Today we will look at the form अजहात् 3As-लँङ् from श्रीमद्भागवतम् Sb1-13-59.
इत्युक्त्वाथारुहत्स्वर्गं नारदः सहतुम्बुरुः ।
युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः ।। १-१३-५९ ।।
Gita Press translation “Having told him all this, the sage Nārada with Tumburu immediately ascended to heaven; and, treasuring up his words in his heart, Yudhiṣṭhira ceased sorrowing.”
अजहात् is derived from the धातुः √हा (जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९)
The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
In the धातु-पाठः, the √हा-धातुः has ओकारः and ककारः as इत् by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-3 हलन्त्यम् respectively. After 1-3-9 तस्य लोपः only “हा” remains. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √हा-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √हा-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।
(1) हा + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.
(2) हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) हा + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
(4) हा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) हा + त् । 3-4-100 इतश्च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.
(6) हा + शप् + त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
(7) हा + त् । By 2-4-75 जुहोत्यादिभ्यः श्लुः, the शप्-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).
(8) हा + हा + त् । By 6-1-10 श्लौ, a verbal root when followed by “श्लु” gets reduplicated.
(9) झा + हा + त् । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
(क्, ख्, ग्, घ्, ङ्, ह्) are replaced by (च्, छ्, ज्, झ्, ञ्, झ्) respectively.
(10) झ + हा + त् । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.
(11) अट् झहात् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।
(12) अ झहात् । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
(13) अजहात् । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
Questions:
1. In which chapter of the गीता has √हा (ओँहाक् त्यागे, धातु-पाठः #३.९) been used in a तिङन्तं पदम् in two places?
2. Why didn’t the सूत्रम् 6-4-116 जहातेश्च apply in this example? (Which condition was not satisfied?)
3. In the nine items in the conjugation table of √हा (ओँहाक् त्यागे, धातु-पाठः #३.९) with लँङ्, in which form does 3-4-109 सिजभ्यस्तविदिभ्यश्च apply?
4. Can you spot a शस्-प्रत्यय: in the verse?
5. Which अधिकार-सूत्राणि exert their influence on the सूत्रम् 3-2-111 अनद्यतने लङ्?
6. How would you say this in Sanskrit?
“Stop worrying.” Paraphrase to “Give up worry.” Use the feminine प्रातिपदिकम् “चिन्ता” for “worry.”
Easy Questions:
1. By which सूत्रम् does the term कृत्वा get the अव्यय-सञ्ज्ञा?
2. Where has 8-4-63 शश्छोऽटि been used in the verse?
Questions:
1. In which chapter of the गीता has √हा (ओँहाक् त्यागे, धातु-पाठः #३.९) been used in a तिङन्तं पदम् in two places?
Answer: In Chapter Two √हा, (ओँहाक् त्यागे, धातु-पाठः #३.९) been used in a तिङन्तं पदम् in the form जहाति in two places.
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते |
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् || 2-50||
श्रीभगवानुवाच |
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् |
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते || 2-55||
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
हा + लँट् । By 3-2-123 वर्तमाने लट्।
= हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हा + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
= हा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हा + शप् + ति । By 3-1-68 कर्तरि शप्।
= हा ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
= हा + हा + ति । By 6-1-10 श्लौ।
= झा + हा + ति । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
= झ + हा + ति । By 7-4-59 ह्रस्वः।
= जहाति । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।
2. Why didn’t the सूत्रम् 6-4-116 जहातेश्च apply in this example? (Which condition was not satisfied?)
Answer: The सूत्रम् 6-4-116 जहातेश्च (the आकारः of the धातुः √हा (ओहाक् त्यागे #३.९) is optionally replaced by इकारः when followed by हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित् ।) did not apply in this example because the सार्वधातुक-प्रत्यय: “तिप्” is a पित् and hence not a ङित् by 1-2-4 सार्वधातुकमपित् ।
3. In the nine items in the conjugation table of √हा (ओँहाक् त्यागे, धातु-पाठः #३.९) with लँङ्, in which form does 3-4-109 सिजभ्यस्तविदिभ्यश्च apply?
Answer: In the nine items in the conjugation table of √हा (ओँहाक् त्यागे, धातु-पाठः #३.९) with लँङ्, 3-4-109 सिजभ्यस्तविदिभ्यश्च applies to the form अजहुः । The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम् ।
हा + लँङ् । By 3-2-111 अनद्यतने लङ् ।
= हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हा + झि। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
= हा + जुस् । By 3-4-109 सिजभ्यस्तविदिभ्यश्च।
= हा + उस् । 1 -3-7 चुटू , 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: from getting the इत्-सञ्ज्ञा।
= हा + शप् + उस् । By 3-1-68 कर्तरि शप् ।
= हा + उस् । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
= हा + हा + उस् । By 6-1-10 श्लौ।
= झा + हा + उस् । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
= झ + हा + उस् । By 7-4-59 ह्रस्वः।
= झ + ह् + उस् । By 6-4-112 श्नाभ्यस्तयोरातः।
= अट् झहुस् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः,1-1-46 आद्यन्तौ टकितौ ।
= अझहुस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= अझहुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
= अजहुः । 8-4-54 अभ्यासे चर्च।
4. Can you spot a शस्-प्रत्यय: in the verse?
Answer: शस्-प्रत्यय: is seen in the form शुचः (द्वितीया-बहुवचनम्) formed from the स्त्रीलिङ्ग-प्रातिपदिकम् “शुच्”।
शुच् + शस् । 4-1-2 स्वौजसमौट्छष्टा………।
= शुच् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: from getting the इत्-सञ्ज्ञा।
= शुचः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
5. Which अधिकार-सूत्राणि exert their influence on the सूत्रम् 3-2-111 अनद्यतने लङ्?
Answer: The following अधिकार-सूत्राणि exert their influence on the सूत्रम् 3-2-111 अनद्यतने लङ् –
(1) 3-1-1 प्रत्ययः, 3-1-2 परश्च (This अधिकार: continues till the end of the Fifth Chapter.)
(2) 3-1-91 धातोः (This अधिकार: continues till the end of Third Chapter.)
(3) 3-2-84 भूते (This अधिकार: continues up to – not including – 3-2-123 वर्तमाने लट्। This is what make लँङ् a past tense.)
6. How would you say this in Sanskrit?
“Stop worrying.” Paraphrase to “Give up worry.” Use the feminine प्रातिपदिकम् “चिन्ता” for “worry.”
Answer: चिन्ताम् जहीहि/जहिहि/जहाहि = चिन्तां जहीहि/जहिहि/जहाहि ।
Easy Questions:
1. By which सूत्रम् does the term कृत्वा get the अव्यय-सञ्ज्ञा?
Answer: The term कृत्वा gets the अव्यय-सञ्ज्ञा by the सू´त्रम् 1-1-40 क्त्वातोसुन्कसुनः, the words ending in the affixes क्त्वा, तोसुन् and कसुन्, are also designated as indeclinables.
2. Where has 8-4-63 शश्छोऽटि been used in the verse?
Answer: 8-4-63 शश्छोऽटि has been used in the सन्धि-कार्यम् between अजहात्, शुचः।
अजहात् + शुचः ।
= अजहाद् + शुचः । 8-2-39 झलां जशोऽन्ते।
= अजहाज् + शुचः । 8-4-40 स्तोः श्चुना श्चुः।
= अजहाच् + शुचः । 8-4-55 खरि च।
= अजहाच्छुचः। 8-4-63 शश्छोऽटि, when a झय् letter precedes, then the letter श् is optionally substituted by the letter छ्, if an अट् letter follows.