Today we will look at the form अवरुन्ध्महे 1Ap-लँट् from श्रीमद्भागवतम् Sb5.1.15.
ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग दुःखं सुखं वा गुणकर्मसङ्गात् ।
आस्थाय तत्तद्यदयुङ्क्त नाथश्चक्षुष्मतान्धा इव नीयमानाः ।। ५-१-१५ ।।
Gita Press translation “Taking whatever form the Lord has ordained for us according to our attachment to actions dominated by a particular Guna (mode of Prakrti), and conducted by him even as the blind are led by one endowed with vision, we undergo pleasurable or painful experiences decreed by God, O dear Priyavrata.”
रुन्ध्महे is derived from the धातुः √रुध् (रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १)
“इर्” of “रुधिँर्” gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या”। The इकारः of “इर्” has a स्वरित-स्वर: here. Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √रुध्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √रुध्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √रुध् will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √रुध्-धातुः will be उभयपदी। In this verse it has taken a आत्मनेपद-प्रत्यय:।
The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: will be “महिङ्”।
(1) रुध् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
(2) रुध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) रुध् + महिङ् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “महिङ्” as the substitute for the लकारः। “महिङ्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
(4) रुध् + महि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
(5) रुध् + महे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
(6) रु श्नम् ध् + महे । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (उकार:) of the अङ्गम् “रुध्”।
This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप् ।
(7) रुनध् + महे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
(8) रुन् ध् + महे । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: “श्न” refers to the “श्नम्”-प्रत्यय: (ref. 3-1-78 रुधादिभ्यः श्नम्)।
Note: By 1-2-4 सार्वधातुकमपित्, the “महे”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। This allows 6-4-111 to apply.
(9) रुंध्महे । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.
(10) रुन्ध्महे । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.
“अव” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अव + रुन्ध्महे = अवरुन्ध्महे।
Questions:
1. Where has 6-4-111 श्नसोरल्लोपः (used in step 8 of this example) been used for the last time in the गीता?
2. Where else (besides in रुन्ध्महे) has 3-1-78 रुधादिभ्यः श्नम् been used in the verse?
3. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय:| (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले । If there is a compound formation then the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्)। In this verse the word “आस्थाय” ends in ल्यप्-प्रत्यय:। Who is/are the common doer(s)?
4. Can you spot two places in the verse where the “टा”-प्रत्यय: has been used?
5. How would you say this in Sanskrit?
“The enemies besieged our city.” Use the neuter प्रातिपदिकम् “पुर” for “city” and √रुध् (रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १) with the उपसर्ग: “अव” for “to besiege.”
6. How would you say this in Sanskrit?
“Why do you use complicated sentences?” Use the adjective “जटिल” for “complicated”, the अव्ययम् “कस्मात्” for “why” and √युज् (युजिँर् योगे ७. ७) with the उपसर्ग: “प्र” for “to use.”
Easy questions:
1. Which सूत्रम् is used for हि + अवरुन्ध्महे = ह्यवरुन्ध्महे?
2. Where has 8-4-40 स्तोः श्चुना श्चुः been used in the verse?
Questions:
1. Where has 6-4-111 श्नसोरल्लोपः (used in step 8 of this example) been used for the last time in the गीता?
Answer: 6-4-111 श्नसोरल्लोपः has been used for the last time in the गीता in the form “स्याम्”, verse 70 chapter 18, derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०).
The विवक्षा is विधिलिँङ, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
अध्येष्यते च य इमं धर्म्यं संवादमावयोः |
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः || 18-70||
अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
= अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= अस् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
= अस् + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः। अम् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ।
= अस् + यासुट् अम् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च। 1-1-46 आद्यन्तौ टकितौ places the “यासुट्”-आगमः at the beginning of the प्रत्यय:।
= अस् + यास् अम् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
= अस् + शप् + यास् अम् । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
= अस् + यास् अम् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
= अस् + या अम् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य ।
= अस् + याम् । By 6-1-101 अकः सवर्णे दीर्घः ।
= स्याम् । By 6-4-111 श्नसोरल्लोपः । (Note: Since the यासुट्-आगम: is ङित् as per 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the प्रत्यय: “याम्” is ङित्। This allows 6-4-111 to apply.)
2. Where else (besides in रुन्ध्महे) has 3-1-78 रुधादिभ्यः श्नम् been used in the verse?
Answer: 3-1-78 रुधादिभ्यः श्नम् is used in the form अयुङ्क्त derived from the धातुः √युज् (रुधादि-गणः, युजिँर् योगे, धातु-पाठः # ७. ७). The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
युज् + लँङ् । By 3-2-111 अनद्यतने लङ्।
= युज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= युज् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= यु श्नम् ज् + त। By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात्परः।
= युनज् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= युन्ज् + त । By 6-4-111 श्नसोरल्लोपः।
= अट् युन्ज् + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
= अ युन्ज् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
= अ युन्ग् + त । By 8-2-30 चोः कुः।
= अ युंग् + त। By 8-3-24 नश्चापदान्तस्य झलि।
= अ युंक् +त । By 8-4-55 खरि च।
= अयुङ्क्त । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।
3. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय:| (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले । If there is a compound formation then the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्)। In this verse the word “आस्थाय” ends in ल्यप्-प्रत्यय:। Who is/are the common doer(s)?
Answer: The common doer is “we” (वयम्)।
4. Can you spot two places in the verse where the “टा”-प्रत्यय: has been used?
Answer: “टा”-प्रत्यय: has been used in the forms चक्षुष्मता (प्रातिपदिकम् “चक्षुष्मत्”) and ईशा (प्रातिपदिकम् “ईश्”)।
चक्षुष्मत्/ईश् + टा । By 4-1-2 स्वौजसमौट्छष्टा………।
=चक्षुष्मत्/ईश् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
= चक्षुष्मता/ईशा।
5. How would you say this in Sanskrit?
“The enemies besieged our city.” Use the neuter प्रातिपदिकम् “पुर” for “city” and √रुध् (रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १) with the उपसर्ग: “अव” for “to besiege.”
Answer: शत्रवः अस्माकम् पुरम् अवारुन्धन् = शत्रवोऽस्माकं पुरमवारुन्धन्।
6. How would you say this in Sanskrit?
“Why do you use complicated sentences?” Use the adjective “जटिल” for “complicated”, the अव्ययम् “कस्मात्” for “why” and √युज् (युजिँर् योगे ७. ७) with the उपसर्ग: “प्र” for “to use.”
Answer: कस्मात् जटिलानि वाक्यानि प्रयुङ्क्षे = कस्माज्जटिलानि वाक्यानि प्रयुङ्क्षे।
Easy questions:
1. Which सूत्रम् is used for हि + अवरुन्ध्महे = ह्यवरुन्ध्महे?
Answer: The सूत्रम् 6-1-77 इको यणचि is used for हि + अवरुन्ध्महे = ह्यवरुन्ध्महे।
2. Where has 8-4-40 स्तोः श्चुना श्चुः been used in the verse?
Answer: 8-4-40 स्तोः श्चुना श्चुः has been used in the सन्धि-कार्यम् between नाथस् + चक्षुष्मता = नाथश्चक्षुष्मता।
नाथस् + चक्षुष्मता
= नाथर् + चक्षुष्मता (8-2-66 ससजुषो रुँ: , 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः )
= नाथस् + चक्षुष्मता (8-3-15 खरवसानयोर्विसर्जनीयः, 8-3-34 विसर्जनीयस्य सः)
= नाथश् चक्षुष्मता ( 8-4-40 स्तोः श्चुना श्चुः, when the letter “स्” or a letter of the त-वर्ग: (“त्”, “थ्”, “द्”, “ध्”, “न्”) comes in contact with either the letter “श्” or a letter of the च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”), then it is replaced respectively by “श्”, च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”)।
= नाथश्चक्षुष्मता।