Home » Example for the day » अग्रहीत् 3As-लुँङ्

अग्रहीत् 3As-लुँङ्

Today we will look at the form अग्रहीत् 3As-लुँङ् from श्रीमद्भागवतम् 4.5.17.

अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन् । अपरे जगृहुर्देवान्प्रत्यासन्नान्पलायितान् ।। ४-५-१६ ।।
भृगुं बबन्ध मणिमान्वीरभद्रः प्रजापतिम् । चण्डीशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ।। ४-५-१७ ।।

श्रीधर-स्वामि-टीका
प्रत्यासन्नान्पलायितान्समीपस्थान्पलायितानपि जगृहुः ।। १६ ।। ।। १७ ।।

Gita Press translation – Some molested the hermits, while others threatened the wives (of the sacrificer and the priests) and still others seized the divinities who were sitting close to them, even though they tried to run away (16). Maṇimān bound the sage Bhṛgu; Vīrabhadra, Dakṣa (the lord of created beings) himself; Caṇḍīśa, the god Pūṣā (one of the twelve sons of Aditi who preside over the sun month by month) and Nandīśwara seized Bhaga (another god presiding over the sun) (17).

अग्रहीत् is derived from the धातुः √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः #९.७१)

The अकारः at the end of “ग्रहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has स्वरित-स्वरः and hence this धातुः is उभयपदी।  By 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, it can take आत्मनेपद-प्रत्ययाः and by 1-3-78 शेषात् कर्तरि परस्मैपदम्, it can take परस्मैपद-प्रत्ययाः। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) ग्रह् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ग्रह् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) ग्रह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) ग्रह् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) ग्रह् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) ग्रह् + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) ग्रह् + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) ग्रह् + इट् स् + त् । By 7-2-35 आर्धधातुकस्येड् वलादेः – an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। As per 1-1-46 आद्यन्तौ टकितौ the “इट्”-आगमः attaches to the beginning of the प्रत्ययः।

(10) ग्रह् + इ स् + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) ग्रह् + इ स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
1-1-46 आद्यन्तौ टकितौ places the “ईट्”-आगमः at the beginning of the प्रत्ययः।

(12) ग्रह् + इ स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: At this stage 7-2-3 वदव्रजहलन्तस्याचः would ordain a वृद्धिः substitute in place of the अकारः of the अङ्गम् “ग्रह्”, but it is prohibited by 7-2-4 नेटि
Now 7-2-7 अतो हलादेर्लघोः would prescribe an optional वृद्धिः, but it is prohibited by 7-2-5 ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् – When the affix “सिँच्” (which begins with the augment “इट्” and is followed by a परस्मैपदम् affix) follows, the वृद्धिः substitution is prohibited for a अङ्गम् which either – i) ends in the letter “ह्”, “म्” or “य्” or ii) consists of the verbal root √क्षण् (क्षणुँ हिंसायाम् ८. ३), √श्वस् (श्वसँ प्राणने २. ६४), √जागृ (जागृ निद्राक्षये २. ६७) or √श्वि (ट्वोश्वि गतिवृद्ध्योः १. ११६५) or iii) ends in the affix “णि” or iv) has “ए” as a इत्।

(13) ग्रह् + ई स् + ईत् । By 7-2-37 ग्रहोऽलिटि दीर्घः – When prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment इट् gets elongated, but not if the affix लिँट् follows.

(14) अट् ग्रह् + ई स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अ ग्रह् + ई स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(16) अ ग्रह् + ई + ईत् । By 8-2-28 इट ईटि, a सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided.

See advanced question.

(17) अग्रहीत् । By the वार्त्तिकम् (under 8-2-3) सिज्लोप एकादेशे सिद्धो वाच्यः – If a single substitute is to be done, then the elision of the affix सिँच् should be considered सिद्ध: (evident.) This वार्त्तिकम् allows 6-1-01 अकः सवर्णे दीर्घः to apply.

Questions:

1. Where has the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१) been used in a तिङन्तं पदम् in Chapter 2 of the गीता?

2. What would have been the final form in this example if लँङ् were used (instead of लुँङ्)? What would be the form if लिँट् were used?

3. Which सूत्रम् is used for the सम्प्रसारणम् in the form जगृहुः?

4. In the verses can you spot a तिङन्तं पदम् where the affix णिच् has been used?

5. How would you say this in Sanskrit?
“The disciple grasped the teacher’s feet.”

Advanced Questionः

1. The सूत्रम् 8-2-28 इट ईटि says that – A सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided. But in the present example (in step 16), we have a ईकारः preceding the सकारः। Then how can the application of 8-2-28 इट ईटि be justified? It is justified by the परिभाषा – “एकदेशविकृतमनन्यवत्।” Please explain.

Easy Questions:

1. The form पूषणम् (द्वितीया-एकवचनम्) is derived from the प्रातिपदिकम् “पूषन्”। Can you recall a सूत्रम् (that we have studied) in which पाणिनि: specifically mentions the प्रातिपदिकम् “पूषन्”?

2. In the verses can you spot a place where the सन्धि-कार्यम् has not been done?


1 Comment

  1. 1. Where has the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१) been used in a तिङन्तं पदम् in Chapter 2 of the गीता?
    Answer: The verbal root √ग्रह् (ग्रहँ उपादाने ९.७१) has been used in the form गृह्णाति in verse 22 of Chapter 2.
    वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
    तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ।। 2-22 ।।

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    ग्रह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = ग्रह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + श्ना + ति । By 3-1-81 क्र्यादिभ्यः श्ना।
    = ग्रह् + ना + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = ग् ऋ अ ह् + ना + ति । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च।
    Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.
    = गृह् + ना + ति । By 6-1-108 सम्प्रसारणाच्च।
    = गृह्णाति । By the वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्, 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    2. What would have been the final form in this example if लँङ् were used (instead of लुँङ्)? What would be the form if लिँट् were used?
    Answer: The final form in this example if लँङ् were used (instead of लुँङ्) would be अगृह्णात्। The form if लिँट् were used would be जग्राह

    अगृह्णात् – The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    ग्रह् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = ग्रह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + त् । By 3-4-100 इतश्च।
    = ग्रह् + श्ना + त् । By 3-1-81 क्र्यादिभ्यः श्ना।
    = ग्रह् + ना + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = ग् ऋ अ ह् + ना + त् । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च।
    Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.
    = गृह् + ना + त् । By 6-1-108 सम्प्रसारणाच्च।
    = अट् गृह् + ना + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ गृह् + ना + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अगृह्णात् । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्, 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    जग्राह – The विवक्षा is लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    ग्रह् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = ग्रह् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = ग्रह् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = ग्रह् ग्रह् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः।
    = ग ग्रह् + अ । By 7-4-60 हलादिः शेषः।
    = ज ग्रह् + अ । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = जग्राह । By 7-2-116 अत उपधायाः।

    3. Which सूत्रम् is used for the सम्प्रसारणम् in the form जगृहुः?
    Answer: The सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च is used for the सम्प्रसारणम् in the form जगृहुः derived from √ग्रह् (ग्रहँ उपादाने ९.७१).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    ग्रह् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = ग्रह् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = ग् ऋ अ ह् + उस् । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45 इग्यणः सम्प्रसारणम्) when followed by an affix which is a कित् or a ङित्।।
    Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “उस्”-प्रत्यय: is a कित् here. This allows 6-1-16 to apply.
    = गृह् + उस् । By 6-1-108 सम्प्रसारणाच्च।
    = गृह् गृह् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = गर् ह् गृह् + उस् । 7-4-66 उरत्‌, 1-1-51 उरण् रपरः।
    = ग गृह् + उस् । By 7-4-60 हलादिः शेषः।
    = ज गृह् + उस् । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = जगृहुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. In the verses can you spot a तिङन्तं पदम् where the affix णिच् has been used?
    Answer: A “णिच्”-प्रत्यय: is seen in the verse in the form अतर्जयन् derived from √तर्ज् (तर्जँ – सन्तर्जने १०. २०१).

    तर्ज् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।
    = तर्ज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = तर्जि । “तर्जि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    तर्जि + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = तर्जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तर्जि + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। See note below.
    = तर्जि + झ् । By 3-4-100 इतश्च।
    = तर्जि + शप् + झ् । By 3-1-68 कर्तरि शप्।
    = तर्जि + अ + झ् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तर्जे + अ + झ् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = तर्जय + झ् । By 6-1-78 एचोऽयवायावः।
    = तर्जय + अन्त् । By 7-1-3 झोऽन्तः।
    = तर्जयन्त् । By 6-1-97 अतो गुणे।
    = अट् तर्जयन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = अतर्जयन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अतर्जयन् । By 8-2-23 संयोगान्तस्य लोपः।

    Note: A आत्मनेपद-प्रत्यय: was expected here as per आकुस्मादात्मनेपदिन:। गणसूत्रम् (in the चुरादि-गण: of the धातुपाठ:)। The verbal roots beginning from √चित् (चितँ सञ्चेतने १०. १९२) and ending with √कुस्म् (कुस्मँ नाम्नो वा | कुत्सितस्मयने १०. २३६) shall take आत्मनेपद-प्रत्यया: (only.)
    The two ways to try to work around this गणसूत्रम् would be:
    (i) to add a second (causative) णिच्-प्रत्यय: (by 3-1-26 हेतुमति च) on top of the णिच्-प्रत्यय: added by 3-1-25; or
    (ii) to derive अतर्जयन् as a causative form from the verbal root √तर्ज् (तर्जँ भर्त्सने १. २५९) of the भ्वादि-गण:।

    5. How would you say this in Sanskrit?
    “The disciple grasped the teacher’s feet.”
    Answer: शिष्यः गुरोः पादौ/चरणौ अग्रहीत् = शिष्यो गुरोः पादावग्रहीत् – अथवा – शिष्यो गुरोश्चरणावग्रहीत्।

    Advanced Question:

    1. The सूत्रम् 8-2-28 इट ईटि says that – A सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided. But in the present example (in step 16), we have a ईकारः preceding the सकारः। Then how can the application of 8-2-28 इट ईटि be justified? It is justified by the परिभाषा – “एकदेशविकृतमनन्यवत्।” Please explain.
    Answer: The meaning of the परिभाषा – “एकदेशविकृतमनन्यवत्” is – A thing is called or taken as that very thing although it is lacking in a part. This परिभाषा is based on the worldly observation – e.g. a dog whose tail has been cut is still a dog. In the present example the इकारः of the इडागमः has been elongated (by 7-2-37 ग्रहोऽलिटि दीर्घः।) As per the परिभाषा, the resulting ईकारः is still considered a इडागमः in spite of the elongation. This allows 8-2-28 इट ईटि to apply.

    Easy Questions:

    1. The form पूषणम् (द्वितीया-एकवचनम्) is derived from the प्रातिपदिकम् “पूषन्”। Can you recall a सूत्रम् (that we have studied) in which पाणिनि: specifically mentions the प्रातिपदिकम् “पूषन्”?
    Answer: पाणिनि: specifically mentions the प्रातिपदिकम् “पूषन्” in the सूत्रम् 6-4-12 इन्हन्पूषार्यम्णां शौ – The lengthening (ordained by 6-4-8 सर्वनामस्थाने चासम्बुद्धौ) of the penultimate letter of terms ending in “इन्”, “हन्”, “पूषन्” and “अर्यमन्” should be done only when the शि-प्रत्यय: follows, not when followed by other सर्वनामस्थानम् affixes.

    2. In the verses can you spot a place where the सन्धि-कार्यम् has not been done?
    Answer: The सन्धि-कार्यम् has not been done between अन्ये एके। It would have been अन्य एके if सन्धि-कार्यम् were to be done. Steps are as follows:

    अन्ये + एके
    = अन्यय् + एके । By 6-1-78 एचोऽयवायावः।
    = अन्य एके । By 8-3-19 लोपः शाकल्यस्य। After this 6-1-88 वृद्धिरेचि cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

    Note: The most likely reason for not doing the सन्धि-कार्यम् is to preserve the meter.

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics