Home » 2012 » May » 10

Daily Archives: May 10, 2012

अमंस्त 3As-लुँङ्

Today we will look at the form अमंस्त 3As-लुँङ् from श्रीमद्भागवतम् 1.15.11.

यो नो जुगोप वनमेत्य दुरन्तकृच्छ्राद्दुर्वाससोऽरिरचितादयुताग्रभुग्यः ।
शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं तृप्ताममंस्त सलिले विनिमग्नसङ्घः ।। १-१५-११ ।।

श्रीधर-स्वामि-टीका
शिष्याणामयुतस्याग्रे तत्पङ्क्तौ भुङ्क्ते यस्तस्माद्दुर्वाससो हेतोररिणा दुर्योधनेन रचितं यद्दुरन्तं कृच्छ्रं शापलक्षणं तस्मात्सकाशान्नोऽस्मान्वनमेत्य जुगोप । किं कृत्वा । शाकमेवान्नं तस्मिन्नेव पात्रेऽवशिष्टमुपयुज्य जग्ध्वा । यत उपयोगात्सलिले विनिमग्नो मुनीनां सङ्घस्त्रिलोकीं तृप्ताममंस्त । एवं हि भारते कथा – ‘कदाचिद्दुर्वाससो दुर्योधनेनातिथ्यं कृतम् । तेन च परितुष्टेन वरं वृणीष्वेत्युक्ते दुर्वाससः शापात्पाण्डवा नश्येयुरिति मनसि विधाय दुर्योधनेनोक्तम् । युधिष्ठिरोऽस्मत्कुलमुख्यः, अतस्तस्यापि भवतैवमेव शिष्यायुतसहितेनातिथिना भवितव्यं, किंतु द्रौपदी यथा क्षुधा न सीदेत्तथा तस्यां भुक्तवत्यां तद्गृहं गन्तवयमिति । ततश्च तथैव दुर्वाससि प्राप्ते परमादरेण युधिष्ठिरेण माध्याह्निकं कृत्वा आगम्यतामिति विज्ञापितो मुनिसङ्घोऽघमर्षणाय जले निममज्ज । तत्र चिन्तातुरया द्रौपद्या स्मृतमात्रः श्रीकृष्णोऽङ्कस्थां रुक्मिणीं हित्वा तत्क्षणमेव भक्तवत्सलतया चागतः । तया चावेदिते वृत्तान्ते भगवतोक्तं – हे द्रौपदि, अहं च बुभुक्षितोऽस्मि प्रथमं मां भोजयेति । तया चातिलज्जयोक्तं – स्वामिन्, मद्भोजनपर्यन्तमक्षयमप्यन्नं सूर्यदत्तस्थाल्यां मया च सर्वान्संभोज्य भुक्तमतो नास्त्यन्नमिति । तथाप्यतिनिर्बन्धेन स्थालीमानाय्य तत्कण्ठलग्नं किंचिच्छाकान्नं प्राश्योक्तमनेन विश्वात्मा भगवान्प्रीयताम् । अथ भोक्तुं मुनिसङ्घमाह्वयेति भीमं प्रहितवान् । स च तावतातितृप्तो वृथापाकभयेन पलायितः’ इति ।। ११ ।।

Gita Press translation – Nay, it was He who saved us from a terrible pitfall contrived by our enemy (Duryodhana) through the sage Durvāsā – who took his meals ahead (in the company) of not less than ten thousand pupils (wherever he went) – by going to the forest and accepting a stray remnant of some vegetable stuff (left in Draupadī’s kettle.) By His doing so the whole host of students (that had accompanied Durvāsā,) while yet immersed in water (for ablutions and prayers,) felt as if all the three worlds had been surfeited (11).

अमंस्त is derived from is derived from the धातुः √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः #४. ७३ )

In the धातु-पाठः, the √मन्-धातुः has one इत् letter which is the अकार: following the नकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √मन्-धातुः takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √मन् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) मन् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मन् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) मन् + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) मन् + सिँच् + त । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(6) मन् + स् + त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

See advanced question.

(7) अट् मन् + स् + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(8) अ मन् + स् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) अमंस्त । By 8-3-24 नश्चापदान्तस्य झलि – नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.

Questions:

1. In the गीता, can you spot a तिङन्त्ं पदम् in which the verbal root √मन् (मनँ ज्ञाने ४. ७३ ) has been used and the लकारः is not लँट्?

2. What would be an optional form for जुगोप?

3. Which सूत्रम् is used for the ईकारादेशः in the form वृणीष्व (used in the commentary)?

4. The form निममज्ज (used in the commentary) is derived from which verbal root?

5. Where has the सूत्रम् 1-3-87 निगरणचलनार्थेभ्यः been used in the commentary?

6. How would you say this in Sanskrit?
“Even the teacher felt that this is a complicated question.” Use the अव्ययम् “इति” (end quote) to express the meaning of “that” and use the adjective प्रातिपदिकम् “जटिल” for “complicated”.

Advanced Question:

1. After step 6, why doesn’t the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति apply?

Easy Questions:

1. In the commentary, can you spot two words in which the सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् has been used?

2. Which सूत्रम् is used for the ह्रस्वादेशः in the form (हे) द्रौपदि (used in the commentary)?

Recent Posts

May 2012
M T W T F S S
« Apr   Jun »
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics