Home » Example for the day » अमंस्त 3As-लुँङ्

अमंस्त 3As-लुँङ्

Today we will look at the form अमंस्त 3As-लुँङ् from श्रीमद्भागवतम् 1.15.11.

यो नो जुगोप वनमेत्य दुरन्तकृच्छ्राद्दुर्वाससोऽरिरचितादयुताग्रभुग्यः ।
शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं तृप्ताममंस्त सलिले विनिमग्नसङ्घः ।। १-१५-११ ।।

श्रीधर-स्वामि-टीका
शिष्याणामयुतस्याग्रे तत्पङ्क्तौ भुङ्क्ते यस्तस्माद्दुर्वाससो हेतोररिणा दुर्योधनेन रचितं यद्दुरन्तं कृच्छ्रं शापलक्षणं तस्मात्सकाशान्नोऽस्मान्वनमेत्य जुगोप । किं कृत्वा । शाकमेवान्नं तस्मिन्नेव पात्रेऽवशिष्टमुपयुज्य जग्ध्वा । यत उपयोगात्सलिले विनिमग्नो मुनीनां सङ्घस्त्रिलोकीं तृप्ताममंस्त । एवं हि भारते कथा – ‘कदाचिद्दुर्वाससो दुर्योधनेनातिथ्यं कृतम् । तेन च परितुष्टेन वरं वृणीष्वेत्युक्ते दुर्वाससः शापात्पाण्डवा नश्येयुरिति मनसि विधाय दुर्योधनेनोक्तम् । युधिष्ठिरोऽस्मत्कुलमुख्यः, अतस्तस्यापि भवतैवमेव शिष्यायुतसहितेनातिथिना भवितव्यं, किंतु द्रौपदी यथा क्षुधा न सीदेत्तथा तस्यां भुक्तवत्यां तद्गृहं गन्तवयमिति । ततश्च तथैव दुर्वाससि प्राप्ते परमादरेण युधिष्ठिरेण माध्याह्निकं कृत्वा आगम्यतामिति विज्ञापितो मुनिसङ्घोऽघमर्षणाय जले निममज्ज । तत्र चिन्तातुरया द्रौपद्या स्मृतमात्रः श्रीकृष्णोऽङ्कस्थां रुक्मिणीं हित्वा तत्क्षणमेव भक्तवत्सलतया चागतः । तया चावेदिते वृत्तान्ते भगवतोक्तं – हे द्रौपदि, अहं च बुभुक्षितोऽस्मि प्रथमं मां भोजयेति । तया चातिलज्जयोक्तं – स्वामिन्, मद्भोजनपर्यन्तमक्षयमप्यन्नं सूर्यदत्तस्थाल्यां मया च सर्वान्संभोज्य भुक्तमतो नास्त्यन्नमिति । तथाप्यतिनिर्बन्धेन स्थालीमानाय्य तत्कण्ठलग्नं किंचिच्छाकान्नं प्राश्योक्तमनेन विश्वात्मा भगवान्प्रीयताम् । अथ भोक्तुं मुनिसङ्घमाह्वयेति भीमं प्रहितवान् । स च तावतातितृप्तो वृथापाकभयेन पलायितः’ इति ।। ११ ।।

Gita Press translation – Nay, it was He who saved us from a terrible pitfall contrived by our enemy (Duryodhana) through the sage Durvāsā – who took his meals ahead (in the company) of not less than ten thousand pupils (wherever he went) – by going to the forest and accepting a stray remnant of some vegetable stuff (left in Draupadī’s kettle.) By His doing so the whole host of students (that had accompanied Durvāsā,) while yet immersed in water (for ablutions and prayers,) felt as if all the three worlds had been surfeited (11).

अमंस्त is derived from is derived from the धातुः √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः #४. ७३ )

In the धातु-पाठः, the √मन्-धातुः has one इत् letter which is the अकार: following the नकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √मन्-धातुः takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √मन् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) मन् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मन् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) मन् + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) मन् + सिँच् + त । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(6) मन् + स् + त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

See advanced question.

(7) अट् मन् + स् + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(8) अ मन् + स् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) अमंस्त । By 8-3-24 नश्चापदान्तस्य झलि – नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.

Questions:

1. In the गीता, can you spot a तिङन्त्ं पदम् in which the verbal root √मन् (मनँ ज्ञाने ४. ७३ ) has been used and the लकारः is not लँट्?

2. What would be an optional form for जुगोप?

3. Which सूत्रम् is used for the ईकारादेशः in the form वृणीष्व (used in the commentary)?

4. The form निममज्ज (used in the commentary) is derived from which verbal root?

5. Where has the सूत्रम् 1-3-87 निगरणचलनार्थेभ्यः been used in the commentary?

6. How would you say this in Sanskrit?
“Even the teacher felt that this is a complicated question.” Use the अव्ययम् “इति” (end quote) to express the meaning of “that” and use the adjective प्रातिपदिकम् “जटिल” for “complicated”.

Advanced Question:

1. After step 6, why doesn’t the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति apply?

Easy Questions:

1. In the commentary, can you spot two words in which the सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् has been used?

2. Which सूत्रम् is used for the ह्रस्वादेशः in the form (हे) द्रौपदि (used in the commentary)?


1 Comment

  1. 1. In the गीता, can you spot a तिङन्त्ं पदम् in which the verbal root √मन् (मनँ ज्ञाने ४. ७३ ) has been used and the लकारः is not लँट्?
    Answer: The verbal root √मन् (मनँ ज्ञाने ४. ७३ ) has been used in the form मन्येत, which is a विधि-लिँङ् form.
    नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
    पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ 5-8 ॥

    The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    मन् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् – The affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry or entreaty.
    = मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = मन् + सीयुट् त । By 3-4-102 लिङस्सीयुट्।
    = मन् + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    = मन् + ईय् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = मन् + ईत । By 6-1-66 लोपो व्योर्वलि।
    = मन् + श्यन् + ईत । By 3-1-69 दिवादिभ्यः श्यन्।
    = मन् + य + ईत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = मन्येत । By 6-1-87 आद्गुणः।

    2. What would be an optional form for जुगोप?
    Answer: The alternate forms would be गोपायाञ्चकार/गोपायांचकार, गोपायाम्बभूव/गोपायांबभूव and गोपायामास derived from √गुप् (गुपूँ रक्षणे १. ४६१).
    As per 3-1-31 आयादय आर्धधातुके वा – When the intention is to add a आर्धधातुक-प्रत्यय:, the affixes “आय” etc. (prescribed by the prior three rules – 3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः, 3-1-29 ऋतेरीयङ् and 3-1-30 कमेर्णिङ्) are added to the धातु: only optionally. In जुगोप the optional affix “आय” has not been used.

    In the case where the affix “आय” is used the derivation is as follows:

    गुप् + आय । By 3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः – The roots √गुप् (गुपूँ रक्षणे १. ४६१), √धूप् (धूपँ सन्तापे १. ४६२), √विच्छ् (विच्छँ गतौ ६. १५९), √पण् (पणँ व्यवहारे स्तुतौ च १. ५०७), and √पन् (पनँ च [व्यवहारे स्तुतौ च] १. ५०८) get the आय-प्रत्ययः and their sense is unaffected.
    = गोप् + आय । By 7-3-86 पुगन्तलघूपधस्य च।
    = गोपाय । “गोपाय” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

    गोपाय + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = गोपाय + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि।
    = गोपाय् + आम् + लिँट् । By 6-4-48 अतो लोपः।
    = गोपायाम् । By 2-4-81 आमः।
    = गोपायाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..।
    = गोपायाम् । By 2-4-81 आमः।

    By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
    i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
    ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
    iii. √अस् (असँ भुवि २. ६०) followed by लिँट्

    i) Let us consider the case where √कृ (डुकृञ् करणे ८. १०) is annexed:
    गोपायाम् + कृ + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि।
    = गोपायाम् + कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गोपायाम् + कृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।  As per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोगः the धातुः “गोपाय” takes परस्मैपद-प्रत्ययाः। Hence the auxiliary √कृ (डुकृञ् करणे ८. १०) correspondingly takes a परस्मैपद-प्रत्ययः here as per 1-3-63 आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य – If the धातु: to which आम् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the auxiliary √कृ is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।
    = गोपायाम् + कृ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = गोपायाम् + कृ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = गोपायाम् + कृ कृ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-3-84.
    = गोपायाम् + कर् कृ + अ। By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
    = गोपायाम् + चर् कृ + अ। By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = गोपायाम् + च कृ + अ । By 7-4-60 हलादिः शेषः।
    = गोपायाम् + च कर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = गोपायाम् + चकार । By 7-2-116 अत उपधायाः।
    = गोपायांचकार । By 8-3-23 मोऽनुस्वारः।
    = गोपायाञ्चकार/गोपायांचकार । By 8-4-59 वा पदान्तस्य।

    ii) Let us consider the case where √भू (भू सत्तायाम् १. १) is annexed:
    गोपायाम् + भू + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि।
    = गोपायाम् + भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गोपायाम् + भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गोपायाम् + भू + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = गोपायाम् + भू + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = गोपायाम् + भू वुक् + अ । By 6-4-88 भुवो वुग्लुङ्लिटोः।
    = गोपायाम् + भू व् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “वुक्” is उच्चारणार्थ:।
    = गोपायाम् + भूव् भूव् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = गोपायाम् + भू भूव् + अ । By 7-4-60 हलादिः शेषः।
    = गोपायाम् + भु भूव् + अ । By 7-4-59 ह्रस्वः।
    = गोपायाम् + भ भूव् + अ । By 7-4-73 भवतेरः।
    = गोपायाम्बभूव । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।
    Two optional forms here are गोपायाम्बभूव/गोपायांबभूव by 8-3-23 मोऽनुस्वारः and 8-4-59 वा पदान्तस्य।

    iii) Let us consider the case where √अस् (असँ भुवि २. ६०) is annexed:
    गोपायाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि।
    = गोपायाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गोपायाम् + अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गोपायाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = गोपायाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = गोपायाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः।
    = गोपायाम् + आस् अस् + अ । By 7-4-70 अत आदेः।
    = गोपायाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः।
    = गोपायाम् + आ आस् + अ । By 7-2-116 अत उपधायाः।
    = गोपायामास । By 6-1-101 अकः सवर्णे दीर्घः।

    3. Which सूत्रम् is used for the ईकारादेशः in the form वृणीष्व (used in the commentary)?
    Answer: The सूत्रम् 6-4-113 ई हल्यघोः is used for the ईकारादेश: in the form वृणीष्व derived from √वृ (वृङ् सम्भक्तौ ९. ४५).

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    वृ+ लोँट् । By 3-3-162 लोट् च ।
    = वृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वृ + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = वृ + से । By 3-4-80 थासस्से।
    = वृ + स्व । By 3-4-91 सवाभ्यां वामौ।
    = वृ + श्ना + स्व । By 3-1-81 क्र्यादिभ्यः श्ना।
    = वृ + ना + स्व । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वृ + नी + स्व । By 6-4-113 ई हल्यघोः, when followed by a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is substituted by ईकारः, excepting the आकारः of the verbal roots having the घु-सञ्ज्ञा। Note: Since the सार्वधातुक-प्रत्यय: “स्व” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-113 to apply.
    = वृ + नी + ष्व । 8-3-59 आदेशप्रत्यययोः।
    = वृणीष्व । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्।

    4. The form निममज्ज (used in the commentary) is derived from which verbal root?
    Answer: The form निममज्ज is derived from the verbal root √मस्ज् (टुमस्जोँ शुद्धौ ६. १५१).
    The “टु” at the beginning of “टुमस्जोँ” gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ओकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Both the “टु” and the “ओ” take लोप: by 1-3-9 तस्य लोपः and only “मस्ज्” remains.

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    मस्ज् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = मस्ज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मस्ज् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = मस्ज् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = मस्ज् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मस्ज् मस्ज् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य ।
    = म मस्ज् + अ । By 7-4-60 हलादिः शेषः।
    = म मश्ज् + अ । By 8-4-40 स्तोः श्चुना श्चुः।
    = म मज्ज् + अ । By 8-4-53 झलां जश् झशि।
    = ममज्ज ।

    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    नि + ममज्ज = निममज्ज ।

    5. Where has the सूत्रम् 1-3-87 निगरणचलनार्थेभ्यः been used in the commentary?
    Answer: The सूत्रम् 1-3-87 निगरणचलनार्थेभ्यः has been used in the causative form भोजय derived from √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७).

    The विवक्षा is लोँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, एकवचनम्।
    भुज् + णिच् । By 3-1-26 हेतुमति च।
    = भुज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भोजि । By 7-3-86 पुगन्तलघूपधस्य च। “भोजि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    भोजि + लोँट् । By 3-3-162 लोट् च।
    = भोजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भोजि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-87 निगरणचलनार्थेभ्यः – When used in the causative, a verbal root which has the sense of ‘eating or swallowing’ or ‘shaking or moving’ takes a परस्मैपद-प्रत्ययः।
    = भोजि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भोजि + हि । By 3-4-87 सेर्ह्यपिच्च।
    = भोजि + शप् + हि । By 3-1-68 कर्तरि शप्।
    = भोजि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = भोजे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भोजय + हि । By 6-1-78 एचोऽयवायावः।
    = भोजय । By 6-4-105 अतो हेः।

    6. How would you say this in Sanskrit?
    “Even the teacher felt that this is a complicated question.” Use the अव्ययम् “इति” (end quote) to express the meaning of “that” and use the adjective प्रातिपदिकम् “जटिल” for “complicated”.
    Answer: अयम् प्रश्नः जटिलः इति गुरुः/शिक्षकः अपि अमंस्त = अयं प्रश्नो जटिल इति गुरुरप्यमंस्त/शिक्षकोऽप्यमंस्त।

    Advanced Question:

    1. After step 6, why doesn’t the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति apply?
    Answer: The वृत्ति: of the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति says “हलन्तानाम् अनिदिताम् अङ्गानाम् उपधाया नस्य लोपः किति ङिति।”- The penultimate नकारः of bases that end in a consonant and that do not have इकारः as a marker, takes लोपः when followed by an affix that has ककारः or ङकारः as a marker.
    Here in step 6, the अङ्गम् “मन् + स्” is followed by the सार्वधातुकम् affix “त”। By 1-2-4 सार्वधातुकमपित् the affix “त” behaves ङिद्वत् – as if it has ङकार: as a इत्। But the अङ्गम् “मन् + स्” is इदित् because it contains the affix “सिँच्” which has इकारः as a marker. This stops 6-4-24 from applying. This is the reason why the इकारः of सिँच् is considered as a इत् as opposed to just उच्चारणार्थम्।

    Easy Questions:

    1. In the commentary, can you spot two words in which the सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् has been used?
    Answer: The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् has been used in अरिणा (पुंलिङ्ग-प्रातिदिकम् “अरि”, तृतीया-एकवचनम्) and अतिथिना (पुंलिङ्ग-प्रातिदिकम् “अतिथि”, तृतीया-एकवचनम्)

    अरि + टा । By 4-1-2 स्वौजसमौट्छष्टा………। “अरि” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = अरि + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अरिना । By 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. “आङ्” is an ancient name for the (instrumental singular) affix “टा”
    = अरिणा । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    अतिथि + टा । By 4-1-2 स्वौजसमौट्छष्टा………। “अतिथि” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = अतिथि + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अतिथिना । By 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. “आङ्” is an ancient name for the (instrumental singular) affix “टा”

    2. Which सूत्रम् is used for the ह्रस्वादेशः in the form (हे) द्रौपदि (used in the commentary)?
    Answer: The सूत्रम् 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः is used for the ह्रस्वादेशः in the form (हे) द्रौपदि (स्त्रीलिङ्ग-प्रातिपदिकम् “द्रौपदी”, सम्बुद्धि:।)
    (हे) द्रौपदी + सुँ । By 4-1-2 स्वौजसमौट्… । Here “सुँ” has सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं सम्बुद्धिः। “द्रौपदी” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = (हे) द्रौपदी + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) द्रौपदि + स् । By 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः, an अङ्गम् that has the meaning of अम्बा (mother) or ends in a term having the नदी-सञ्ज्ञा, gets substituted by a short vowel if सम्बुद्धि: (vocative singular affix) follows.
    = (हे) द्रौपदि । By 6-1-69 एङ्ह्रस्वात् सम्बुद्धे:।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics