Today we will look at the form अस्राक्षीत् 3As-लुँङ् from श्रीमद्भागवतम् 3.7.4.
अस्राक्षीद्भगवान्विश्वं गुणमय्याऽऽत्ममायया । तया संस्थापयत्येतद्भूयः प्रत्यपिधास्यति ।। ३-७-४ ।।
देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम् ।। ३-७-५ ।।
श्रीधर-स्वामि-टीका –
यच्चोक्तं ‘स्मरन्विश्वसृजामीशो विज्ञापितमधोक्षजे’ इत्यादिनाऽविद्योपाधेर्जीवस्य भोगार्थमीश्वरः सृष्ट्यादि करोतीति तदप्याक्षेप्तुमनुवदति – अस्राक्षीदिति । गुणमयी आत्मनो जीवस्य कर्तृत्वभोक्तृत्वादिमोहोत्पादिका या माया तया सृष्टवान् । तदुक्तं प्रथमे ‘यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् ।। परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ।।’ इत्यादिना । अत्र च ‘अतो भगवतो माया मायिनामपि मोहिनी’ इति । संस्थापयति पालयति । प्रत्यपिधास्यति प्रातिलोम्येन तिरोहितं करिष्यति । पाठान्तरे प्रातिलोम्येनात्मन्यभितो धारयिष्यति ।। ४ ।। एतच्च जीवस्याविद्याश्रयत्वे घटेत, नतु तत्संभवतीत्याह – देशत इति । योऽसौ देशादिभिरविलुप्तावबोध आत्मा जीवः, ब्रह्मस्वरूपत्वात् । स कथमजयाऽविद्यया युज्येत । तत्र देशतो दीपप्रभाया इव लोपो नास्ति, सर्वगतत्वात् । न कालतः, विद्युत इव नित्यत्वात् । नावस्थातः, स्मृतिवदविक्रियत्वात्, न स्वतः, स्वप्नवत्सत्यत्वात् । नान्यतः, घटादिवदद्वितीयत्वात् । एवमेतैर्यस्य बोधो न लुप्यते स कथमजया युज्येत । अजा चात्राविद्यैव न माया, तस्या अवबोधेन विरोधाभावात् ।। ५ ।।
Gita Press translation – It was through his own Māyā, consisting of the three Guṇas (Sattva, Rajas and Tamas), that the Lord created the universe. Nay, it is through the same Māyā that He sustains it and shall finally withdraw it (4). How can He whose – knowledge – which is His very nature – is never obscured by space, time or circimstance either by itself or through any other external cause, be associated with Māyā? (5)
अस्राक्षीत् is derived from the धातुः √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०).
Note: There is also a धातुः √सृज् (दिवादि-गणः, सृजँ विसर्गे, धातु-पाठः #४. ७५)। But it is आत्मनेपदी and hence cannot be used in this example.
The ending अकार: (which is a इत्) of “सृजँ” has a उदात्त-स्वरः। Thus √सृज् (तुदादि-गणः) is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √सृज् (तुदादि-गणः) takes परस्मैपद-प्रत्यया: by default.
The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
(1) सृज् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.
(2) सृज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) सृज् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।
(4) सृज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) सृज् + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.
(6) सृज् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप् etc.
(7) सृज् + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।
(8) सृज् + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
(9) सृज् + स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
1-1-46 आद्यन्तौ टकितौ places the “ईट्”-आगमः at the beginning of the प्रत्ययः।
(10) सृज् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(11) सृ अम् ज् + स् + ईत् । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment “अम्”। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment “अम्” joins after the last vowel (ऋकार:) of the अङ्गम् “सृज्”।
(12) सृ अ ज् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(13) स्रज् + स् + ईत् । By 6-1-77 इको यणचि।
(14) स्राज् + स् + ईत् । By 7-2-3 वदव्रजहलन्तस्याचः, a vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.
(15) अट् स्राज् + स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।
(16) अ स्राज् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
(17) अ स्रा ष् + स् + ईत् । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.
(18) अस्राक् + स् + ईत् । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।
(19) अस्राक्षीत् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
Questions:
1. In which two consecutive verses of the गीता has √सृज् been used in a तिङन्तं पदम्?
2. Where has विधि-लिँङ् been used in the verses?
3. Where has विधि-लिँङ् been used in the commentary?
4. Which सूत्रम् is used for the “पुक्”-आगमः in the form संस्थापयति?
5. In which two words in the commentary has the affix “उ” (ref: 3-1-79 तनादिकृञ्भ्य उः) been used?
6. How would you say this in Sanskrit?
“The little girl cried for no reason.” Paraphrase this to “Without reason, the little girl shed tears.” Use √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०) for “to shed” and the स्त्रीलिङ्ग-प्रातिपदिकम् “बालिका” for “little girl.”
Easy Questions:
1. In which word in the verses has the प्रातिपदिकम् “अदस्” been used?
2. In which three words in the verses has the सूत्रम् 7-3-105 आङि चापः been used?
1. In which two consecutive verses of the गीता has √सृज् been used in a तिङन्तं पदम्?
Answer: √सृज् has been used in the form विसृजामि in verses 7 and 8 of Chapter 9.
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ।। 9-7 ।।
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ।। 9-8 ।।
सृजामि is derived from √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०). The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
सृज् + लँट् । By 3-2-123 वर्तमाने लट्।
= सृज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= सृज् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= सृज् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= सृज् + श + मि । By 3-1-77 तुदादिभ्यः शः। Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 ग्क्ङिति च to prevent 7-3-86 पुगन्तलघूपधस्य च from applying.
= सृज् + अ + मि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
= सृजामि । By 7-3-101 अतो दीर्घो यञि।
“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + सृजामि = विसृजामि।
2. Where has विधि-लिँङ् been used in the verses?
Answer: विधि-लिँङ् has been used in the form युज्येत derived from √युज् (रुधादि-गणः, युजिँर् योगे, धातु-पाठः # ७. ७).
The विवक्षा is विधि-लिँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
युज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् – The affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry or entreaty.।
= युज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= युज् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
= युज् + सीयुट् त । By 3-4-102 लिङस्सीयुट्।
= युज् + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
= युज् + ईय् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= युज् + ईत । By 6-1-66 लोपो व्योर्वलि।
= युज् + यक् + ईत । By 3-1-67 सार्वधातुके यक्। Note: Since the affix यक् is a कित्, 1-1-5 ग्क्ङिति च stops the गुणादेश: for the penultimate उकार: of the अङ्गम् “युज्” which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
= युज् + य + ईत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= युज्येत । गुणादेशः by 6-1-87 आद्गुणः।
3. Where has विधि-लिँङ् been used in the commentary?
Answer: विधि-लिँङ् been used in the form घटेत derived from √घट् (घटँ चेष्टायाम् १. ८६७).
The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
घट् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् – The affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry or entreaty.।
= घट् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= घट् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
= घट् + सीयुट् त । By 3-4-102 लिङस्सीयुट्।
= घट् + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
= घट् + ईय् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
= घट् + ईत । By 6-1-66 लोपो व्योर्वलि।
= घट् + शप् + ईत । By 3-1-68 कर्तरि शप्।
= घट् + अ + ईत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= घटेत । गुणादेशः by 6-1-87 आद्गुणः।
4. Which सूत्रम् is used for the “पुक्”-आगमः in the form संस्थापयति?
Answer: The सूत्रम् 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ is used for the “पुक्”-आगमः in the form संस्थापयति derived from √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).
The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः , there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And by the परिभाषा “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, it’s effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।
स्था + णिच् । By 3-1-26 हेतुमति च ।
= स्था + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= स्था पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ – the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम्।
= स्थाप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
= स्थापि। “स्थापि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
स्थापि + लँट् । By 3-2-123 वर्तमाने लट्।
= स्थापि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= स्थापि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= स्थापि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= स्थापि + शप् + ति । By 3-1-68 कर्तरि शप्।
= स्थापि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= स्थापे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= स्थापयति । By 6-1-78 एचोऽयवायावः।
“सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
सम् + स्थापयति = संस्थापयति । By 8-3-23 मोऽनुस्वारः।
5. In which two words in the commentary has the affix “उ” (ref: 3-1-79 तनादिकृञ्भ्य उः) been used?
Answer: A “उ”-प्रत्यय: has been used in the forms करोति derived from √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०) and in मनुते derived from √मन् (मनुँ अवबोधने ८. ९).
करोति – The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
कृ + लँट् । By 3-2-123 वर्तमाने लट्।
= कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= कृ + उ + ति । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= कर् + उ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
= कर् + ओ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= करोति ।
मनुते – The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
मन् + लँट् । By 3-2-123 वर्तमाने लट्।
= मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
= मन् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
= मन् + उ + ते । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
= मनुते । Note: Since the प्रत्यय: “त” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 क्क्ङिति च prevents the गुणादेश: for the ending उकार: (of the अङ्गम् “मनु”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
6. How would you say this in Sanskrit?
“The little girl cried for no reason.” Paraphrase this to “Without reason, the little girl shed tears.” Use √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०) for “to shed” and the स्त्रीलिङ्ग-प्रातिपदिकम् “बालिका” for “little girl.”
Answer: बालिका विना कारणम् अश्रूणि अस्राक्षीत् = बालिका विना कारणमश्रूण्यस्राक्षीत्।
Easy Questions:
1. In which word in the verses has the प्रातिपदिकम् “अदस्” been used?
Answer: The “अदस्”-प्रातिपदिकम् has been used in the form असौ (पुंलिङ्गे प्रथमा-एकवचनम्)।
अदस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा……।
= अद औ । By 7-2-107 अदस औ सुलोपश्च, “अदस्” gets “औ”-आदेशः and सुँ-प्रत्ययः takes लोपः। By 1-1-52 अलोऽन्त्यस्य, only the ending सकारः of “अदस्” gets replaced by “औ”।
= अदौ । By 6-1-88 वृद्धिरेचि।
= असौ । Even though the सुँ-प्रत्ययः is elided, it is considered as following the अङ्गम् by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। Since the affix “सुँ” follows, by 7-2-106 तदोः सः सावनन्त्ययोः, the दकारः of अदौ gets सकारः as replacement.
2. In which three words in the verses has the सूत्रम् 7-3-105 आङि चापः been used?
Answer: 7-3-105 आङि चापः been used in the forms आत्ममायया (स्त्रीलिङ्ग-प्रातिपदिकम् “आत्ममाया”), तया (सर्वनाम-प्रातिपदिकम् “तद्”, स्त्रीलिङ्गे) and अजया (स्त्रीलिङ्ग-प्रातिपदिकम् “अजा”)। The विवक्षा is तृतीया-एकवचनम्।
आत्ममाया + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= आत्ममाया + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= आत्ममाये + आ । By 7-3-105 आङि चापः – A nominal stem ending in the feminine affix “आप्” gets एकारः as the substitute when followed by the affix “आङ्” (टा) or “ओस्”। Note: As per 1-1-52, only the ending आकार: of the अङ्गम् is replaced by a एकारः।
= आत्ममायया । By 6-1-78 एचोऽयवायावः।
Similarly in अजया।
तद् + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= तद् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= त अ + आ । By 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
= त + आ । By 6-1-97 अतो गुणे।
= त टाप् + आ । By 4-1-4 अजाद्यतष्टाप्।
= त आ + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= ता + आ । By 6-1-101 अकः सवर्णे दीर्घः।
= ते + आ । By 7-3-105 आङि चापः – A nominal stem ending in the feminine affix “आप्” gets एकारः as the substitute when followed by the affix “आङ्” (टा) or “ओस्”। Note: As per 1-1-52, only the ending आकार: of the अङ्गम् is replaced by a एकारः।
= तया । By 6-1-78 एचोऽयवायावः।