –
    i) a verbal root from the section beginning with √पुष् (पुषँ पुष्टौ ४. ७९) up to the end of the दिवादि-गणः। or
    ii) a verbal root from the section beginning with √द्युत् (द्युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६)। or
    iii) a verbal root which is ऌदित् (which has ऌकारः as a इत्)।
    Note : Since “अङ्” is a ङित्-प्रत्ययः, 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।
    = मुच् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अट् मुच् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अमुचत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    3. Commenting on the सूत्रम् 7-4-1 णौ चङ्युपधाया ह्रस्वः, the काशिका says चङि इति किम्? कारयति। Please explain.
    Answer: The form कारयति is a causative form derived from √कृ (डुकृञ् करणे ८. १०).

    The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    कृ + णिच् । By 3-1-26 हेतुमति च।
    = कृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कर् + इ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = कारि । By 7-2-116 अत उपधायाः। “कारि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    कारि + लँट् । By 3-2-123 वर्तमाने लट्।
    = कारि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कारि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = कारि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कारि + शप् + ति । By 3-1-68 कर्तरि शप्। Note: Here even though the affix “णि” (णिच्) is following the अङ्गम् “कार्”, the affix “चङ्” is not following the affix “णि”। Hence 7-4-1 णौ चङ्युपधाया ह्रस्वः (which requires the affix “चङ्” to follow the affix “णि”) does not apply here. Thus the आकारः of the अङ्गम् “कार्” is not shortened.
    = कारि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = कारे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कारयति । By 6-1-78 एचोऽयवायावः।

    4. Commenting on the सूत्रम् 7-4-94 दीर्घो लघोः, the तत्त्वबोधिनी says “लघुनि चङ्परेऽनग्लोपे” इति सर्वमिहानुवर्तते। Please explain.
    Answer:  “लघुनि चङ्परेऽनग्लोपे” इति सर्वमिहानुवर्तते means the अनुवृत्तिः of the entire phrase “लघुनि चङ्परेऽनग्लोपे” comes down from the सूत्रम् 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे into the सूत्रम् 7-4-94 दीर्घो लघोः। Hence 7-4-94 cannot apply unless the conditions specified in 7-4-93 are satisfied first.

    5. Which सूत्रम् is used for ईकारादेशः in the form गीयते?
    Answer: The सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि is used for ईकारादेशः in the form गीयते derived from √गै (गै शब्दे १. १०६५).

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथमपुरुष:, एकवचनम्।
    गा + लँट् । By 3-2-123 वर्तमाने लट्, 6-1-45 आदेच उपदेशेऽशिति।
    = गा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = गा + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = गा + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = गा + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गीयते । By 6-4-66 घुमास्थागापाजहातिसां हलि the आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।

    6. How would you say this in Sanskrit?
    “The teacher freed the disciple from delusion.” Use the same verbal form as in this example for “freed” and use the masculine प्रातिपदिकम् “मोह” for delusion.
    Answer: गुरुः/आचार्यः शिष्यम् मोहात् अमूमुचत् = गुरुः/आचार्यः शिष्यं मोहादमूमुचत्।

    Easy Questions:

    1. Where has the प्रातिपदिकम् “अस्मद्” been used in the verses?
    Answer: The प्रातिपदिकम् “अस्मद्” has been used in the form वयम् (प्रथमा-बहुवचनम्)।

    2. Can you spot a place in the verses where सन्धि-कार्यम् has not been done?
    Answer: In the verses सन्धि-कार्यम् has not been done between (हे) बादरायण and एतत्
    The most likely reason for lack of सन्धिः is to fit the meter. If the सन्धि-कार्यम् had been done the form would have been बादरायणैतत्।

    (हे) बादरायण + एतत्
    = (हे) बादरायणैतत् । By 6-1-88 वृद्धिरेचि

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

May 2012
M T W T F S S
« Apr   Jun »
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics