Home » Example for the day » अकार्षीत् 3As-लुँङ्

अकार्षीत् 3As-लुँङ्

Today we will look at the form अकार्षीत् 3As-लुँङ् from श्रीमद्भागवतम् 3.17.18.

दिविस्पृशौ हेमकिरीटकोटिभिर्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ । गां कम्पयन्तौ चरणैः पदे पदे कट्या सुकाञ्च्यार्कमतीत्य तस्थतुः ।। ३-१७-१७ ।।
प्रजापतिर्नाम तयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत । तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साग्रतः ।। ३-१७-१८ ।।

श्रीधर-स्वामि-टीका
निरुद्धा व्याप्ताः काष्ठा दिशो याभ्याम् । स्फुरन्त्यङ्गदानि येषु ते भुजा ययोः । अङ्गदेति टाबन्तत्वमार्षम् । शोभना काञ्ची यस्यां तया कट्या ।। १७ ।। यमयोर्मध्ये यः स्वदेहात्प्रथममजायत तं यथा हिरण्यकशिपुं विदुः। सा दितिः प्रथमं यमसूत तं हिरण्याक्षं यथा विदुस्तथा नाम कृतवानित्यर्थः । अयं भावः – यदा हि गर्भाधानसमये योनिपुष्पं विशद्वीर्यं द्विधा विभक्तमादिपश्चाद्भावेन प्रविशति तदा यमौ भवतस्तयोश्च पितृतः प्रवेशक्रमविपर्ययेण मातृतः प्रसूतिः । ‘यदा विशेद्द्विधा भूतं बीजं पुष्पं परिक्षरत् ।। द्वौ तदा भवतो गर्भौ सूतिर्वेशविपर्ययात् ।।’ इति पिण्डसिद्धिस्मरणात् । अतः स्वदेहात्पूर्वं यो जातस्तस्य हिरण्यकशिपुरिति दितिः प्रथमं यमसूत तस्य हिरण्याक्ष इति नाम कृतवानिति ।। १८ ।।

Gita Press translation – Kissing the sky with the crests of their gold crowns, screening the quarters (with their bodies) and shaking the earth with their footfall at every step, and their arms adorned with brilliant bracelets, they stood eclipsing the sun by their waist, which was surrounded with an excellent girdle (17). Kaśyapa (one of the lords of created beings) gave them names. (Accordingly) of the two twin brothers, the people came to know the one who descended from his loins (and entered the womb) first, by the name of Hiraṇyakaśipu; while he whom Diti brought forth first was known as Hiraṇyākṣa (18).

Note: नाम तयोरकार्षीत् literally means “made their names.” The translation has “gave them names.”

अकार्षीत् is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets the इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since √कृ has ञकारः as a इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, this धातुः is उभयपदी। In this verse, √कृ has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) कृ + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) कृ + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) कृ + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) कृ + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) कृ + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(9) कृ + स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
As per 1-1-46 आद्यन्तौ टकितौ the “ईट्”-आगमः attaches to the beginning of the प्रत्ययः।

(10) कृ + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) कार् + स् + ईत् । By 7-2-1 सिचि वृद्धिः परस्मैपदेषु – (The ending letter of) a base (अङ्गम्) which ends in a इक् letter takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(12) अट् कार् + स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। As per 1-1-46 आद्यन्तौ टकितौ the “अट्”-आगमः attaches to the beginning of the अङ्गम्।

(13) अ कार् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(14) अकार्षीत् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु (used in step 11) been used in the गीता?

2. Which लकारः (लँङ् or लुँङ्) has been used in the form असूत?

3. Which सूत्रम् is used for the “जा”-आदेशः in the form अजायत?

4. What is the optional form for विदुः?

5. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?

6. How would you say this in Sanskrit?
“Who committed (did) this crime?” Use the masculine प्रातिपदिकम् “अपराध” for “crime.”

Easy Questions:

1. Where has the सूत्रम् 7-3-102 सुपि च been used in the commentary?

2. Why doesn’t the सूत्रम् 7-2-102 त्यदादीनामः apply in the form अयम् (used in the commentary)?


1 Comment

  1. 1. Where has the सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु (used in step 11) been used in the गीता?
    Answer: The सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु has been used in verse 74 of Chapter 18 in the form अश्रौषम् derived from √श्रु (श्रु श्रवणे १. १०९२).
    सञ्जय उवाच
    इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
    संवादमिममश्रौषमद्भुतं रोमहर्षणम्‌ ।। 18-74 ।।

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    श्रु + लुँङ् । By 3-2-110 लुङ्।
    = श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = श्रु + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = श्रु + च्लि + अम् । By 3-1-43 च्लि लुङि।
    = श्रु + सिँच् + अम् । By 3-1-44 च्लेः सिच्।
    = श्रु + स् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = श्रौ + स् + अम् । By 7-2-1 सिचि वृद्धिः परस्मैपदेषु – (The ending letter of) a base (अङ्गम्) which ends in a इक् letter takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.
    = अट् श्रौ + स् + अम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ श्रौ + स् + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अश्रौषम् । By 8-3-59 आदेशप्रत्यययो:।

    2. Which लकारः (लँङ् or लुँङ्) has been used in the form असूत?
    Answer: लँङ् has been used in the form असूत derived from सू (षूङ् प्राणिगर्भविमोचने २. २५). The beginning षकार: of the धातु: gets the सकारादेश: by 6-1-64 धात्वादेः षः सः। The ending ङकार: gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    सू + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = सू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सू + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = सू + शप् + त । By 3-1-68 कर्तरि शप्।
    = सू + त । By 2-4-72 अदिप्रभृतिभ्यः शपः। Since the प्रत्यय: “त” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = अट् सू + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = असूत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    If लुँङ् had been used, the form would be either असविष्ट (“इट्”-पक्षे) or असोष्ट (“इट्”-अभावे)।
    “इट्”-पक्षे
    सू + लुँङ् । By 3-2-110 लुङ्।
    = सू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सू + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = सू + च्लि + त । By 3-1-43 च्लि लुङि।
    = सू + सिँच् + त । By 3-1-44 च्लेः सिच्।
    = सू + स् + त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सू + इट् स् + त । By 7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा – An आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः optionally gets the augment इट् when following a verbal root that is ऊदित् (has ऊकार: as a इत्) or the verbal root √स्वृ (स्वृ शब्दोपतापयोः १. १०८१) or √सू (षूङ् प्राणिगर्भविमोचने २. २५) or √सू (षूङ् प्राणिप्रसवे ४. २७) or √धू (धूञ् कम्पने ५. १०, ९. २०). As per 1-1-46 आद्यन्तौ टकितौ, the augment “इट्” attaches to the beginning of the प्रत्यय:।
    = सू + इ स् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = सो + इ स् + त । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = सविस्त । By 6-1-78 एचोऽयवायावः।
    = अट् सविस्त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ सविस्त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = असविष्त । By 8-3-59 आदेशप्रत्यययो:।
    = असविष्ट । By 8-4-41 ष्टुना ष्टुः।

    “इट्”-अभावे
    सू + लुँङ् । By 3-2-110 लुङ्।
    = सू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सू + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = सू + च्लि + त । By 3-1-43 च्लि लुङि।
    = सू + सिँच् + त । By 3-1-44 च्लेः सिच्।
    = सू + स् + त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सो + स् + त । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = अट् सो + स् + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ सो + स् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = असोष्त । By 8-3-59 आदेशप्रत्यययो:।
    = असोष्ट । By 8-4-41 ष्टुना ष्टुः।

    3. Which सूत्रम् is used for the “जा”-आदेशः in the form अजायत?
    Answer: The सूत्रम् 7-3-79 ज्ञाजनोर्जा is used for the “जा”-आदेशः in the form अजायत derived from √जन् (दिवादि-गणः, जनीँ प्रादुर्भावे, धातु-पाठः # ४. ४४).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    जन् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = जन् + श्यन् + त । By 3-1-69 दिवादिभ्यः श्यन्।
    = जन् + य + त । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जा + य + त । By 7-3-79 ज्ञाजनोर्जा – The verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा” when followed by a शित्-प्रत्ययः। As per 1-1-55 अनेकाल्शित्सर्वस्य entire अङ्गम् “जन्” is replaced.
    = अट् जायत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अजायत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    4. What is the optional form for विदुः?
    Answer: The alternate form is विदन्ति

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    विद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = विद् + शप् + झि । By 3-1-68 कर्तरि शप्।
    = विद् + झि । By 2-4-72 अदिप्रभृतिभ्यः शपः। Note: Since ‘झि’ is a सार्वधातुक-प्रत्यय: and is अपित् (does not have पकार: as an इत्), it becomes ङिद्वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। Due to this, 1-1-5 क्क्ङिति च stops the गुणादेश: for the इकार: (of the अङ्गम् “विद्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = विदन्ति । By 7-1-3 झोऽन्तः।
    Note: The optional form विदुः is brought about by 3-4-83 विदो लटो वा – The affixes (तिप्, तस् etc.) of लँट् following the verbal root √विद् (विदँ ज्ञाने २. ५९ ) optionally get the nine affixes णल्, अतुस् etc., as replacements respectively.

    5. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?
    Answer: 7-4-61 शर्पूर्वाः खयः has been used in the verses in the form तस्थतुः derived from the धातुः √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७)
    The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And by the परिभाषा “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, it’s effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
    स्था + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्था + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = स्था + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा।
    = स्था स्था + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = था स्था + अतुस् । By 7-4-61 शर्पूर्वाः खयः, if a अभ्यास: begins with a शर्-खय् conjunct (a conjunct whose first letter belongs to the शर्-प्रत्याहार: and second letter belongs to the खय्-प्रत्याहार:) then the खय् letter is retained and all other consonants of the अभ्यास: take लोप:। Note: 7-4-61 is a अपवाद: (exception) to 7-4-60 हलादिः शेषः।
    = थ स्था + अतुस् । By 7-4-59 ह्रस्वः।
    = थ स्थ् + अतुस् । By 6-4-64 आतो लोप इटि च। Note: By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence, “अतुस्” is a कित्-प्रत्यय: here. This allows 6-4-64 to apply.
    = थ स्थ् + अतुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = तस्थतुः । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    6. How would you say this in Sanskrit?
    “Who committed (did) this crime?” Use the masculine प्रातिपदिकम् “अपराध” for “crime.”
    Answer: कः इमम् अपराधम् अकार्षीत् = क इममपराधमकार्षीत्।

    Easy Questions:

    1. Where has the सूत्रम् 7-3-102 सुपि च been used in the commentary?
    Answer: 7-3-102 सुपि च has been used in the form याभ्याम् (पुंलिङ्गे तृतीया-द्विवचनम्) derived from the सर्वनाम-प्रातिपदिकम् “यद्”।

    यद् + भ्याम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “भ्याम्” from getting the इत्-सञ्ज्ञा।
    = य अ + भ्याम् । By 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
    = य + भ्याम् । By 6-1-97 अतो गुणे।
    = याभ्याम् । By 7-3-102 सुपि च – The ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

    2. Why doesn’t the सूत्रम् 7-2-102 त्यदादीनामः apply in the form अयम् (used in the commentary)?
    Answer: The सूत्रम् 7-2-108 इदमो मः prevents 7-2-102 त्यदादीनामः from applying in the form अयम्। By 7-2-108 इदमो मः – When the affix सुँ follows, the मकारः of इदम् gets मकारः as its replacement. This rule is an exception to the rule 7-2-102 त्यदादीनामः ।

    अयम् (प्रातिपदिकम् “इदम्”, पुंलिङ्गे प्रथमा-एकवचनम्)
    इदम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = इदम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः। Now 7-2-108 इदमो मः overrules 7-2-102 त्यदादीनामः and the ending मकार: of इदम् stays as a मकार:।
    = अयम् + स् । By 7-2-111 इदोऽय् पुंसि।
    = अयम् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics