Today we will look at the form रिरंसुः mNs from श्रीमद्भागवतम् 7.1.10.
ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते । विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ॥ ७-१-९ ॥
यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक्स्वमायया । सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ ॥ ७-१-१० ॥
श्रीधर-स्वामि-टीका –
समस्यापि निमित्तभेदेन वैषम्ये दृष्टान्तः – ज्योतिरादिरिव । ज्योतिरग्निर्यथा काष्ठादिषु । जलं यथा पात्रेषु । आकाशो यथा घटादिषु । तथा भगवान्नानारूप आभाति । ननु तर्हि तद्वदेव विवेकेन किं न प्रतीयते तत्राह – संघातात्सुरादिदेहान्न विविच्यते न पृथक् प्रतीयते । तर्हि तान्भजतीति कुतो ज्ञायते तत्राह – विदन्तीति । आत्मस्थं परमात्मानं कवयो निपुणाः मथित्वा कार्यदर्शनलिङ्गेन विचार्य जानन्ति । अन्ततः स्वभावकालकर्मादिवादनिषेधेन । विन्दन्तीति पाठे लाभोऽपि ज्ञानमेव । अत्रापि ज्योतिरादिरिवेति द्रष्टव्यम् । यथा सूर्यकान्तादौ दाहदर्शनाज्ज्योतिर्ज्ञायते । यथा च गन्धदर्शनाद्वायुरित्यादि ॥ ९ ॥ तदेवं मायागुणवशेनैतद्वैषम्यं न स्वाभाविकमित्युक्तम्, तर्हि गुणपारतन्त्र्यादनीश्वरत्वमाशङ्क्याह – यदा आत्मनो जीवस्य भोगाय पुरः शरीराणि परः परमेश्वरः सिसृक्षुर्भवति तदा साम्येन स्थितं रजः पृथक् सृजति । विचित्रासु तासु पूर्षु रिरंसुः क्रीडितुमिच्छुर्यदा सत्वं तदा पृथक् सृजति । शयिष्यमाणः संहरिष्यन्यदा तदा तमः पृथगीरयति प्रेरयति, आधिक्यं नयतीत्यर्थः ॥ १० ॥
Gita Press translation – Like fire and other elements (which, though undifferentiated, appear as differentiated through diverse media), the Lord (though one) appears endowed with various forms (in the shape of the numberless Jīva); yet He is not distinguished from the psychophysical organism (occupied by Him.) It is only the discerning that are eventually able to realize the Self dwelling in their own heart after carefully investigating it (9). When intending to create bodies (as a means of enjoyment) for the Jīva (the individual soul), the aforesaid Supreme evolves (the element of) Rajas as a distinct entity (out of the chaos hitherto prevailing) by His own Māyā (creative energy). (Nay), keen to sport in the midst of (all) these heterogeneous bodies, the omnipotent Lord evolves the Sattvaguṇa and when about to retire (from His sportful activities), He fosters the element of Tamas (10).
The सन्नन्त-धातुः “रिरंस” is derived from √रम् (भ्वादि-गणः, रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९).
रम् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).
= रम् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops 7-2-35 आर्धधातुकस्येड् वलादेः।
= रम्स् रम्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
= र रम्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
= रि रम्स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।
= रिरंस । By 8-3-24 नश्चापदान्तस्य झलि – नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.
“रिरंस” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
Now we derive the प्रातिपदिकम् “रिरंसु” from the सन्नन्त-धातुः “रिरंस”।
रिरंस + उ । By 3-2-168 सनाशंसभिक्ष उः – The affix “उ” is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः “आङ्”
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= रिरंस् + उ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.
= रिरंसु ।
Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “रिरंसु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “रिरंसु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.
The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
(1) रिरंसु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
(2) रिरंसु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
(3) रिरंसुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
Questions:
1. Where has the verbal root √रम् (रमुँ क्रीडायाम् । रमँ इति माधवः १. ९८९) been used in Chapter Five of the गीता?
2. Where else (besides in रिरंसुः) has the affix सन् been used in the verses?
3. What would be an alternate form for विदन्ति?
4. Can you spot an affix “णिच्” in a तिङन्तं पदम् in the verses?
5. Where has the सूत्रम् 7-1-59 शे मुचादीनाम् been used in the commentary?
6. How would you say this in Sanskrit?
“These boys want to sport in the water.”
Easy Questions:
1. Where has the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verses?
2. The सुबन्त-पदम् “पूर्षु” seen in the commentary is derived from which प्रातिपदिकम्?
1. Where has the verbal root √रम् (रमुँ क्रीडायाम् । रमँ इति माधवः १. ९८९) been used in Chapter Five of the गीता?
Answer: The verbal root √रम् (रमुँ क्रीडायाम् । रमँ इति माधवः १. ९८९) has been used in the form रमते।
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ 5-22 ॥
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
रम् + लँट् । By 3-2-123 वर्तमाने लट्।
= रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= रम् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
= रम् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
= रम् + शप् + ते । By 3-1-68 कर्तरि शप्।
= रमते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
2. Where else (besides in रिरंसुः) has the affix सन् been used in the verses?
Answer: The affix सन् has been used in the form सिसृक्षुः derived from the सन्नन्त-धातुः “सिसृक्ष”।
The सन्नन्त-धातुः “सिसृक्ष” is derived from √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०).
सृज् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
= सृज् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops 7-2-35 आर्धधातुकस्येड् वलादेः।
Note: The affix “स” is a कित् here by 1-2-10 हलन्ताच्च। Hence 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च from applying.
= सृज्स् सृज्स । By 6-1-9 सन्यङोः।
= सर् ज्स् सृज्स । By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
= स सृज्स । By 7-4-60 हलादिः शेषः।
= सि सृज्स । By 7-4-79 सन्यतः।
= सि सृष्स । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः।
= सि सृक्स । By 8-2-41 षढोः कः सि।
= सिसृक्ष । By 8-3-59 आदेशप्रत्यययो:।
“सिसृक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
Now we derive the प्रातिपदिकम् “सिसृक्षु” from the सन्नन्त-धातुः “सिसृक्ष”।
सिसृक्ष + उ । By 3-2-168 सनाशंसभिक्ष उः। Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
= सिसृक्ष् + उ । By 6-4-48 अतो लोपः।
= सिसृक्षु ।
Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “सिसृक्षु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “सिसृक्षु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.
The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
सिसृक्षु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= सिसृक्षु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= सिसृक्षुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
3. What would be an alternate form for विदन्ति?
Answer: The alternate form for विदन्ति is विदुः – derived from the verbal root √विद् (विदँ ज्ञाने २. ५९).
Note: The optional form विदुः is brought about by 3-4-83 विदो लटो वा।
विद् + लँट् । By 3-2-123 वर्तमाने लट्।
= विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= विद् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= विद् + उस् । By 3-4-83 विदो लटो वा – The affixes (“तिप्”, “तस्” etc.) of लँट् following the verbal root √विद् (विदँ ज्ञाने २. ५९ ) optionally get the nine affixes “णल्”, “अतुस्” etc., as replacements respectively.
Note: The nine परस्मैपद-प्रत्यया: [“तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्”, “मस्”] of लँट् optionally get “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व”, “म” as replacements. As per 1-3-10 यथासंख्यमनुदेशः समानाम्, the substitutions are done respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of उस् from getting the इत्-सञ्ज्ञा।
= विद् + शप् + उस् । By 3-1-68 कर्तरि शप्।
= विद् + उस् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
Note: Since उस् is a सार्वधातुक-प्रत्यय: and is अपित् (does not have पकार: as an इत्), it becomes ङिद्वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। Due to this, 1-1-5 क्क्ङिति च stops the गुणादेश: for the इकार: (of the अङ्गम् “विद्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
= विदुः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
4. Can you spot an affix “णिच्” in a तिङन्तं पदम् in the verses?
Answer: The affix “णिच्” has been used in a तिङन्तं पदम् in the form ईरयति, a causative form derived from √ईर् (ईरँ गतौ कम्पने च २. ८).
The विवक्षा is लँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
ईर् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= ईरि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
“ईरि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
ईरि + लँट् । By 3-2-123 वर्तमाने लट्।
= ईरि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= ईरि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= ईरि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= ईरि + शप् + ति । By 3-1-68 कर्तरि शप्।
= ईरि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= ईरे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= ईरयति । By 6-1-78 एचोऽयवायावः।
Note: The form ईरयति can also be derived from the verbal root √ईर् (ईरँ क्षेपे १०. ३४२). In this case the affix “णिच्” is prescribed by 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। Rest of the derivation is the same as above.
5. Where has the सूत्रम् 7-1-59 शे मुचादीनाम् been used in the commentary?
Answer: The सूत्रम् 7-1-59 शे मुचादीनाम् has been used in the form विन्दन्ति derived from √विद् (तुदादि-गणः, विदॢ्ँ लाभे, धातु-पाठः #६. १६८).
The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
विद् + लँट् । By 3-2-123 वर्तमाने लट्।
= विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= विद् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= विद् + श + झि । By 3-1-77 तुदादिभ्यः शः।
= विद् + अ + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
= वि नुँम् द् + अ + झि । By 7-1-59 शे मुचादीनाम् – the eight verbal roots √मुच् (मुचॢँ मोक्षणे (मोचने) #६. १६६), √लुप् (लुपॢँ छेदने #६. १६७), √विद् (विदॢ्ँ लाभे #६. १६८), √लिप् (लिपँ उपदेहे #६. १६९), √सिच् (षिचँ क्षरणे #६. १७०), √कृत् (कृतीँ छेदने #६. १७१), √खिद् (खिदँ परिघाते (परिघातने) #६. १७२) and √पिश् (पिशँ अवयवे #६. १७३) get the “नुँम्”-आगमः when श-प्रत्ययः follows. As per 1-1-47 मिदचोऽन्त्यात्परः the “नुँम्”-आगमः attaches itself after the last vowel (इकार:) of “विद्”।
= वि न् द् + अ + झि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= वि न् द् + अ + अन्ति । By 7-1-3 झोऽन्तः।
= विन्दन्ति । By 6-1-97 अतो गुणे।
6. How would you say this in Sanskrit?
“These boys want to sport in the water.”
Answer: इमे/एते बालकाः जले रिरंसन्ते = इमे/एते बालका जले रिरंसन्ते।
Easy Questions:
1. Where has the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verses?
Answer: The सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ has been used in the form आत्मानम् (पुंलिङ्ग-प्रातिपदिकम् “आत्मन्”, द्वितीया-एकवचनम्।)
आत्मन् + अम् । By 4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा। “अम्” gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
= आत्मान् + अम् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a सर्वनामस्थानम् affix.
= आत्मानम्।
2. The सुबन्त-पदम् “पूर्षु” seen in the commentary is derived from which प्रातिपदिकम्?
Answer: पूर्षु is सप्तमी-बहुवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “पुर्”।
पुर् + सुप् । By 4-1-2 स्वौजसमौट्…। Note: The प्रातिपदिकम् “पुर्” is derived from the verbal root √पॄ (पॄ पालनपूरणयोः ३. ४). As part of the derivation, the ending ॠकार: of “पॄ” takes the गुणादेश: by 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः। Thus the ending रेफ: of the प्रातिपदिकम् “पुर्” belongs to a धातु:।
= पुर् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। The अङ्गम् “पुर्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने।
= पूर् + सु । By 8-2-76 र्वोरुपधाया दीर्घ इकः – The penultimate इक् letter (“इ”, “उ”, “ऋ”, “ऌ”) of a पदम् is elongated when the पदम् ends in a रेफ: or a वकार: of a धातु:। Note: 8-3-15 खरवसानयोर्विसर्जनीयः does not apply here because of the नियम-सूत्रम् 8-3-16 रोः सुपि – When सुप्-प्रत्यय: (सप्तमी-बहुवचनम्) follows, only “रुँ” gets विसर्गः as a replacement, not any other रेफ:।
= पूर्षु । By 8-3-59 आदेशप्रत्यययो:।