Today we will look at the form अगात् 3As-लुँङ् from श्रीमद्भागवतम् 3.18.27.
अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात् । शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम् ।। ३-१८-२७ ।।
दिष्ट्या त्वां विहितं मृत्युमयमासादितः स्वयम् । विक्रम्यैनं मृधे हत्वा लोकानाधेहि शर्मणि ।। ३-१८-२८ ।।
श्रीधर-स्वामि-टीका –
अभिजिन्मध्याह्नः । स एव मौहूर्तिको योगः सन् । मुहूर्तः शुभदः कालः अगाद्गतप्रायः । अतो यावन्मुहूर्तशेषोऽस्ति तावदेव सुदुस्तरमेनं निस्तर जहि ।। २७ ।। त्वां मृत्युं त्वयैव शापानुग्रहकाले विहितं निर्मितम् । आसादितः प्राप्तः । शर्मणि सुखे आधेहि स्थापय ।। २८ ।।
Gita Press translation – The auspicious period, known by the name of Abhijit (so opportune for victory), which commenced at midday, has now all but passed. Therefore, in the interest of us, Your friends, pray, dispose of this formidable foe quickly (27). This fellow has, luckily enough for us, come of his own accord to You, his death, ordained (by Yourself). Therefore, exhibiting Your prowess, kill him in this duel and establish the worlds in peace (28).
अगात् is derived from the धातुः √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०)
This धातु: is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √इ (इण् गतौ २. ४०) takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √इ (इण् गतौ २. ४०) can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।
The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
(1) गा + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past. By 2-4-45 इणो गा लुङि – When the intention is to add the affix “लुँङ्”, there is a substitution of “गा” in the place of √इ (इण् गतौ २. ४०).
(2) गा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) गा + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।
(4) गा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) गा + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.
(6) गा + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप् etc.
(7) गा + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।
(8) गा + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).
Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.
(9) अट् गा + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the augment “अट्” which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the augment “अट्” at the beginning of the अङ्गम्।
(10) अगात् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
Questions:
1. The सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (used in step 8) is used in the गीता in only one word. Which one is it?
2. Commenting on the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, the सिद्धान्त-कौमुदी says “गापाविहेणादेशपिबती गृह्येते।” Please explain.
3. Where has the सूत्रम् 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च been used in the verses?
4. Why doesn’t the सूत्रम् 6-4-105 अतो हेः apply in the form जहि?
5. Can you spot the affix “णिच्” in a तिङन्तं पदम् in the commentary?
6. How would you say this in Sanskrit?
“My daughter went to school in the morning.” Use the (compound) feminine प्रातिपदिकम् “पाठशाला” for “school.”
Easy Questions:
1. Is there an alternate form (by the सूत्रम् 6-4-136 विभाषा ङिश्योः) for the word शर्मणि (नपुंसकलिङ्ग-प्रातिपदिकम् “शर्मन्”, सप्तमी-एकवचनम्)?
2. Where has the सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः been used in the verses?
1. The सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (used in step 8) is used in the गीता in only one word. Which one is it?
Answer: The सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु is used in the गीता in the word मा भूः derived from √भू (भू सत्तायाम् १. १).
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ।। 2-47 ।।
The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
माङ् भू + लुँङ् । By 3-3-175 माङि लुङ्, the affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् “माङ्”।
Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् “माङ्”।
= माङ् भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मा भू + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= मा भू + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= मा भू + स् । By 3-4-100 इतश्च।
= मा भू + च्लि + स् । By 3-1-43 च्लि लुङि।
= मा भू + सिँच् + स् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।
= मा भू + स् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).
Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.
Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। Here 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
= मा भूः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
2. Commenting on the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, the सिद्धान्त-कौमुदी says “गापाविहेणादेशपिबती गृह्येते।” Please explain.
Answer: The term “गा” in this सूत्रम् could refer to the verbal root (i) √गै (गै शब्दे १. १०६५) which becomes “गा” by 6-1-45 आदेच उपदेशेऽशिति or (ii) √इ (इण् गतौ २. ४०) which becomes “गा” by 2-4-45 इणो गा लुङि। The सिद्धान्त-कौमुदी clarifies that in this सूत्रम् the term “गा” refers to (ii) – इणादेशः – the “गा” that comes as a substitute for √इ (इण् गतौ २. ४०).
Similarly the term “पा” in the सूत्रम् could refer to the verbal root (i) √पा (पा पाने १. १०७४) or (ii) √पा (पा रक्षणे २. ५१). The सिद्धान्त-कौमुदी clarifies that in this सूत्रम् the term “पा” refers to (i) – पिबति – √पा (पा पाने १. १०७४).
This is what is meant by the statement “गापाविहेणादेशपिबती गृह्येते” = “गापौ इह इण्-आदेश-पिबती गृह्येते।”
3. Where has the सूत्रम् 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च been used in the verses?
Answer: The सूत्रम् 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च is used in the form आधेहि derived from √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).
धा + लोँट् । By 3-3-162 लोट् च।
= धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= धा + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= धा + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
= धा + हि । By 3-4-87 सेर्ह्यपिच्च।
= धा + शप् + हि । By 3-1-68 कर्तरि शप्।
= धा + हि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
= धा धा + हि । By 6-1-10 श्लौ।
= ध + धा + हि । By 7-4-59 ह्रस्वः।
= धेहि । By 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च, when the “हि”-प्रत्यय: follows, there is a substitution of एकार: in place of a धातु: that has the घु-सञ्ज्ञा and also in place of √अस् (असँ भुवि #२. ६०)। Simultaneously there is a लोप: of the अभ्यास: (if any). √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्। Note: As per 1-1-52 अलोऽन्त्यस्य, only the ending आकार: of “धा” is replaced by a एकारः।
“आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
आङ् + धेहि = आधेहि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
4. Why doesn’t the सूत्रम् 6-4-105 अतो हेः apply in the form जहि?
Answer: जहि is derived from √हन् (हनँ हिंसागत्योः २. २).
The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
हन् + लोँट् । By 3-3-162 लोट् च।
= हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हन् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= हन् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हन् + हि । By 3-4-87 सेर्ह्यपिच्च।
= हन् + शप् + हि । By 3-1-68 कर्तरि शप्।
= हन् + हि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
= जहि । By 6-4-36 हन्तेर्जः, when followed by the हि-प्रत्ययः “हन्” gets “ज” as the replacement. As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “हन्” is replaced by “ज”।
Note: By 6-4-105 अतो हेः, the हि-प्रत्ययः should have taken elision. But since both 6-4-36 and 6-4-105 belong to the अधिकारः of 6-4-22 असिद्धवदत्राभात्, the “ज”-आदेश: that was done by 6-4-36 is not seen by 6-4-105. Only “हन्” is seen by 6-4-105 and therefore there is no elision of the हि-प्रत्ययः here and the form remains as जहि।
Note: Both 6-4-36 and 6-4-105 prescribe an operation that involves the हि-प्रत्यय:। Since they are both based on a common element, 6-4-22 comes into effect.
5. Can you spot the affix “णिच्” in a तिङन्तं पदम् in the commentary?
Answer: The affix “णिच्” has been used in the form स्थापय derived from √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).
The विवक्षा is लोँट्, मध्यम-पुरुषः, कर्तरि प्रयोगः (हेतुमति), एकवचनम्।
The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः , there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And by the परिभाषा “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, it’s effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।
स्था + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= स्था + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= स्था पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ – the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम्।
= स्थाप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
= स्थापि। “स्थापि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
स्थापि + लोँट् । By 3-2-123 लोट् च ।
= स्थापि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= स्थापि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= स्थापि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= स्थापि + हि । By 3-4-87 सेर्ह्यपिच्च।
= स्थापि + शप् + हि । By 3-1-68 कर्तरि शप्।
= स्थापि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= स्थापे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= स्थापय + हि । By 6-1-78 एचोऽयवायावः।
= स्थापय । By 6-4-105 अतो हेः।
6. How would you say this in Sanskrit?
“My daughter went to school in the morning.” Use the (compound) feminine प्रातिपदिकम् “पाठशाला” for “school.”
Answer: मम पुत्री प्रातर् पाठशालाम् अगात् = मम पुत्री प्रातः पाठशालामगात्।
Easy Questions:
1. Is there an alternate form (by the सूत्रम् 6-4-136 विभाषा ङिश्योः) for the word शर्मणि (नपुंसकलिङ्ग-प्रातिपदिकम् “शर्मन्”, सप्तमी-एकवचनम्)?
Answer: NO. There is no alternate form for शर्मणि। An alternate form would have been possible by 6-4-136 विभाषा ङिश्योः – The अकारः of the अन् in the अङ्गम् when a स्वादि-प्रत्यय: that follows is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), is elided only optionally when the प्रत्यय: that is following is “ङि” or “शी”। But in the case of शर्मणि there is no अकार-लोप: at all because of the prohibition rule 6-4-137 न संयोगाद्वमन्तात् – The अकारः of “अन्” does not take लोपः (as ordained by 6-4-134 अल्लोपोऽनः), when it follows a conjunct that has वकारः or मकारः as its last member. The प्रातिपदिकम् here is “शर्मन्” (= श र्म् अन्)। We have the conjunct “र्म्” preceding “अन्” – hence 6-4-137 न संयोगाद्वमन्तात् prohibits अकार-लोप:।
2. Where has the सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः been used in the verses?
Answer: 2-4-34 द्वितीयाटौस्स्वेनः is used for the “एन”-आदेश: in the form एनम् (सर्वनाम-प्रातिपदिकम् “इदम्” or “एतद्”, पुंलिङ्गे द्वितीया-एकवचनम्)।
इदम्/एतद् + अम् । By 4-1-2 स्वौजसमौट्छष्टा………। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
= एन + अम् । By 2-4-34 द्वितीयाटौस्स्वेनः, “इदम्” and “एतद्” get “एन” as the replacement when followed by the affixes of the second case or the affix “टा” or “ओस्”, when used in अन्वादेश:। Note: अन्वादेश: (अनु + आदेश:) (re-employment or after-statement) means a second reference to one and the same item already referred to by an earlier word.
Note: As per 1-1-55 अनेकाल्शित्सर्वस्य entire term “इदम्/एतद्” is replaced by “एन”।
= एनम् । By 6-1-107 अमि पूर्वः, in place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter. In this case, in place of the ending अकार: of “एन” and the following अकार: of “अम्” there is a single substitute which is the prior अकार:।