Home » 2012 » May » 03

Daily Archives: May 3, 2012

मा गृधः 2As-लुँङ्

Today we will look at the form मा गृधः 2As-लुँङ् from श्रीमद्भागवतम् 8.1.10.

आत्मावास्यमिदं विश्वं यत्किञ्चिज्जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ।। ८-१-१० ।।
यं न पश्यति पश्यन्तं चक्षुर्यस्य न रिष्यति । तं भूतनिलयं देवं सुपर्णमुपधावत ।। ८-१-११ ।।

श्रीधर-स्वामि-टीका
तस्येश्वरत्वं दर्शयन् लोकस्य हितमुपदिशति – आत्मना ईश्वरेणावास्यं सत्ताचैतन्याभ्यां संव्याप्यं विश्वं सर्वं जगत्यां लोके यत्किंचिज्जगद्भूतजातं अतस्तेनैवेश्वरेण यत्किंचित्त्यक्तं दत्तं धनं तेनैभुञ्जीथाः भागान्भुङ्क्ष्व । यद्वा तेन हेतुना त्यक्तेनेश्वरार्पणेन भुञ्जीथा न स्वार्थम् । कस्यस्वित्कस्यचिदपि धनं मा गृधो माऽभिकाङ्क्षीः। यद्वा कस्यस्विदिति कस्यान्यस्य धनमस्ति, यतो धनकाङ्क्षा क्रियेतेत्यर्थः । तथा च श्रुतिः – ‘ईशावास्यम्’ इति यथाश्लोकमेव ।। १० ।। ननु यदि सर्वं व्याप्नोति तर्हि चक्षुरादिभिः किं न प्रतीयते तत्राह – यं पश्यन्तं जनश्चक्षुर्वा न पश्यति, चक्षुराद्यविषयत्वात् । नहि प्रमातारं प्रमाणं विषयीकरोतीति भावः । तथा च श्रुतिः – ‘चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रम्’ इत्यादि । ननु तर्हि घटनाशे देवदत्तस्य तद्विषयं चाक्षुषं ज्ञानमिवेश्वरस्यापि स्वरूपभूतं तद्विषयं ज्ञानं नश्येत्तत्राह – यस्य तु पश्यतश्चक्षुर्ज्ञानं न रिष्यति न नश्यति ।तत्तदाकारेणोत्पन्नाया वृत्तेरेव नाशो न स्वतःसिद्धज्ञानस्य । नहि सवितृप्रकाशः प्रकाश्यनाशे नश्यतीति भावः । भूतानि निलयो यस्य तं सर्वान्तर्यामिणं, तथापि सुपर्णं शोभनपतनमसङ्गमुपधावत भजध्वम् ।। ११ ।।

Gita Press translation – Whatever animate (or inanimate) creation there exists in the world, all that is pervaded by the (cosmic) Spirit (who not only sustains it but also enlivens it.) (Therefore,) live upon what has been assigned (to you) by Him (or what has been consecrated to Him); do not covet the wealth of anyone (else) (10). Flee (for protection) to that self-effulgent Lord, the abode (Inner Controller) of (all) created beings, (and who has been figuratively depicted in the Upaniṣads as) a bird with beautiful wings (dwelling on the tree of this body as an unconcerned witness along with the Jīva, represented as its companion attached to the tree,) whom, as the Perceiver (of all,) the world (or the sense of sight) cannot perceive (because He is above sense-perception and because the knower cannot be known by means of knowledge) and whose perception (knowledge) never fails (inasmuch as it constitutes His very being, unlike the consciousness of the finite Jīva, which disappears with the disappearance of its object) (11).

गृधः is derived from the धातुः √गृध् (गृधुँ अभिकाङ्क्षायाम्, दिवादि-गणः, धातु-पाठः #४. १६१)

In the धातु-पाठः, “गृधुँ” has one इत् letter (by 1-3-2 उपदेशेऽजनुनासिक इत्) which is the उकार: following the धकार:। This इत् letter has a उदात्त-स्वर:। Thus √गृध् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √गृध् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) माङ् गृध् + लुँङ् । By 3-3-175 माङि लुङ्, the affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् “माङ्”।
Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् “माङ्”।

(2) मा गृध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मा गृध् + सिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “सिप्” as the substitute for the लकारः।

(4) मा गृध् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) मा गृध् + स् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) मा गृध् + च्लि + स् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) मा गृध् + अङ् + स् । By 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु – When a परस्मैपदम् affix follows, the affix “च्लि” is replaced by “अङ्” when following either –
i) a verbal root from the section beginning with √पुष् (पुषँ पुष्टौ ४. ७९) up to the end of the दिवादि-गणः। or
ii) a verbal root from the section beginning with √द्युत् (द्युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६)। or
iii) a verbal root which is ऌदित् (which has ऌकारः as a इत्)।

Note: 1-1-5 ग्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च

(8) मा गृध् + अ + स् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः

(9) मा गृधः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In Chapter 16 of the गीता can you spot a word in which the affix “च्लि” has taken the substitution “अङ्”?

2. Can you recall a सूत्रम् which justifies the use of आत्मनेपदम् in the form भुञ्जीथा:?

3. Where has लोँट् been used in the verses?

4. Where has the सूत्रम् 8-2-28 इट ईटि been used in the commentary?

5. In which तिङन्तं पदम् in the commentary has the verbal root √इ (इण् गतौ २. ४०) been used?

6. How would you say this in Sanskrit?
“Do not covet anyone’s wife.”

Easy Questions:

1. Where has the सूत्रम् 7-3-116 ङेराम्नद्याम्नीभ्यः been used in the verses?

2. Which सूत्रम् has been used for the “ना”-आदेशः in the form हेतुना (पुंलिङ्ग-प्रातिपदिकम् “हेतु”, तृतीया-एकवचनम्)?

Recent Posts

May 2012
M T W T F S S
« Apr   Jun »
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics