Home » Example for the day » अरीरमत् 3As-लुँङ्

अरीरमत् 3As-लुँङ्

Today we will look at the form अरीरमत् 3As-लुँङ् from श्रीमद्भागवतम् 10.29.42.

श्रीशुक उवाच
व्यक्तं भवान्व्रजभयार्तिहरोऽभिजातो देवो यथादिपुरुषः सुरलोकगोप्ता । तन्नो निधेहि करपङ्कजमार्तबन्धो तप्तस्तनेषु च शिरःसु च किङ्करीणाम् ।। १०-२९-४१ ।।
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः । प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ।। १०-२९-४२ ।।

श्रीधर-स्वामि-टीका
व्यक्तं निश्चितम् ।। ४१ ।। विक्लवितं पारवश्यप्रलपितम् । गोपीः अरीरमद्रमयामास ।। ४२ ।।

Gita Press translation – Indeed You have been particularly born as the Dispeller of the fears and distress of Vraja, (even) as Lord Viṣṇu (the most ancient Person) was born (in heaven in the form of the divine Dwarf) as the Protector of the celestial realm. Therefore, place Your lotus-hand, O Be-friender of the afflicted, on the burning breasts and heads of (us,) Your servant-maids (41). Śrī Śuka went on: Laughing heartily to hear the aforesaid pitiful prayer of the Gopis, Śrī Kṛṣṇa (the Lord of all masters of Yoga,) proceeded to delight them out of compassion, though reveling in His own Self (42).

अरीरमत् is a causative form derived from the धातुः √रम् (भ्वादि-गणः, रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९)

The ending उकारः/अकार: of √रम् gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

रम् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= रम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= राम् + इ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् “घटादयो मित:”) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: an an इत्)।
= रमि । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”।
“रमि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

“रमि” takes a परस्मैपद-प्रत्ययः here as per 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात् – When used in the causative, a verbal root which in its non-causal state is intransitive and has a sentient being for its agent, takes a परस्मैपद-प्रत्ययः।

(1) रमि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) रमि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रमि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) रमि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) रमि + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) रमि + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) रमि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) रमि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) रम् रमि + अ + त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(10) र रमि + अ + त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the अकारः of “रमि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(11) रि रमि + अ + त् । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(12) री रमि + अ + त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93, a prosodically short (लघु) vowel (in this case the इकारः of “रि”) of the अभ्यासः (reduplicate) is elongated.

(13) री रम् + अ + त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(14) अट् री रम् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अरीरमत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. In Chapter 3 of the गीता where the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (used in this example to derive “रमि”) been used in a तिङन्तं पदम्?

2. In which सूत्रम् that we have studied does पाणिनिः specifically mention √रम् (रमुँ क्रीडायाम् । रमँ इति माधवः १. ९८९)?

3. Commenting on the सूत्रम् 7-4-79 सन्यतः (used in step 11) the तत्त्वबोधिनी says “अत्र लोपोऽभ्यसस्य” इत्यतोऽभ्यासस्येति, “भृञामित्” इत्यत इद्ग्रहणं चानुवर्तते। Please explain.

4. Which सूत्रम् is used for the एकारादेशः in the form निधेहि?

5. Why doesn’t the सूत्रम् 2-4-52 अस्तेर्भूः apply in the form रमयामास?

6. How would you say this in Sanskrit?
“The beautiful flowers in the garden delighted all of us.”

Easy Questions:

1. Where has the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः been used in the verses?

2. What would be an alternate form for शिरःसु?


1 Comment

  1. 1. In Chapter 3 of the गीता where the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (used in this example to derive “रमि”) been used in a तिङन्तं पदम्?
    Answer: In verse 26 of Chapter 3 the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च has been used in the form जनयेत् derived from √जन् (जनीँ प्रादुर्भावे ४. ४४).
    न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्‌ ।
    जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्‌ ॥ 3-26 ॥

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    जन् + णिच् । By 3-1-26 हेतुमति च।
    = जन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = जान् + इ । By 7-2-116 अत उपधायाः।
    = जनि । By 6-4-92 मितां ह्रस्वः। Note: √जन् is considered to be a मित् as per the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: an an इत्)।
    “जनि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    जनि + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ।
    = जनि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जनि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = जनि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जनि + त् । By 3-4-100 इतश्च।
    = जनि + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = जनि + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = जनि + शप् + यास् त् । By 3-1-68 कर्तरि शप्‌ ।
    = जनि + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = जने + अ + यास् त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = जनय + यास् त् । By 6-1-78 एचोऽयवायावः।
    = जनय + इय् त् । By 7-2-80 अतो येयः।
    = जनय + इत् । By 6-1-66 लोपो व्योर्वलि।
    = जनयेत् । By 6-1-87 आद्गुणः।

    2. In which सूत्रम् that we have studied does पाणिनिः specifically mention √रम् (रमुँ क्रीडायाम् । रमँ इति माधवः १. ९८९)?
    Answer: पाणिनिः specifically mentions √रम् (रमुँ क्रीडायाम् । रमँ इति माधवः १. ९८९) in the सूत्रम् 7-2-73 यमरमनमातां सक् च – When followed by a परस्मैपदम् affix, the affix “सिँच्” takes the augment “इट्” when it follows a अङ्गम् which either ends in a आकारः or consists of the verbal root √यम् (यमँ उपरमे १. ११३९) or √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) or √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६)। Simultaneously the अङ्गम् takes the augment सक्।

    3. Commenting on the सूत्रम् 7-4-79 सन्यतः (used in step 11) the तत्त्वबोधिनी says “अत्र लोपोऽभ्यसस्य” इत्यतोऽभ्यासस्येति, “भृञामित्” इत्यत इद्ग्रहणं चानुवर्तते। Please explain.
    Answer: The वृत्तिः of 7-4-79 सन्यतः is “अभ्यासस्याइत् स्यात् सनि।” The अनुवृत्तिः of “अभ्यासस्य” comes down from 7-4-58 अत्र लोपोऽभ्यासस्य and the अनुवृत्तिः of “इत्” comes down from 7-4-76 भृञामित्‌

    4. Which सूत्रम् is used for the एकारादेशः in the form निधेहि?
    Answer: 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च is used for the एकारादेश: in the form निधेहि derived from √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    धा + लोँट् । By 3-3-162 लोट् च।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = धा + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + हि । By 3-4-87 सेर्ह्यपिच्च।
    = धा + शप् + हि । By 3-1-68 कर्तरि शप्।
    = धा + हि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = धा + धा + हि । By 6-1-10 श्लौ।
    = ध + धा + हि । By 7-4-59 ह्रस्वः।
    = धेहि । By 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च, when the “हि”-प्रत्यय: follows, there is a substitution of एकार: in place of a धातु: that has the घु-सञ्ज्ञा and also in place of √अस् (असँ भुवि #२. ६०)। Simultaneously there is a लोप: of the अभ्यास: (if any). √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्। Note: As per the परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending letter (in this case आकार:) of the धातु: is replaced by a एकार:। But the entire अभ्यासः – and not just the ending letter – takes लोपः। The reason for this is that in the सूत्रम् 6-4-119, पाणिनिः says अभ्यासलोपः in spite of the अनुवृत्तिः of लोपः being available from the prior सूत्रम्। This repetition of the term लोपः is taken as an indication that the entire अभ्यासः should be elided.

    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    नि + धेहि = निधेहि ।

    5. Why doesn’t the सूत्रम् 2-4-52 अस्तेर्भूः apply in the form रमयामास?
    Answer: The form रमयामास is derived from √रम् (रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९).

    The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    रम् + णिच् । By 3-1-26 हेतुमति।
    = रम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = राम् + इ । By 7-2-116 अत उपधायाः।
    By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् “घटादयो मित:”) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: an an इत्)।
    = रमि । By 6-4-92 मितां ह्रस्वः।
    “रमि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    रमि + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = रमि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)
    = रमय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु।
    = रमयाम् । By 2-4-81 आमः।
    = रमयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..।
    = रमयाम् । By 2-4-81 आमः।
    = रमयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
    i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
    ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
    iii. √अस् (असँ भुवि २. ६०) followed by लिँट्।
    Here we consider the case wherein √अस् is annexed.
    Note: As per 2-4-52 अस्तेर्भूः – When the intention is to add a आर्धधातुक-प्रत्यय:, √अस् (असँ भुवि २. ६०) is replaced by “भू”। Here the conditions for 2-4-52 are satisfied since the affix लिँट् is a आर्धधातुक-प्रत्ययः by 3-4-115 लिट् च। If √अस् were to be replaced by “भू”, then specifying √अस् (as part of the प्रत्याहारः “कृञ्”) in 3-1-40 कृञ् चानुप्रयुज्यते लिटि would serve no purpose. That’s why √अस् when subjoined as an auxiliary (अनुप्रयुज्यमान:) does not take the “भू”-आदेशः।
    = रमयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रमयाम् + अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = रमयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = रमयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = रमयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = रमयाम् + आस् अस् + अ । By 7-4-70 अत आदेः।
    = रमयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः।
    = रमयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः।
    = रमयामास । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    “The beautiful flowers in the garden delighted all of us.”
    Answer: उद्याने सुन्दराणि पुष्पाणि सर्वान् अस्मान्/नः अरीरमन् = उद्याने सुन्दराणि पुष्पाणि सर्वानस्मानरीरमन् – अथवा – उद्याने सुन्दराणि पुष्पाणि सर्वान् नोऽरीरमन्।

    Easy Questions:

    1. Where has the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः been used in the verses?
    Answer: The सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः has been used in the form गोपीः (स्त्रीलिङ्ग-प्रातिपदिकम् “गोपी”, द्वितीया-बहुवचनम्।)

    गोपी + शस् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = गोपी + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “शस्” from getting the इत्-सञ्ज्ञा।
    = गोपीस् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)
    = गोपीः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. What would be an alternate form for शिरःसु?
    Answer: An alternate form for शिरःसु would be शिरस्सु
    शिरःसु/शिरस्सु is derived from the नपुंसकलिङ्ग-प्रातिपदिकम् “शिरस्”। विवक्षा is सप्तमी-बहुवचनम्।

    शिरस् + सुप् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = शिरस् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शिरर् + सु । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = शिरः + सु । By 8-3-15 खरवसानयोर्विसर्जनीयः।
    = शिरस्सु/ शिरःसु । By 8-3-34 विसर्जनीयस्य सः, 8-3-36 वा शरि – When the विसर्गः is followed by a शर् letter it optionally gets replaced by a विसर्गः।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics