Today we will look at the form रिरक्षिषुः mNs from श्रीमद्भागवतम् 4.17.35.
स वै भवानात्मविनिर्मितं जगद्भूतेन्द्रियान्तःकरणात्मकं विभो । संस्थापयिष्यन्नज मां रसातलादभ्युज्जहाराम्भस आदिसूकरः ॥ ४-१७-३४ ॥
अपामुपस्थे मयि नाव्यवस्थिताः प्रजा भवानद्य रिरक्षिषुः किल । स वीरमूर्तिः समभूद्धराधरो यो मां पयस्युग्रशरो जिघांससि ॥ ४-१७-३५ ॥
श्रीधर-स्वामि-टीका –
प्राणिनां धारणार्थं मां रसातलादुद्धृत्येदानीं प्रजारक्षणे प्रवृत्तस्य मद्वधो न युक्त इति सकरुणमाह द्वाभ्याम् । हे अज, यः सृष्टवान्स एव भवान्स्वनिर्मितं चराचरं जगत्सम्यक् स्थापयितुमादिसूकरः सन् मामभ्युज्जहार ॥ ३४ ॥ स एव धराधरो वराहोऽद्य अपामुपस्थे उपरि मयि नावि आधारभूतायामवस्थिताः प्रजा रक्षितुमिच्छुर्वीरमूर्तिः पृथुरूपः समभूत्। एवंभृतो यः स त्वं पयसि निमित्ते मां जिघांससीति चित्रमित्यर्थः ॥ ३५ ॥
Gita Press translation – It is You, O birthless Lord, who, in order to place on a sound footing the creation brought forth by You and consisting of the five gross elements, the Indriyas and the inner sense, lifted me up from the depths of the ocean and took me out of water assuming the form of the primaeval Boar (34). Appearing in the form of a hero, You, who once played the role of lifting up the earth, now seek to kill me with Your fierce arrows for the sake of milk, keen as You are to protect (all) created beings who have taken up their abode in me as in a boat on the surface of water! (35)
The सन्नन्त-धातुः “रिरक्षिष” is derived from √रक्ष् (भ्वादि-गणः, रक्षँ पालने, धातु-पाठः #१. ७४६)
(1) रक्ष् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).
(2) रक्ष् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(3) रक्ष् + इट् स । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।
(4) रक्ष् + इस । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
(5) रक्ष् रक्षिस । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
(6) र रक्षिस । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
(7) रि रक्षिस । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।
(8) रिरक्षिष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
“रिरक्षिष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
Now we derive the प्रातिपदिकम् “रिरक्षिषु” from the सन्नन्त-धातुः “रिरक्षिष”।
(9) रिरक्षिष + उ । By 3-2-168 सनाशंसभिक्ष उः – The affix “उ” is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः “आङ्”
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
(10) रिरक्षिष् + उ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.
= रिरक्षिषु ।
Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “रिरक्षिषु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “रिरक्षिषु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.
The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
(11) रिरक्षिषु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
(12) रिरक्षिषु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
(13) रिरक्षिषुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
Questions:
1. Where the verbal root √रक्ष् (रक्षँ पालने १. ७४६) used in a तिङन्तं पदम् in the गीता?
2. Can you spot an affix णल् in the verses?
3. In the verses can you spot a word in which the affix सिँच् has taken the लुक् elision?
4. Where has the सूत्रम् 7-3-55 अभ्यासाच्च been used in the verses?
5. How would you say this in Sanskrit?
“I want to protect these cows.”
6. How would you say this in Sanskrit?
“Everyone wants to conquer death.”
Easy Questions:
1. In the verses can you spot a प्रातिपदिकम् which is always used in the plural?
2. In the verses can you spot a प्रातिपदिकम् which ends in a औकारः (letter “औ”)?
1. Where the verbal root √रक्ष् (रक्षँ पालने १. ७४६) used in a तिङन्तं पदम् in the गीता?
Answer: The verbal root √रक्ष् (रक्षँ पालने १. ७४६) has been used in the form अभिरक्षन्तु in the following verse:
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ 1-11 ॥
The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
रक्ष् + लोँट् । By 3-3-162 लोट् च।
= रक्ष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= रक्ष् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= रक्ष् + झु । By 3-4-86 एरुः।
= रक्ष् + शप् + झु । By 3-1-68 कर्तरि शप्।
= रक्ष् + अ + झु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= रक्ष् + अ + अन्तु । By 7-1-3 झोऽन्तः।
= रक्षन्तु । By 6-1-97 अतो गुणे।
“अभि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अभि + रक्षन्तु = अभिरक्षन्तु ।
2. Can you spot an affix णल् in the verses?
Answer: An affix णल् can be seen in the form अभ्युज्जहार derived from √हृ (हृञ् हरणे १. १०४६).
The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
हृ + लिँट् । By 3-2-115 परोक्षे लिँट् ।
= हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= हृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= हृ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः – When they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
= हृ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= हृ हृ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-3-84 सार्वधातुकार्धधातुकयोः।
= हर् हृ + अ । By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
= ह हृ + अ । By 7-4-60 हलादिः शेषः।
= झ हृ + अ । By 7-4-62 कुहोश्चुः।
= झ हर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
= झहार । By 7-2-116 अत उपधायाः।
= जहार । By 8-4-54 अभ्यासे चर्च।
“अभि” and “उद्” are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अभि + उद् + जहार = अभ्युज्जहार । By 6-1-77 इको यणचि, 8-4-40 स्तोः श्चुना श्चुः।
3. In the verses can you spot a word in which the affix सिँच् has taken the लुक् elision?
Answer: The affix सिँच् has taken the लुक् elision in the form समभूत् derived from √भू (भू सत्तायाम् १. १).
The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
भू + लुँङ् । By 3-2-110 लुङ्।
= भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= भू + त् । By 3-4-100 इतश्च।
= भू + च्लि + त् । By 3-1-43 च्लि लुङि।
= भू + सिँच् + त् । By 3-1-44 च्लेः सिच्।
= भू + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).
Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.
= अट् भू + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
= अभूत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
“सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
सम् + अभूत् = समभूत् ।
4. Where has the सूत्रम् 7-3-55 अभ्यासाच्च been used in the verses?
Answer: The सूत्रम् 7-3-55 अभ्यासाच्च has been used for the घकारादेशः in the desiderative form जिघांससि।
The सन्नन्त-धातुः “जिघांस” is derived from √हन् (हनँ हिंसागत्योः २. २). The derivation is as follows:
हन् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
= हन् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops 7-2-35 आर्धधातुकस्येड् वलादेः।
= हान् + स । By 6-4-16 अज्झनगमां सनि।
= हान् स् हान् + स । By 6-1-9 सन्यङोः।
= झान् स् हान् + स । By 7-4-62 कुहोश्चुः।
= झा हान् + स । By 7-4-60 हलादिः शेषः।
= झ हान् + स । By 7-4-59 ह्रस्वः।
= झि हान् + स । By 7-4-79 सन्यतः।
= झि घान् + स । By 7-3-55 अभ्यासाच्च – The हकार: of √हन् (हनँ हिंसागत्योः #२. २) takes a कवर्गादेश: (घकार:) when it follows a अभ्यास:।
= झि घांस । By 8-3-24 नश्चापदान्तस्य झलि।
= जिघांस । By 8-4-54 अभ्यासे चर्च।
“जिघांस” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
जिघांस + लँट् । By 3-2-123 वर्तमाने लट्।
= जिघांस + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= जिघांस + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-62 पूर्ववत् सनः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
= जिघांस + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= जिघांस + शप् + सि । By 3-1-68 कर्तरि शप्।
= जिघांस + अ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= जिघांससि । By 6-1-97 अतो गुणे।
5. How would you say this in Sanskrit?
“I want to protect these cows.”
Answer: इमाः/एताः गाः रिरक्षिषामि = इमा/एता गा रिरक्षिषामि।
6. How would you say this in Sanskrit?
“Everyone wants to conquer death.”
Answer: सर्वः मृत्युम् जिगीषति = सर्वो मृत्युं जिगीषति।
Easy Questions:
1. In the verses can you spot a प्रातिपदिकम् which is always used in the plural?
Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् “अप्” (used in the form अपाम्) is a नित्यं बहुवचनान्त-शब्द:।
The विवक्षा is षष्ठी-बहुवचनम्।
अप् + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= अपाम् । 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा।
2. In the verses can you spot a प्रातिपदिकम् which ends in a औकारः (letter “औ”)?
Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् “नौ” (used in the form नावि) ends in a औकारः।
The विवक्षा is सप्तमी-एकवचनम्।
नौ + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
= नौ + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= नावि । By 6-1-78 एचोऽयवायावः।