Home » Example for the day » अस्प्राक्ष्म 1Ap-लुँङ्

अस्प्राक्ष्म 1Ap-लुँङ्

Today we will look at the form अस्प्राक्ष्म 1Ap-लुँङ् from श्रीमद्भागवतम् 10.29.36.

सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम् । नो चेद्वयं विरहजाग्न्युपयुक्तदेहा ध्यानेन याम पदयोः पदवीं सखे ते ।। १०-२९-३५ ।।
यर्ह्यम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिदरण्यजनप्रियस्य । अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग स्थातुं त्वयाभिरमिता बत पारयामः ।। १०-२९-३६ ।।

श्रीधर-स्वामि-टीका
अतोऽङ्ग हे कृष्ण, नोऽस्माकं तवाधरामृतपूरकेण तवैव हाससहितेनावलोकेन कलगीतेन च जातो यो हृच्छयाग्निः कामाग्निस्तं सिञ्चनो चेद्वयं तावदेकोऽग्निस्तथा विरहाज्जनिष्यते योऽग्निस्तेन चोपयुक्तदेहा दग्धशरीरा योगिन इव ते पदवीमन्तिकं ध्यानेन याम प्राप्नुयाम ।। ३५ ।। ननु स्वपतीनेवोपगच्छत त एनमग्निं सिञ्चेयुरिति चेत्तत्राहुः – यर्हीति । रमाया लक्ष्म्या दत्तक्षणं दत्तोत्सवं दत्तावसरं वा । तदपि क्वचिदेव न सर्वदा । अरण्यजनाः प्रिया यस्य तस्य तव । अरण्यजनप्रियत्वादरण्ये क्वचिद्यर्ह्यस्प्राक्ष्म स्पृष्टवत्यो वयं तत्र च त्वयाभिरमिता आनन्दिताः सत्यस्तदारभ्यान्यसमक्षं स्थातुमपि न पारयामः । तुच्छास्ते न रोचन्त इत्यर्थः ।। ३६ ।।

Gita Press translation – Quench with the flood of nectar flowing from Your lips the fire of passion kindled (in our breast) by Your (bewitching) smiles, (loving) glances and melodious music. If not, on our bodies being consumed by the fire of separation we shall (like Yogis) attain to the presence of Your (lotus) feet by force of meditation, O beloved Friend! (35) From the time, O lotus-eyed One, we touched at some unknown spot (in the forest) the soles of Your (lotus) feet – that concede the privilege of touching them (even) to Goddess Ramā (only) now and then – alas! we are not able (even) to stand before anyone else, now that we have been blessed by You, to whom we (the denizens of the forest) are so dear, O Darling!(36)

अस्प्राक्ष्म is derived from the धातुः √स्पृश् (तुदादि-गणः, स्पृशँ संस्पर्शने, धातु-पाठः #६. १५८).

The ending अकार: (which is a इत्) of “स्पृशँ” has a उदात्त-स्वरः। Thus √स्पृश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √स्पृश् takes परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्

(1) स्पृश् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) स्पृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्पृश् + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “मस्” as the substitute for the लकारः। 1-3-4 न विभक्तौ तुस्माः prevents ending सकारः of “मस्” from getting the इत्-सञ्ज्ञा।

(4) स्पृश् + म । By 3-4-99 नित्यं ङितः – A उत्तम-पुरुषः affix ending in a सकारः, always gets elided if it is of a लकारः which is ङित्। By 1-1-52 अलोऽन्त्यस्य only the ending सकारः takes लोपः ।

(5) स्पृश् + च्लि + म । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) स्पृश् + सिँच् + म । By the वार्तिकम् (under 3-1-44 च्लेः सिच्) – स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः – The affix “च्लि” optionally takes the substitute “सिँच्” when following the verbal root √स्पृश् (स्पृशँ संस्पर्शने ६. १५८) or √मृश् (मृशँ आमर्शणे ६. १६१) or √कृष् (कृषँ विलेखने ६. ६) or √तृप् (तृपँ प्रीणने ४. ९२) or √दृप् (दृपँ हर्षमोहनयोः ४. ९३).

Note: In the case of the verbal roots √स्पृश्, √मृश् and √कृष्, the affix “च्लि” would have taken the substitute “क्स” necessarily by 3-1-45 शल इगुपधादनिटः क्सः। Similarly in the case of the verbal roots √तृप् and √दृप्, the affix “च्लि” would have taken the substitute “अङ्” necessarily by 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु। Now this वार्तिकम् prescribes an optional substitution “सिँच्” in place of “च्लि”।

See question 1.

(7) स्पृश् + स् + म । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(8) स्पृ अम् श् + स् + म । By 6-1-59 अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् – When followed by an affix which is अकित् (does not have ककार: as a इत्) and which begins with a झल् letter, a verbal root which is अनुदात्तोपदेशः and has a penultimate ऋकारः optionally takes the augment “अम्”। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment “अम्” joins after the last vowel (ऋकार:) of the अङ्गम् “स्पृश्”।

See question 2.

(9) स्पृ अ श् + स् + म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) स्प्रश् + स् + म । By 6-1-77 इको यणचि

(11) स्प्राश् + स् + म । By 7-2-3 वदव्रजहलन्तस्याचः, a vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

(12) अट् स्प्राश् + स् + म । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(13) अ स्प्राश् + स् + म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(14) अ स्प्रा ष् + स् + म । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(15) अस्प्राक् + स् + म । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(16) अस्प्राक्ष्म । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. What would be the alternate final form in this example when the affix “च्लि” does not take the optional substitute “सिँच्” (in step 6)?

2. What would be the alternate final form in this example when the optional augment “अम्” is not used (in step 8)?

3. Where has the सूत्रम् 7-1-59 शे मुचादीनाम् been used in the verses?

4. In the verses can you spot a word which has an augment “आट्”?

5. Why doesn’t the सूत्रम् 7-3-79 ज्ञाजनोर्जा apply in the form जनिष्यते used in the commentary?

6. How would you say this in Sanskrit?
“Don’t touch the fire.”

Easy Questions:

1. Where has the सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः been used in the commentary?

2. Which सूत्रम् is used for the एकारादेशः in the form पदयोः?


1 Comment

  1. 1. What would be the alternate final form in this example when the affix “च्लि” does not take the optional substitute “सिँच्” (in step 6)?
    Answer: The alternate final form would be अस्पृक्षाम when the affix “च्लि” does not take the optional substitute “सिँच्”।

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
    स्पृश् + लुँङ् । By 3-2-110 लुङ्।
    = स्पृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्पृश् + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “मस्” from getting the इत्-सञ्ज्ञा।
    = स्पृश् + म । By 3-4-99 नित्यं ङितः, 1-1-52 अलोऽन्त्यस्य।
    = स्पृश् + च्लि + म । By 3-1-43 च्लि लुङि। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “च्लि”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = स्पृश् + क्स + म । By 3-1-45 शल इगुपधादनिटः क्सः – The affix “च्लि” when without the augment “इट्” takes the substitute “क्स” when following a verbal root which ends in a शल् letter (“श्”, “ष्”, “स्”, “ह्”) and has a penultimate इक् letter (“इ”, “उ”, “ऋ”, “ऌ”).
    = स्पृश् + स + म । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    Note: Since “क्स” is a कित्-प्रत्ययः, 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च। Also 6-1-59 अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् does not apply.
    = स्पृश् + सा + म । By 7-3-101 अतो दीर्घो यञि।
    = अट् स्पृश् + सा + म । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ स्पृश् + सा + म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अ स्पृष् + सा + म । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः।
    = अस्पृक् + सा + म । By 8-2-41 षढोः कः सि।
    = अस्पृक्षाम । By 8-3-59 आदेशप्रत्यययो:।

    2. What would be the alternate final form in this example when the optional augment “अम्” is not used (in step 8)?
    Answer: The alternate final form would be अस्पार्क्ष्म when the optional augment “अम्” is not used.

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
    स्पृश् + लुँङ् । By 3-2-110 लुङ्।
    = स्पृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्पृश् + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “मस्” from getting the इत्-सञ्ज्ञा।
    = स्पृश् + म । By 3-4-99 नित्यं ङितः, 1-1-52 अलोऽन्त्यस्य।
    = स्पृश् + च्लि + म । By 3-1-43 च्लि लुङि।
    = स्पृश् + सिँच् + म । By the वार्तिकम् (under 3-1-44 च्लेः सिच्) – स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः।
    = स्पृश् + स् + म । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = स्पार् श् + स् + म । By 7-2-3 वदव्रजहलन्तस्याचः, 1-1-51 उरण् रपरः।
    = अट् स्पार् श् + स् + म । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ स्पार् श् + स् + म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अ स्पार् ष् + स् + म । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः।
    = अ स्पार् क् + स् + म । By 8-2-41 षढोः कः सि।
    = अस्पार्क्ष्म । By 8-3-59 आदेशप्रत्यययोः।

    3. Where has the सूत्रम् 7-1-59 शे मुचादीनाम् been used in the verses?
    Answer: The सूत्रम् 7-1-59 शे मुचादीनाम् has been used in the form सिञ्च derived from √सिच् (षिचँ क्षरणे ६. १७०).
    The beginning षकार: of “षिचँ” takes the सकारादेश: as per 6-1-64 धात्वादेः षः सः।

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    सिच् + लोँट् । By 3-3-162 लोट् च।
    = सिच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सिच् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = सिच् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सिच् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = सिच् + श + हि । By 3-1-77 तुदादिभ्यः शः।
    = सिच् + अ + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = सि नुँम् च् + अ + हि । By 7-1-59 शे मुचादीनाम्, the eight verbal roots √मुच् (मुचॢँ मोक्षणे (मोचने) #६. १६६), √लुप् (लुपॢँ छेदने #६. १६७), √विद् (विदॢ्ँ लाभे #६. १६८), √लिप् (लिपँ उपदेहे #६. १६९), √सिच् (षिचँ क्षरणे #६. १७०), √कृत् (कृतीँ छेदने #६. १७१), √खिद् (खिदँ परिघाते (परिघातने) #६. १७२) and √पिश् (पिशँ अवयवे #६. १७३) get the नुँम्-आगमः when श-प्रत्ययः follows. As per 1-1-47 मिदचोऽन्त्यात्परः, the “नुँम्”-आगम: attaches after the last vowel (इकार:) of the अङ्गम् “सिच्”।
    = सि न् च् + अ + हि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सिन्च । By 6-4-105 अतो हेः।
    = सिंच । By 8-3-24 नश्चापदान्तस्य झलि।
    = सिञ्च । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    4. In the verses can you spot a word which has an augment “आट्”?
    Answer: The augment “आट्” can be seen in the form याम derived from √या (या प्रापणे २. ४४).

    The विवक्षा is लोँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, बहुवचनम्।
    या + लोँट् । By 3-3-162 लोट् च।
    = या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “मस्” from getting the इत्-सञ्ज्ञा।
    = या + म । By 3-4-85 लोटो लङ्वत्‌, 3-4-99 नित्यं ङितः, 1-1-52 अलोऽन्त्यस्य।
    = या + आट् म । By 3-4-92 आडुत्तमस्य पिच्च – A उत्तम-पुरुष-प्रत्ययः of लोँट् gets आट् as an augment. And this उत्तम-पुरुष-प्रत्ययः is considered to have पकारः as इत्। As per 1-1-46 आद्यन्तौ टकितौ the “आट्”-आगमः attaches to the beginning of the प्रत्ययः “म”।
    = या + आम । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + शप् + आम । By 3-1-68 कर्तरि शप्।
    = या + आम । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = याम । By 6-1-101 अकः सवर्णे दीर्घः।

    5. Why doesn’t the सूत्रम् 7-3-79 ज्ञाजनोर्जा apply in the form जनिष्यते used in the commentary?
    Answer: The form जनिष्यते is derived from √जन् (जनीँ प्रादुर्भावे ४. ४४).

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    जन् + लृँट् । By 3-3-13 लृट् शेषे च।
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = जन् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = जन् + स्य + ते । By 3-1-33 स्यतासी लृलुटोः।
    = जन् + इट् स्य + ते । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = जन् + इ स्य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जनिष्यते । By 8-3-59 आदेशप्रत्यययो:।

    Note: As per the सूत्रम् 7-3-79 ज्ञाजनोर्जा – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा”। In the form जनिष्यते the verbal root √जन् is followed by the affix “स्य” which is not a शित्। Hence 7-3-79 does not apply.

    6. How would you say this in Sanskrit?
    “Don’t touch the fire.”
    Answer: अग्निम् मा स्प्राक्षीः/स्पार्क्षीः/स्पृक्षः = अग्निं मा स्प्राक्षीः/स्पार्क्षीः/स्पृक्षः।

    Easy Questions:

    1. Where has the सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः been used in the commentary?
    Answer: The सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः is used for the “एन”-आदेश: in the form एनम् (सर्वनाम-प्रातिपदिकम् “इदम्” or “एतद्”, पुंलिङ्गे द्वितीया-एकवचनम्)।
    इदम्/एतद् + अम् । By 4-1-2 स्वौजसमौट्छष्टा………। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = एन + अम् । By 2-4-34 द्वितीयाटौस्स्वेनः, “इदम्” and “एतद्” get “एन” as the replacement when followed by the affixes of the second case or the affix “टा” or “ओस्”, when used in अन्वादेश:। Note: अन्वादेश: (अनु + आदेश:) (re-employment or after-statement) means a second reference to one and the same item already referred to by an earlier word.
    Note: As per 1-1-55 अनेकाल्शित्सर्वस्य entire term “इदम्/एतद्” is replaced by “एन”।
    = एनम् । By 6-1-107 अमि पूर्वः, in place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter. In this case, in place of the ending अकार: of “एन” and the following अकार: of “अम्” there is a single substitute which is the prior अकार:।

    2. Which सूत्रम् is used for the एकारादेशः in the form पदयोः?
    Answer: The सूत्रम् 7-3-104 ओसि च is used for the एकारादेशः in the form पदयोः (नपुंसकलिङ्ग-प्रातिपदिकम् “पद”, षष्ठी-द्विवचनम्।)

    पद + ओस् । By 4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ओस्” from getting the इत्-सञ्ज्ञा।
    = पदे + ओस् । By 7-3-104 ओसि च – The ending अकार: of a अङ्गम् is replaced by एकार: when followed by the affix “ओस्”।
    = पदयोस् । By 6-1-78 एचोऽयवायावः।
    = पदयोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics