Home » Example for the day » विद्धि 2As-लोँट्

विद्धि 2As-लोँट्

Today we will look at the form विद्धि 2As-लोँट् from श्रीमद्भागवतम् Sb6-12-10.

यथा दारुमयी नारी यथा यन्त्रमयो मृगः ।
एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भोः ।। ६-१२-१० ।।

Gita Press translation “Just as a wooden puppet or even as a mechanical toy-deer is subject to the control of the showman or the individual winding up the toy, likewise know (all) living beings, O Indra, are subject to the control of God.”

विद्धि is derived from the धातुः √विद् (विदँ ज्ञाने, अदादि-गणः, धातु-पाठः २. ५९)

The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्

In the धातु-पाठः, the √विद्-धातुः has one इत् letter which is the अकार: following the दकार:। This इत् letter has a उदात्त-स्वर:। Thus the √विद्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √विद्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √विद्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “सिप्”।

(1) विद् + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) विद् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) विद् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।

(5) विद् + हि । By 3-4-87 सेर्ह्यपिच्च , सि of लोँट् is substituted by हि and it is an अपित्। हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(6) विद् + शप् + हि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) विद् + हि । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः। See question 1.

(8) विद्धि । By 6-4-101 हुझल्भ्यो हेर्धिः, the “हि” of लोँट् gets “धि” as replacement, when following the verbal root √हु (हु दानादनयोः | आदाने चेत्येके | प्रीणनेऽपीति भाष्यम् ३. १) or when following a verbal root ending in a letter of the झल्-प्रत्याहारः।

Questions:

1. Why doesn’t 7-3-86 पुगन्तलघूपधस्य च apply after step 7 to do a गुणादेश: in place of the इकार: of “विद्”?

2. Where is the form विद्धि used in the गीता?

3. Which प्रातिपदिकम् has been used in the form (हे) मघवन्? Is there an alternate form?

4. Can you recall two सूत्रे wherein पाणिनि: specifically refers to this प्रातिपदिकम् (answer to #3)?

5. How would you say this in Sanskrit?
“Know that the truth always wins.” Use √जि (जि जये १. ६४२) for “to win” and use the अव्ययम् “इति” (end-quote) to convey the meaning “that.”

6. How would you say this in Sanskrit?
“Seeing (having seen) a lion, all the deer quickly ran away.” Use the अव्ययम् “दृष्ट्वा” for “having seen” and use √अय् (अयँ- [गतौ]१. ५४६) with the उपसर्ग: “परा” for “to run away.” Use “द्रुतम्” as an adverb “quickly.”

Easy questions:

1. Can you spot a नुँट्-आगम: in the verse?

2. Where has 7-1-72 नपुंसकस्य झलचः been used in the verse?


1 Comment

  1. 1. Why doesn’t 7-3-86 पुगन्तलघूपधस्य च apply after step 7 to do a गुणादेश: in place of the इकार: of “विद्”?

    Answer: By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्। By 1-2-4 सार्वधातुकमपित्, a सार्वधातुक-प्रत्यय: which does not have पकारः as an इत् becomes ङिद्वत् (behaves like having a ङकारः as an इत्)।
    1-1-5 क्क्ङिति च prevents the गुणादेशः which would have been done by 7-3-86 पुगन्तलघूपधस्य च। An affix which has a गकार: or a ककार: or a ङकार: as an इत्, is not allowed to perform an operation of गुण: or वृद्धि: on an इक् vowel (reference 1-1-3 इको गुणवृद्धी)।

    2. Where is the form विद्धि used in the गीता?

    Answer: अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
    विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ।। 2-17 ।।

    कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
    तस्मात्सवगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ।। 3-15 ।।

    ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
    सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतस: ।। 3-32 ।।

    श्रीभगवानुवाच |
    काम एष क्रोध एष रजोगुणसमुद्भवः |
    महाशनो महापाप्मा विद्‌ध्येनमिह वैरिणम्‌ || 3-37||

    चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः |
    तस्य कर्तारमपि मां विद्‌ध्यकर्तारमव्ययम्‌ || 4-13||

    एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
    कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ।। 4-32 ।।

    द्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
    उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन: ।। 4-34।।

    यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
    न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ।। 6-2।।

    अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
    जीवभूतां महाबाहो ययेदं धार्यते जगत् ।। 7-5।।

    बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
    बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ।। 7-10।।

    ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
    मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ।। 7-12 ।।

    पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
    सेनानीनामहं स्कन्द: सरसामस्मि सागर: ।। 10-24।।

    उच्चै:श्रवसमश्वानां विद्धि माममृतोद्भवम् ।
    ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ।।10-27।।

    क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
    क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ।। 13-2।।

    प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
    विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्‌ ।। 13-19।।

    यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्‌ ।
    क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ।। 13-26।।

    रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
    तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ।। 14-7 ।।

    तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
    प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ।। 14-8 ।।

    यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
    यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ।। 15-12 ।।

    कर्शयन्तः शरीरस्थं भूतग्राममचेतसः |
    मां चैवान्तःशरीरस्थं तान्विद्‌ध्यासुरनिश्चयान्‌ || 17-6||

    अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
    इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ।। 17-12 ।।

    सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
    अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम् ।। 18-20।।

    पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्‌ ।
    वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ।। 18-21 ।।

    3. Which प्रातिपदिकम् has been used in the form (हे) मघवन्? Is there an alternate form?

    Answer: प्रातिपदिकम् “मघवन्”।
    By 6-4-128 मघवा बहुलम्, “मघवन्” gets the तृँ-आदेशः optionally. But in either case, the सम्बुद्धिः form is the same.
    मघवन् + सुँ (सम्बुद्धिः) । By 4-1-2 स्वौजसमौट्छष्टा..।
    = मघवन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = मघवतृँ + स् । By 6-4-128 मघवा बहुलम्। Note: Even though ‘तृँ’ is an अनेकाल्-आदेशः and should have come in place of the whole मघवन्-शब्दः, but by the परिभाषा ‘नानुबन्धकृतमनेकाल्त्वम्’, ‘तृँ’ should not be considered अनेकाल् by counting the इत्-letters.
    = मघवत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = मघव नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    = मघवन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = मघवन्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।
    = मघवन् । By 8-2-23 संयोगान्तस्य लोपः।

    In the case where the तृँ-आदेश: is not done:
    मघवन् + सुँ (सम्बुद्धिः) । By 4-1-2 स्वौजसमौट्छष्टा..।
    = मघवन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = मघवन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Note: By 8-2-8 न ङिसम्बुद्ध्योः the ending letter ‘न्’ of a पदम् does not take लोपः, when ‘ङि’ or the सम्बुद्धिः affix follows.

    4. Can you recall two सूत्रे wherein पाणिनि: specifically refers to this प्रातिपदिकम् (answer to #3)?

    Answer: 1) 6-4-128 मघवा बहुलम् – मघवन् gets “तृँ” replacement optionally.
    2) 6-4-133 श्वयुवमघोनामतद्धिते – the अन् ending “मघवन्”, which has the भ-सञ्ज्ञा, takes सम्प्रसारणम् when followed by an affix which is not a तद्धितः

    5. How would you say this in Sanskrit?
    “Know that the truth always wins.” Use √जि (जि जये १. ६४२) for “to win” and use the अव्ययम् “इति” (end-quote) to convey the meaning “that.”

    Answer: सत्यम् सर्वदा जयति इति विद्धि। = सत्यं सर्वदा जयतीति विद्धि।

    6. How would you say this in Sanskrit?
    “Seeing (having seen) a lion, all the deer quickly ran away.” Use the अव्ययम् “दृष्ट्वा” for “having seen” and use √अय् (अयँ- [गतौ]१. ५४६) with the उपसर्ग: “परा” for “to run away.” Use “द्रुतम्” as an adverb “quickly.”

    Answer: सिंहम् दृष्ट्वा सर्वे मृगाः द्रुतम् पलायन्त। = सिंहं दृष्ट्वा सर्वे मृगा द्रुतं पलायन्त।

    Easy questions:

    1. Can you spot a नुँट्-आगम: in the verse?

    Answer: In the सन्धि-कार्यम् between मघवन्, ईशतन्त्राणि forming मघवन्नीशतन्त्राणि।
    मघवन् + ईशतन्त्राणि
    = मघवन् + नुँट् ईशतन्त्राणि । By 8-3-32 ङमो ह्रस्वादचि ङमुण् नित्यम्, when there is a ङम् letter at the end of a पदम् and this ङम् letter is preceded by a short vowel, then the following vowel (long or short) always gets the augment ङमुँट्।
    By 1-1-46 आद्यन्तौ टकितौ, an augment which is marked with टकार: as an इत् will attach to the beginning of the term in the genitive case.
    In the present example, since the ङम् letter is the नकार:, the corresponding आगम: is नुँट्।
    = मघवन्नीशतन्त्राणि । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    2. Where has 7-1-72 नपुंसकस्य झलचः been used in the verse?

    Answer: In भूतानि (नपुंसकलिङ्ग-प्रातिपदिकम् “भूत”, द्वितीया-बहुवचनम्) and ईशतन्त्राणि (प्रातिपदिकम् “ईशतन्त्र”, द्वितीया-बहुवचनम्, नपुंसकलिङ्गे)

    भूत + शस् (4-1-2 स्वौजसमौट्छष्टा…) = भूत + शि 7-1-20 जश्शसोः शिः, 1-1-55 अनेकाल्शित्सर्वस्य (because शि is अनेकाल्-आदेश:)
    = भूत + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः
    = भूत नुँम् + इ । By 1-1-42 शि सर्वनामस्थानम्, शि gets सर्वनाम-सञ्ज्ञा। By 7-1-72 नपुंसकस्य झलचः we get a नुँम् augment for the अङ्गम् “भूत”। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel of the अङ्गम्।
    = भूतन् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भूतानि । 6-4-8 सर्वनामस्थाने चासम्बुद्धौ।

    Similarly in ईशतन्त्राणि।

Leave a comment

Your email address will not be published.

Recent Posts

Topics